நரகாசுரன் நண்பன்
த்விவிதன் வதம்
ஸ்கந்தம் 10: அத்யாயம் 67
श्री राजा उवाच
भुयः अहम् श्रोतुम् इच्छामि रामस्य अद्भुत कर्मणः।
अनन्तस्य अप्रमेयस्य यत् अन्यत् कृतवान् प्रभुः ॥1॥
श्री शुक उवाच
नरकस्य सखा कश्चित् द्विविदः नाम वानरः।
सुग्रीव सचिवः सः अथ भ्राता मैन्दस्य वीर्यवान् ॥2॥
सख्युः सः अपचितिम् कुर्वन् वानरः राष्ट्र विप्लवम्।
पुर ग्राम अकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥3॥
क्वचित् सः शैलान् उत्पाट्य तैः देशान् समचूर्णयत्।
आनर्तान् सुतराम् एव यत्र आस्ते मित्रहा हरिः ॥4॥
क्वचित् समुद्र मध्यस्थः दोर्भ्याम् उत्क्षिप्य तत् जलम्।
देशान् नाग आयुत प्राणः वेला कूलान् अमज्जयत् ॥5॥
आश्रमान् ऋषि मुख्यानाम् कृत्वा भग्न वनस्पतीन्।
अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः ॥6॥
पुरुषान् योषितः दृप्तः क्ष्मा-भृत् द्रोणी गुहासु सः।
निक्षिप्य च अपि अधात् शैलैः पेशस्क- कास्कारी इव कीटकम् ॥7॥
एवम् देशान् विप्रकुर्वन् दूषयन् च कुल स्त्रियः।
श्रुत्वा सुललितम् गीतम् गिरिम् रैवतकं ययौ ॥8॥
तत्र अपश्यत् यदुपतिं रामं पुष्कर मालिनम्।
सुदर्शनीय सर्वाङ्गम् ललना यूथ मध्यगम् ॥9॥
गायन्तम् वारुणीं पीत्वा मद विह्वल लोचनम्।
विभ्राजमानम् वपुषा प्रभिन्नम् इव वारणम् ॥10॥
दुष्टः शाखा मृगः शाखा-आरूढः कम्पयन् द्रुमान्।
चक्रे किलकिला शब्दम् आत्मानम् संप्रदर्शयन् ॥11॥
तस्य धार्ष्ट्यम् कपेः वीक्ष्य तरुण्यः जाति चापलाः।
हास्य प्रियाः विजहसुः बलदेव परिग्रहाः ॥12॥
ताः हेलयामास कपिः भ्रू-क्षेपैः सम्मुख आदि भिः।
दर्शयन् स्व-गुदम् तासाम् रामस्य च निरीक्षितः ॥13॥
तम् ग्राव्णा प्राहरत् क्रुद्धः बलः प्रहरताम् वरः।
सः वञ्चयित्वा ग्रावाणम् मदिरा कलशं कपिः ॥14॥
गृहीत्वा हेलयामास धूर्तः तम् कोपयन् हसन्।
निर्भिद्य कलशं दुष्टः वासांसि आस्फालयत् बलम् ॥15॥
कदर्थीकृत्य बलवान् विप्रचक्रे मद उद्धतः।
तम् तस्य अविनयम् दृष्ट्वा देशान् च तत् उपद्रुतान् ॥16॥
क्रुद्धः मुसलम् आदत्त हलं च अरि-जिघांसया।
द्विविदः अपि महा-वीर्यः शालम् उद्यम्य पाणिना ॥17॥
अभ्येत्य तरसा तेन बलम् मूर्ध्नि अताडयत्।
तम् तु सङ्कर्षणः मूर्ध्नि पतन्तम् अचलः यथा ॥18॥
प्रतिजग्राह बलवान् सु-नन्देन आहनत् च तम्।
मुसल-आहत मस्तिष्कः विरेजे रक्त-धारया ॥19॥
गिरिः यथा गैरिकया प्रहारं न अनुचिन्तयन्।
पुनः अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥20॥
तेन आहनत् सुसङ्क्रुद्धः तम् बलः शतधा अच्छिनत्।
ततः अन्येन रुषा जघ्ने तम् च अपि शतधा अच्छिनत्॥ 21
एवम् युध्यन् भगवता भग्ने भग्ने पुनः पुनः।
आकृष्य सर्वतः वृक्षान् निर्वृक्षम् अकरोत् वनम्॥ 22
ततः अमुञ्चत् शिला वर्षम् बलस्य उपरि अमर्षितः।
तत् सर्वम् चूर्णयामास लीलया मुसल आयुधः॥ 23
सः बाहू ताल सङ्काशौ मुष्टी कृत्वा कपीश्वरः।
आसाद्य रोहिणी पुत्रम् ताभ्याम् वक्षसि अरूरुजत्॥ 24
यादव इन्द्रः अपि तम् दोर्भ्याम् त्यक्त्वा मुसल लाङ्गले।
जत्रौ अभ्यर्दयत् क्रुद्धः सः अपतत् रुधिरम् वमन्॥ 25
चकम्पे तेन पतता सटङ्कः स-व-वनस्पतिः।
पर्वतः कुरु शार्दूल वायुना नौः इव अम्भसि॥ 26
जय शब्दः नमः शब्दः साधु साधु इति च अम्बरे।
सुर सिद्ध मुनि इन्द्राणाम् आसीत् कुसुम वर्षिणाम्॥ 27
एवम् निहत्य द्विविदम् जगत् व्यतिकर आवहम्।
संस्तूयमानः भगवाः जनैः स्व पुरम् आविशत्॥ 28
इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम्
**दशम स्कन्धे उत्तरार्धे द्विविद वधः नाम सप्तषष्टितमः अध्यायः॥ 67॥
No comments:
Post a Comment