Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 5 (தக்ஷன் நாரதரை சபித்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தக்ஷன் நாரதரை சபித்தார்

ஸ்கந்தம் 6: அத்யாயம் 5

 

श्री-शुक उवाच
तस्यम् स पाञ्चजन्याम् वै विष्णु-माया-उपबृंहित।
हर्य- अश्व-संज्ञानयुतम् पुत्रान् अजनयद् विभुः ॥ १ ॥

अपृथक् धर्म-शीलाः ते सर्वे दाक्षायणा नृप।
पित्रा प्रोक्ताः प्रजा-सर्गे प्रतीचीं प्रययुः दिशम् ॥ २ ॥

तत्र नारायण-सरस्-तीर्थं सिन्धु-समुद्रयोः।
सङ्गमो यत्र सुमहन् मुनि-सिद्ध-निषेवितम् ॥ ३ ॥

तद् उपस्पर्शनात् एव विनिर्धूत-मलाशयाः।
धर्मे पार-महंस्ये च प्रोत्पन्न-मतयः अपि उत ॥ ४ ॥

ते पिरे तप एवो-ग्रं पितृ-आदेशेन यन्त्रिताः।
प्रजा-विवृद्धये यत्तान् देव-र्षि-स्तान् ददर्श ह ॥ ५ ॥

उवाच चाथ हर्य- अश्वाः कथं स्रक्ष्यथ वै प्रजाः।
अदृष्ट्वा अन्तं भुवः यूयं बालिशा बत पालकाः ॥ ६ ॥

तथैक-पुरुषं राष्ट्रं बिलं च अदृष्ट-निर्गमम्।
बहु- रूपां स्त्रियं च अपि पुमांसं पुञ्श्च-लीपतिम् ॥ ७ ॥

नदीम् उभयतो वाहां पञ्च-पञ्चाद्भुतं गृहम्।
क्वचित् धंसं चित्र-कथं क्षौर-पव्यं स्वयं भ्रमिम् ॥ ८ ॥

कथं स्व-पितृ-आदेशं अविद्वांसः विपश्चितः।
अनुरूपम् अविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥

श्री-शुक उवाच
तन्निशम्याथ हर्य- अश्वा औत्पत्तिकम् अनीषया।
वाचः-कूटं तु देव-र्षेः स्वयं विममृशुर्धिया ॥ १० ॥

भूः क्षेत्रं जीव-संज्ञं यद् अनादि निज-बन्धनम्।
अदृष्ट्वा तस्य निर्वाणं किमसत् कर्मभिः भवेत् ॥ ११ ॥

एक एव ईश्वरः तुर्यः भगवान् स्व-आश्रयः परः।
तम् अदृष्ट्वा अभवं पुंसः किमसत् कर्मभिः भवेत् ॥ १२ ॥

पुमान् नैव एति यद् गत्वा बिल-स्वर्गं गतो यथा।
प्रत्यग् धामाविद् इह किमसत् कर्मभिः भवेत् ॥ १३ ॥

नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता।
तन्निष्ठा मगतः येह किमसत् कर्मभिः भवेत् ॥ १४ ॥

तत् सङ्ग-भ्रंशित ऐश्वर्यं संसरन्तं कुभार्यवत्।
तद् गतीर बुधस्येह किमसत् कर्मभिः भवेत् ॥ १५ ॥

सृष्ट्यप्य यकरीं मायां वेला-कूलान्त-वेगिताम्।
मत्तस्य ताम् अविज्ञस्य किमसत् कर्मभिः भवेत् ॥ १६ ॥

पञ्चविंशति तत्त्वानां पुरुषोऽद्भुत-दर्पणम्।
अध्यात्म-मबुधस्येह किमसत् कर्मभिः भवेत् ॥ १७ ॥

ऐश्वरं शास्त्रम् उत्सृज्य बन्ध-मोक्षान् उदर्शनम्।
विविक्त- पदम् अज्ञाय किमसत् कर्मभिः भवेत् ॥ १८ ॥

काल-चक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्।
स्वतन्त्रम् अबुधस्येह किमसत् कर्मभिः भवेत् ॥ १९ ॥

शास्त्रस्य पितृ-आदेशं यो न वेद निवर्तकम्।
कथं तद् अनुरूपाय गुण-विश्रम्भ्य उपक्रमेत् ॥ २० ॥

श्री-शुक उवाच
इति व्यवसिता राजन् हर्य-अश्वा एक-चेतसः।
प्रययुः तं परिक्रम्य पन्थानम् अनिवर्तनम् ॥ २१ ॥

