20800 அரசர்கள் விடுவிப்பு
ஸ்கந்தம் 10: அத்யாயம் 73
श्री शुक उवाच
अयुते द्वे शतानि अष्टौ लीलया युधि निर्जिताः।
ते निर्गताः गिरि-द्रोण्याम् मलिनाः मल-वससः॥ 1
क्षुत् क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः।
ददृशुः ते घन-श्यामं पीत-कौशेय-वाससम्॥ 2
श्रीवत्स अङ्कं चतुर्बाहुं पद्म-गर्भ-अरुण-ईक्षणम्।
चारु-प्रसन्न-वदनं स्फुरत्-मकर-कुण्डलम्॥ 3
पद्म-हस्तं गदा-शङ्ख-रथ-अङ्गैः उपलक्षितम्।
किरीट-हार-कटक-कटि-सूत्र-अङ्गद-आचितम्॥ 4
भ्राजत्-वर-मणि-ग्रीवं निवीतं वन-मालया।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया॥ 5
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः।
प्रणेमुः हत-पाप्मानः मूर्धभिः पादयोः हरेः॥ 6
कृष्ण-सन्दर्शन-आह्लाद-ध्वस्त-संरोधन-क्लमाः।
प्रशशंसुः हृषीकेशं गीर्भिः प्राञ्जलयः नृपाः॥ 7
राजानः ऊचुः
नमः ते देव-देव-ईश प्रपन्न-आर्ति-हर-अव्यय।
प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः॥ 8
न एषं नाथान् वसूयामः मागधं मधुसूदन।
अनुग्रहः यत् भवतः राज्ञां राज्य-च्युतिः विभो॥ 9
राज्य-ऐश्वर्य-मद-उन्नद्धः न श्रेयः विन्दते नृपः।
त्वत्-माया-मोहितः अनित्याः मन्यते सम्पदः अचलाः॥ 10
मृगतृष्णां यथा बालाः मन्यन्ते उदक-आशयम्।
एवम् वैकारिकीं मायां अयुक्ताः वस्तु चक्षते॥ 11
वयम् पुरा श्रीमत्-अनष्ट-दृष्टयः
जिगीषया अस्य इतर-इतर-स्पृधः।
घ्नन्तः प्रजाः स्वाः अतिनिर्घृणाः प्रभो
मृत्युम् पुरः त्वा अविगणय्य दुर्मदाः॥ 12
ते एव कृष्ण आद्य गभीर-रंहसा
दुरन्त-वीर्येण विचालिताः श्रियः।
कालेन तन्वा भवतः अनुकम्पया
विनष्ट-दर्पाः चरणौ स्मरामः ते॥ 13
अथ नः राज्यं मृगतृष्णि-रूपितम्
देहेन शश्वत् पतता रुजाम् भुवा।
उपासितव्यम् स्पृहयामहे विभो
क्रिया-फलम् प्रेत्य च कर्ण-रोचनम्॥ 14
तम् नः समादिश उपायं येन ते चरण-अब्जयोः।
स्मृतिः यथा न विरमेत् अपि संसरताम् इह॥ 15
कृष्णाय वासुदेवाय हरये परमात्मने।
प्रणत-क्लेश-नाशाय गोविन्दाय नमः नमः॥ 16
श्री शुक उवाच
संस्तूयमानः भगवान् राजभिः मुक्त-बन्धनैः।
तान् आह करुणः तात शरण्यः श्लक्ष्णया गिरा॥ 17
श्री भगवान् उवाच
अद्य-प्रभृति वः भूपाः मयि आत्मनि अखिल-ईश्वरे।
सुदृढा जायते भक्तिः बाढम् आशंसितं तथा॥ 18
दिष्ट्या व्यवसितं भूपाः भवन्तः ऋत-भाषिणः।
श्रि-अैश्वर्य-मद-उन्नाहं पश्य उन्मादकं नृणाम्॥ 19
हैहयः नहुषः वेनः रावणः नरकः अपरे।
श्रीमत्-आद् भ्रंशिताः स्थानात् देव-दैत्य-नर-ईश्वराः॥ 20
भवन्तः एतत् विज्ञाय देहात् उत्पाद्यं अन्तवत्।
माम् यजन्तः अध्वरैः युक्ताः प्रजाः धर्मेण रक्षथ॥ 21
सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भव-अभवौ।
प्राप्तं प्राप्तं च सेवन्तः मत्त्-चित्ताः विचरिष्यथ॥ 22
उदासीनाः च देह-आदौ आत्म-आरामाः धृत-व्रताः।
मयि आवेश्य मनः सम्यक् माम् अन्ते ब्रह्म यास्यथ॥ 23
श्री शुक उवाच
इति आदिश्य नृपान् कृष्णः भगवान् भुवन-ईश्वरः।
तेषाम् न्ययुङ्क्त पुरुषान् स्त्रियः मज्जन-कर्मणि॥ 24
सपर्यां कारयामास सहदेवेन भारत।
नर-देव-उचितैः वस्त्रैः भूषणैः स्रक्-विलेपनैः॥ 25
भोजयित्वा वर-अन्नेन सु-स्नातान् समलङ्कृतान्।
भोगैः च विविधैः युक्तान् ताम्बूल-आद्यैः नृप-उचितैः॥ 26
ते पूजिताः मुकुन्देन राजानः मृष्ट-कुण्डलाः।
विरेजुः मोचिताः क्लेशात् प्रावृण् अन्ते यथा ग्रहाः॥ 27
रथान् स-त्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान्।
प्रीणय्य सूनृतैः वाक्यैः स्व-देशान् प्रत्ययापयत्॥ 28
ते एवम् मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना।
ययुः तम् एव ध्यायन्तः कृतानि च जगत्-पतेः॥ 29
जगुः प्रकृतिभ्यः ते महा-पुरुष-चेष्टितम्।
यथा अन्वशासत् भगवान् तथा चक्रुः अतन्द्रिताः॥ 30
जरासन्धं घातयित्वा भीमसेनन केशवः।
पार्थाभ्याम् संयुतः प्रायात् सहदेवेन पूजितः॥ 31
गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुः जित-आरयः।
हर्षयन्तः स्व-सुहृदः दुर्हृदाम् च असुख-आवहाः॥ 32
तत् श्रुत्वा प्रीत-मनसः इन्द्र-प्रस्थ-निवासिनः।
मेनिरे मागधं शान्तं राजा च आप्त-मनोरथः॥ 33
अभिवन्द्य अथ राजानं भीम-अर्जुन-जनार्दनाः।
सर्वम् आश्रावयन् चक्रुः आत्मना यत् अनुष्ठितम्॥ 34
निशम्य धर्म-राजः तत् केशवेन अनुकम्पितम्।
आनन्द-अश्रु-कलाम् मुञ्चन् प्रेम्णा न ऊवाच किञ्चन॥ 35
No comments:
Post a Comment