பௌண்ட்ரகன்
வதம்
ஸ்கந்தம் 10: அத்யாயம் 66
श्री शुकः उवाच
नन्द-व्रजम् गते रामे करूष-अधिपतिः नृप।
वासुदेवः अहम् इति अज्ञः दूतम् कृष्णाय प्राहिणोत् ॥ 1
त्वम् वासुदेवः भगवान् अवतीर्णः जगत्-पतिः।
इति प्रस्तोभितः बालैः मेने आत्मानम् अच्युतम् ॥ 2
दूतम् च प्राहिणोत् मन्दः कृष्णाय अव्यक्त-वर्त्मने।
द्वारकायाम् यथा बालः नृपः बाल-कृतः अबुधः ॥ 3
दूतः तु द्वारकाम् एत्य सभायाम् आस्थितम् प्रभुम्।
कृष्णम् कमल-पत्र-आक्षम् राजा-सन्देशम् अब्रवीत् ॥ 4
वासुदेवः अवतीर्णः अहम् एकः एव न च अपरः।
भूतानाम् अनुकम्पा-अर्थम् त्वम् तु मिथ्या-अभिधाम् त्यज ॥ 5
यानि त्वम् अस्मत्-चिह्नानि मौढ्यात् बिभर्षि सात्वत।
त्यक्त्वा ऐहि माम् त्वम् शरणम् नो चेत् देहि मम आहवम् ॥ 6
श्री शुकः उवाच
कत्थनम् तत् उपाकर्ण्य पौण्ड्रकस्य अल्प-मेधसः।
उग्रसेन-आदयः सभ्याः उच्चकैः जहसुः तदा ॥ 7
उवाच दूतम् भगवान् परिहास-कथाम् अनु।
उत्स्रक्ष्ये मूढ चिह्नानि यैः त्वम् एवम् विकत्थसे ॥ 8
मुखम् तत् अपिधाय अज्ञ कङ्क-गृध्र-वटैः आवृतः।
शयिष्यसे हतः तत्र भविता शरणम् शुनाम् ॥ 9
इति दूतः तत् आक्शेपम् स्वामिने सर्वम् आहरत्।
कृष्णः अपि रथम् आस्थाय काशीम् उपजगाम ह ॥ 10
पौण्ड्रकः अपि तत् उद्योगम् उपलभ्य महा-रथः।
अक्षौहिणीभ्याम् संयुक्तः निश्चक्राम पुरात् द्रुतम् ॥ 11
तस्य काशी-पतिः मित्रम् पार्ष्णि-ग्राहः अन्वयात् नृप।
अक्षौहिणीभिः तिसृभिः अपश्यत् पौण्ड्रकम् हरिः ॥ 12
शङ्ख-अरि-असि-गदा-शार्ङ्ग-श्रीवत्स-आद्य-उपलक्षितम्।
बिभ्राणम् कौस्तुभ-मणिम् वन-माला-विभूषितम् ॥ 13
कौशेय-वाससी पीते वसानम् गरुड-ध्वजम्।
अमूल्य-मौल्य-आभरणम् स्फुरत्-मकर-कुण्डलम् ॥ 14
दृष्ट्वा तम् आत्मनः तुल्य-वेषम् कृत्रिमम् आस्थितम्।
यथा नटम् रङ्ग-गतम् विजहास भृशम् हरिः ॥ 15
शूलैः गदाभिः परिघैः शक्तिः ऋष्टि-प्रास-तोमरैः।
असिभिः पट्टिशैः बाणैः प्राहरन् अरयः हरिम् ॥ 16
कृष्णः तु तत् पौण्ड्रक-काशि-राजयोः-
बलम् गज-स्यन्दन-वाजि-पत्तिमत्।
गदा-असि-चक्र-इषुभिः आर्दयत् भृशम्
यथा युग-अन्ते हुत-भुक् पृथक् प्रजाः ॥ 17
आयोधनम् तत् रथ-वाजि-कुञ्जर-
द्विपत्-खर-उष्ट्रैः अरिणा अवखण्डितैः।
बभौ चितम् मोद-वहम् मनस्विनाम्-
आक्रीडनम् भूत-पतेः इव उल्बणम् ॥ 18
अथ आह पौण्ड्रकम् शौरिः भो भो पौण्ड्रक यत् भवान्।
दूत-वाक्येन माम् आह तानि अस्त्राणि उत्सृजामि ते ॥ 19
त्याजयिष्ये अभिधानम् मे यत् त्वया अज्ञ मृषा धृतम्।
व्रजामि शरणम् ते अद्य यदि न इच्छामि संयुगम् ॥ 20
इति क्षिप्त्वा शितैः बाणैः विरथीकृत्य पौण्ड्रकम्।
शिरः अवृश्चत् रथाङ्गेन वज्रेण इन्द्रः यथा गिरेः॥ २१
तथा काशीपतेः कायात् शिरः उत्कृत्य पत्रिभिः।
न्यपातयत् काशीपुर्यां पद्म-कोशम् इव अनिलः॥ २२
एवम् मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः।
द्वारकाम् आविशत् सिद्धैः गीयमान-कथा-अमृतः॥ २३
स नित्यं भगवत्-ध्यान-प्रध्वस्त-अखिल-बन्धनः।
बिभ्राणश्च हरेः राजन् स्वरूपं तत्-मयः अभवत्॥ २४
शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम्।
किम् इदम् कस्य वा वक्त्रम् इति संशिशियिरे जनाः॥ २५
राज्ञः काशीपतेः ज्ञात्वा महिष्यः पुत्र-बान्धवाः।
पौराः च हा हताः राजन् नाथ नाथ इति प्रारुदन्॥ २६
सुदक्षिणः तस्य सुतः कृत्वा संस्था-विधिं पितुः।
निहत्य पितृ-हन्तारम् यास्यामि अपचितिं पितुः॥ २७
इति आत्मना अभिसन्धाय स-उपाध्यायः महेश्वरम्।
सुदक्षिणः अर्चयामास परमेण समाधिना॥ २८
प्रीतः अविमुक्ते भगवान् तस्मै वरम् अदात् भवः।
पितृ-हन्तृ-वध-उपायं स वव्रे वरम् ईप्सितम्॥ २९
दक्षिण-अग्निं परिचर ब्राह्मणैः समम् ऋत्विजम्।
अभिचार-विधानेन स च अग्निः प्रमथैः वृतः॥ ३०
साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः।
इति आदिष्टः तथा चक्रे कृष्णाय अभिचरन् व्रती॥ ३१
ततः अग्निः उत्थितः कुण्डात् मूर्तिमान् अति-भीषणः।
तप्त-ताम्र-शिखा-अश्मश्रुः अङ्गार-उद्गारि-लोचनः॥ ३२
दंष्ट्रा-उग्र-भ्रुकुटी-दण्ड-कठोर-आस्यः स्व-जिह्वया।
आलिहन् सृक्किणी नग्नः विधुन्वन् त्रिशिखं ज्वलन्॥ ३३
पद्भ्याम् ताल-प्रमाणाभ्याम् कम्पयन् अवनी-तलम्।
सः अयधावत् वृतः भूतैः द्वारकां प्रदहन् दिशः॥ ३४
तम् अभिचार-दहनम् आयान्तम् द्वारका-उकसः।
विलोक्य तत्रसुः सर्वे वन-दाहे मृगाः यथा॥ ३५
अक्षैः सभायां क्रीडन्तं भगवन्तम् भय-आतुराः।
त्राहि त्राहि त्रि-लोक-ईश वह्नेः प्रदहतः पुरम्॥ ३६
श्रुत्वा तत् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्।
शरण्यः सम्प्रहस्य आह मा भैष्ट इति अविताऽस्मि अहम्॥ ३७
सर्वस्य अन्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः।
विज्ञाय तत्-विघात-अर्थं पार्श्वस्थं चक्रम् आदिशत्॥ ३८
तत् सूर्य-कोटि-प्रतिमं सुदर्शनं
जाज्वल्यमानं प्रलय-अनल-प्रभम्।
स्व-तेजसा खं ककुभः अथ रोदसी
चक्रं मुकुन्द-अस्त्रं अथ अग्निम् आर्दयत्॥ ३९
कृत्या-अनलः प्रतिहतः सः रथाङ्ग-पाणेः
अस्त्र-ओजसा स नृप भग्न-मुखः निवृत्तः।
वाराणसीं परिसमेत्य सुदक्षिणं तम्
स-ऋत्विक्-जनं समदहत् स्व-कृतः अभिचारः॥ ४०
चक्रं च विष्णोः तत् अनुप्रविष्टं
वाराणसीं स-आट्ट-सभा-आलय-आपणाम्।
स-गोपुर-आट्टालक-कोष्ठ-सङ्कुलाम्
स-कोश-हस्ति-अश्व-रथ-अन्न-शालाम्॥ ४१
दग्ध्वा वाराणसीं सर्वां विष्णोः चक्रं सुदर्शनम्।
भूयः पार्श्वम् उपातिष्ठत् कृष्णस्य अ-क्लिष्ट-कर्मणः॥ ४२
यः एतत् श्रावयेत् मर्त्यः उत्तम-श्लोक-विक्रमम्।
समाहितः वा शृणुयात् सर्व-पापैः प्रमुच्यते॥ ४३
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशम-स्कन्धे उत्तरार्धे पौण्ड्रक-आदि-वधः नाम
षट्-षष्टितमः अध्यायः ॥ ६६
No comments:
Post a Comment