ப்ரத்யும்னன் பிறப்பு
ஸ்கந்தம் 10: அத்யாயம் 55
श्री-शुकः उवाच –
कामः तु वासुदेव-अंशः दग्धः प्राक् रुद्र-मन्युना।
देह-उपपत्तये भूयः तम् एव प्रत्यपद्यत॥ १ ॥
सः एव जातः वैदर्भ्याम् कृष्ण-वीर्य-समुद्भवः।
प्रद्युम्नः इति विख्यातः सर्वतः अनवमः पितुः॥ २ ॥
तम् शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम्।
सः विदित्वा आत्मनः शत्रुम् प्रास्य उदन्वति अगात् गृहम्॥ ३ ॥
तम् निर्जगार बलवान् मीनः सः अपि अपरैः सह।
वृतः जालेन महता गृहीतः मत्स्य-जीविभिः॥ ४ ॥
तम् शम्बराय कैवर्ताः उपाजह्रुः उपायनम्।
सूदा महानसम् नीत्वा अवद्यान् स्व-धिति-नाद्भुतम्॥ ५ ॥
दृष्ट्वा तत् उदरे बालम् मायावत्यै न्यवेदयन्।
नारदः अकथयत् सर्वम् तस्याः शङ्कित-चेतसः।
बालस्य तत्त्वम् उत्पत्तिम् मत्स्य-उदर-निवेशनम्॥ ६ ॥
सा च कामस्य वै पत्नी रतिः नाम यशस्विनी।
पत्युः निर्दग्ध-देहस्य देह-उत्पत्तिम् प्रतीक्षती॥ ७ ॥
निरूपिता शम्बरेण सा सूप-ओदन-साधने।
काम-देवम् शिशुम् बुद्ध्वा चक्रे स्नेहम् तत् अर्भके॥ ८ ॥
न अति-दीर्घेण कालेन सः कार्ष्णिः रूढ-यौवनः।
जनयामास नारीणाम् वीक्षन्तीनाम् च विभ्रमम्॥ ९ ॥
सा तम् पतिम् पद्म-दल-आयत-ईक्षणम्
प्रलम्ब-बाहुम् नर-लोक-सुन्दरम्।
स-व्रीड-हास-उत्तभित-भ्रुव्-ईक्षणी
प्रीत्या उपतस्थे रतिः अङ्ग सौरतैः॥ १० ॥
ताम् अह भगवान् कार्ष्णिः मातः ते मतिः अन्यथा।
मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा॥ ११ ॥
रतिः उवाच –
भवान् नारायण-सुतः शम्बरेण आहृतः गृहात्।
अहम् ते अधिकृता पत्नी रतिः कामः भवान् प्रभो॥ १२ ॥
एषः त्वा अनिर्दशम् सिन्धौ अक्षिपत् शम्बरः असुरः।
मत्स्यः अग्रसीत् तत् उदरात् इह प्राप्तः भवान् प्रभो॥ १३ ॥
तम् इमम् जहि दुर्धर्षम् दुर्जयम् शत्रुम् आत्मनः।
माया-शत-विदम् त्वम् च माया-भिः मोहन-आदिभिः॥ १४ ॥
परीशोचति ते माता कुररी-इव गत-प्रजा।
पुत्र-स्नेह-आकुला दीना विवत्सा गौः इव आतुरा॥ १५ ॥
प्रभाष्य एवं ददौ विद्याम् प्रद्युम्नाय महा-आत्मने।
मायावती महा-मायाम् सर्व-माया-विनाशिनीम्॥ १६ ॥
सः च शम्बरम् अभ्येत्य संयुगाय समाह्वयत्।
अविषह्यैः तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम्॥ १७ ॥
सः अधिक्षिप्तः दुर्वाचोभिः पद-आहतः इव उरगः।
निश्चक्राम गदा-पाणिः अमर्षात् ताम्र-लोचनः॥ १८ ॥
गदाम् आविध्य तरसा प्रद्युम्नाय महा-आत्मने।
प्रक्षिप्य व्यनदत् नादम् वज्र-निष्पेष-निष्ठुरम्॥ १९ ॥
ताम् आपतन्तीम् भगवान् प्रद्युम्नः गदया गदाम्।
अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदाम् नृप॥ २० ॥
सः च मायाम् समाश्रित्य दैतेयीम् मय-दर्शिताम्।
मुमुचे अस्त्र-मयम् वर्षम् कार्ष्णौ वैहायसः असुरः॥ २१ ॥
बाध्यमानः अस्त्र-वर्षेण रौक्मिणेयः महा-रथः।
सत्त्व-आत्मिकाम् महा-विद्याम् सर्व-माया-उपमर्दिनीम्॥ २२ ॥
ततः गौह्यक-गान्धर्व-पैशाच-उरग-राक्षसीः।
प्रायुङ्क्त शतशः दैत्यः कार्ष्णिः व्यधमयत् सः ताः॥ २३ ॥
निशात-मसिम् उद्यम्य स-किरीटम् स-कुण्डलम्।
शम्बरस्य शिरः कायात् ताम्र-अश्मश्रु-ओजसा अहरत्॥ २४ ॥
आकीर्यमाणः दिविजैः स्तुवद्भिः कुसुम-उत्करैः।
भार्यया अम्बर-चारिण्या पुरम् नीतः विहायसा॥ २५ ॥
अन्तःपुर-वरम् राजन् ललना-शत-सङ्कुलम्।
विवेश पत्नीया गगनात् विद्युता इव बलाहकः॥ २६ ॥
तम् दृष्ट्वा जलद-श्यामम् पीत-कौशेय-वाससम्।
प्रलम्ब-बाहुम् ताम्र-अक्षम् सुस्मितम् रुचिर-आननम्॥ २७ ॥
स्वलङ्कृत-मुख-अम्भोजम् नील-वक्र-आल-कालिभिः।
कृष्णम् मत्वा स्त्रियः ह्रीताः निलिल्युः तत्र तत्र ह॥ २८ ॥
अवधार्य शनैः ईषत्-वैलक्षण्येन योषितः।
उपजग्मुः प्रमुदिताः स-स्त्री-रत्नम् सुविस्मिताः॥ २९ ॥
अथ तत्र आसित-अपाङ्गी वैदर्भी वल्गु-भाषिणी।
अस्मरत् स्व-सुतम् नष्टम् स्नेह-स्नुत-पयोधरा॥ ३० ॥
कः नु अयम् नर-वैदूर्यः कस्य वा कमल-ईक्षणः।
धृतः कया वा जठरे का इयम् लब्धा तु अनेन वा॥ ३१ ॥
मम च अपि आत्मजः नष्टः नीतः यः सूतिका-गृहात्।
एतत्-तुल्य-वयः-रूपः यदि जीवति कुत्रचित्॥ ३२ ॥
कथम् तु अनेन सम्प्राप्तम् सारूप्यम् शार्ङ्ग-धन्वनः।
आकृत्या अवयवैः गत्या स्वर-हास-आवलोकनैः॥ ३३ ॥
सः एव वा भवेत् नूनम् यः मे गर्भे धृतः अर्भकः।
अमुष्मिन् प्रीतिः अधिका वामः स्फुरति मे भुजः॥ ३४ ॥
एवम् मीमांसमानायाम् वैदर्भ्याम् देवकी-सुतः।
देवक्या अनक-दुन्दुभ्याम् उत्तम-श्लोकः आगमत्॥ ३५ ॥
विज्ञात-अर्थः अपि भगवान् तूष्णीम् आस जनार्दनः।
नारदः अकथयत् सर्वम् शम्बर-हरण-आदिकम्॥ ३६ ॥
तत् श्रुत्वा महत् आश्चर्यम् कृष्ण-अन्तःपुर-योषितः।
अभ्यनन्दन् बहून् अब्दान् नष्टम् मृतम् इव आगतम्॥ ३७ ॥
देवकी वसुदेवः च कृष्ण-रामौ तथा स्त्रियः।
दम्पती तौ परिष्वज्य रुक्मिणी च ययुः मुदम्॥ ३८ ॥
नष्टम् प्रद्युम्नम् आयातम् आकर्ण्य द्वारका-उकसः।
अहो मृतः इव आयातः बालः दिष्ट्या इति ह अब्रुवन्॥ ३९ ॥
यम् वै मुहुः पितृ-सरूप-निज-ईश-भावाः
तत्-मातरः यद् अभजन् रहः-रूढ-भावाः।
चित्रम् न तत् खलु रमा-आस्पद-बिम्ब-बिम्बे
कामे स्मरे अक्ष-विषये किम् उत अन्य-नार्यः॥ ४० ॥
No comments:
Post a Comment