स्वर-ब्रह्मणि निर्भात हृषीकेश-पदाम्बुजे।
अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ॥ २२ ॥

नाशं निशम्य पुत्राणां नारदा-च्छील-शालिनाम्।
अन्वतप्यत कः शोचन् सुप्रजास्त्वं शुचां पदम् ॥ २३ ॥

स भूयः पाञ्चजन्यायाम् अजेन परिसान्त्वितः।
पुत्रान् अजनयद् दक्षः शबल- अश्वान् सहस्रिणः ॥ २४ ॥

तेऽपि पित्रा समादिष्टाः प्रजा-सर्गे धृत-व्रताः।
नारायण-सरो जग्मुः यत्र सिद्धाः स्व-पूर्वजाः ॥ २५ ॥

तद् उपस्पर्शनात् एव विनिर्धूत-मलाशयाः।
जपन्तो ब्रह्म परमं ते पुस् तत्र महत् तपः ॥ २६ ॥

अब्भक्षाः कतिचिन् मासान् कतिचिद् वायु-भोजनाः।
आराधयन् मन्त्र-मिमम् अभ्यस्यन्त इड-सपतिम् ॥ २७ ॥

ॐ नमो नारायणाय पुरुषाय महात्मने।
विशुद्ध-सत्त्व-धिष्ण्याय महा-हंसाय धीमहि ॥ २८ ॥

इति तान् अपि राजेन्द्र प्रतिसर्ग-धियो मुनिः।
उपेत्य नारदः प्राह वाचः-कूटानि पूर्ववत् ॥ २९ ॥

दाक्षायणाः संशृणुत गदतो निगमं मम।
अन्विच्छता अनुपद्वीं भ्रातृणां भ्रातृ-वतःलाः ॥ ३० ॥

भ्रातृणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्।
स पुण्य-बन्धुः पुरुषो मरुद्भिः सह मोदते ॥ ३१ ॥

एतावद् उक्त्वा प्रययौ नारदः अमोघ-दर्शनः।
तेऽपि चान्वगमन मार्गं भ्रातृणाम् एव मारिष ॥ ३२ ॥

स ध्री-चीनं प्रती-चीनं परस्य अनु-पथं गताः।
न आद्यापि ते निवर्तन्ते पश्चिमा यामिनी-रिव् ॥ ३३ ॥

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः।
पूर्व-वत् नारद-कृतं पुत्र-नाशम् उपाशृणोत् ॥ ३४ ॥

चुक्रोध नारदायासौ पुत्र-शोक-विमूर्च्छितः।
देव-र्षि मुपलभ्याह रोषात् विस्फुरित-आधारः ॥ ३५ ॥

श्री-दक्ष उवाच
अहो असाधो साधूनां साधु-लिङ्गेन नस्त्वया।
असाध्व-कार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६ ॥

ऋणैः त्रिभिर् अमुक्तानाम् मीमांसित-कर्मणाम्।
विघातः श्रेयसः पाप लोकयोः उभयोः कृतः ॥ ३७ ॥

एवं त्वं निर-अनुक्रोशो बालानां मति-बिद्ध-रेः।
पार्षद-मध्ये च रसि यशोऽहा निर-पत्र-पः ॥ ३८ ॥

ननु भागवता नित्यं भूत-अनुग्रह- कातराः।
ऋते त्वां सौहृद-घ्नं वै वैरङ्करम् अवैरिणाम् ॥ ३९ ॥

नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा।
मन्यसे यद्युपशमं स्नेह-पाश-नि-कृन्तनम् ॥ ४० ॥

न-अनुभूय न जानाति पुमान् विषय-तीक्ष्णताम्।
निर्विद्यते स्वयं तस्मात् न तथा भिन्न-धीः परैः ॥ ४१ ॥

यत् नस्त्वं कर्म-सन्धानां साधूनां गृह-मेधिनाम्।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥

तन्तु-कृन्तन यत् नस्त्वं अभद्रं अचरः पुनः।
तस्मात् लोकेषु ते मूढ न भवेत् भ्रमतः पदम् ॥ ४३ ॥

श्री-शुक उवाच
प्रतिजग्राह तद् बा ढं नारदः साधु-सम्मतः।
एतावान् साधु-वादा हि तितिक्षेत् ईश्वरः स्वयम् ॥ ४४ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे नारद-शापो नाम पञ्चमोऽध्याय ॥ ५ ॥

No comments: