பலராமர் ப்ருந்தாவனம் வருகை
ஸ்கந்தம் 10: அத்யாயம் 65
श्री शुक उवाच
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः।
सुहृत्-दिदृक्षुः उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ 1
परिष्वक्तः चिर-उत्कण्ठैः गोपैः गोपीभिः एव च।
रामः अभिवाद्य पितरौ आशीर्भिः अभिनन्दितः ॥ 2
चिरम् नः पाहि दाशार्ह स-अनुजः जगत्-ईश्वरः।
इति आरोप्य अङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुः जलैः ॥ 3
गोप-वृद्धान् च विधिवत् यविष्ठैः अभिवन्दितः।
यथा-वयः यथा-सख्यम् यथा-संबन्धम् आत्मनः ॥ 4
समुपेत्य अथ गोपालान् हास्य-हस्त-ग्रह-आदिभिः।
विश्रान्तम् सुखम् आसीनम् पप्रच्छुः पर्युपागताः ॥ 5
पृष्टाः च अनामयम् स्वेषु प्रेम-गद्गदया गिरा।
कृष्णे कमल-पत्र-अक्षे सन्न्यस्त-अखिल-राधसः ॥ 6
कच्चित् नः बान्धवाः राम सर्वे कुशलम् आसते।
कच्चित् स्मरथ नः राम यूयं दार-सुत-अन्विताः ॥ 7
दिष्ट्या कंसः हतः पापः दिष्ट्या मुक्ताः सुहृत्-जनाः।
निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गम् समाश्रिताः ॥ 8
गोप्यः हसन्त्यः पप्रच्छुः राम-सन्दर्शन-आदृताः।
कच्चित् आस्ते सुखम् कृष्णः पुर-स्त्री-जन-वल्लभः ॥ 9
कच्चित् स्मरति वा बन्धून् पितरम् मातरम् च सः।
अपि असौ मातरम् द्रष्टुम् सकृत् अपि आगमिष्यति।
अपि वा स्मरते अस्माकम् अनुसेवाम् महा-भुजः ॥ 10
मातरम् पितरम् भ्रातृन् पतीन् पुत्रान् स्वसृः अपि।
यत्-अर्थे जहि माम् दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ 11
ताः नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः।
कथम् नु तादृशम् स्त्रीभिः न श्रद्धीयेत भाषितम् ॥ 12
कथम् नु गृह्णन्ति अनवस्थित-आत्मनः
वचः कृतघ्नस्य बुधाः पुर-स्त्रियः।
गृह्णन्ति वै चित्र-कथस्य सुन्दर-
स्मित-अवलोक-उच्छ्वसित-स्मर-आतुराः ॥ 13
किम् नः तत् कथया गोप्यः कथाः कथयत-अपराः।
याति अस्माभिः विना कालः यदि तस्य तथैव नः ॥ 14
इति प्रहसितम् शौरेः जल्पितम् चारु वीक्षितम्।
गतिम् प्रेम-परिष्वङ्गम् स्मरन्त्यः रुरुदुः स्त्रियः ॥ 15
सङ्कर्षणः ताः कृष्णस्य सन्देशैः हृदयङ्गमैः।
सान्त्वयामास भगवान् नाना-अनुनय-कोविदः ॥ 16
द्वौ मासौ तत्र च अवात्सीत् मधुम् माधवम् एव च।
रामः क्षपासु भगवान् गोपीनाम् रतिम् आवहन् ॥ 17
पूर्ण-चन्द्र-कलाम् अृष्टे कौमुदी-गन्ध-वायुना।
यमुना-उपवने रेमे सेविते स्त्री-गणैः वृतः ॥ 18
वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात्।
पतन्ती तत् वनम् सर्वम् स्व-गन्धेन अध्यवासयत् ॥ 19
तम् गन्धम् मधु-धारायाः वायुना उपहृतम् बलः।
आघ्राय उपगतः तत्र ललनाभिः समम् पपौ ॥ 20
उपगीयमान-चरितः वनिताभिः हलायुधः
वनेषु व्यचरत् क्षीबः मद-विह्वल-लोचनः ॥ 21
स्रक्-व्या एक-कुण्डलः मत्तः वैजयन्त्या च मालया
बिभ्रत् स्मित-मुख-अम्भोजम् स्वेद-प्रालेय-भूषितम् ॥ 22
सः आजुहाव यमुनाम् जल-क्रीडा-अर्थम् ईश्वरः।
निजम् वाक्यम् अनादृत्य मत्तः इति आपगाम् बलः।
अनागताम् हल-अग्रेण कुपितः विचकर्ष ह ॥ 23
पापे त्वम् माम् अवज्ञाय यत् न आयासि मया आहूता।
नेष्ये त्वाम् लाङ्गल-अग्रेण शतधा काम-चारिणीम् ॥ 24
एवम् निर्भर्त्सिता भीता यमुना यदु-नन्दनम्।
उवाच चकिता वाचम् पतिता पादयोः नृप ॥ 25
राम राम महा-बाहो न जाने तव विक्रमम्।
यस्य एक-अंशेन विधृता जगती जगतः पते ॥ 26
परम् भावम् भगवतः भगवन् माम् अजानतीम्।
मोक्तुम् अर्हसि विश्व-आत्मन् प्रपन्नाम् भक्तवत्सल ॥ 27
ततः व्यमुञ्चत् यमुनाम् याचितः भगवान् बलः।
विजगाह जलम् स्त्रीभिः करेणुभिः इव इभ-राट् ॥ 28
कामम् विहृत्य सलिलात् उत्तीर्णाय आसीत-अम्बरे।
भूषणानि महा-अर्हाणि ददौ कान्तिः शुभाम् स्रजम् ॥ 29
वसित्वा वाससी नीले मालाम् आमुच्य काञ्चनीम्।
रेये स्व-अलङ्कृतः लिप्तः माहेन्द्रः इव वारणः ॥ 30
अद्य अपि दृश्यते राजन् यमुनाआकृष्ट-वर्त्मना।
बलस्य अनन्त-वीर्यस्य वीर्यम् सूचयति इव हि ॥ 31
एवम् सर्वा निशा याता एका इव रमतः व्रजे।
रामस्य आक्षिप्त-चित्तस्य माधुर्यैः व्रज-योषिताम् ॥ 32
No comments:
Post a Comment