நாரதர்
துவாரகை வருகை
ஸ்கந்தம் 10: அத்யாயம் 69
श्री-शुक उवाच –
नरकम् निहतम् श्रुत्वा तथा उद्वाहम् च योषिताम्।
कृष्णेन एकेन बह्वीनाम् तत् दिदृक्षुः स्म नारदः॥ 1
चित्रम् बत एतत् एका इव वपुषा युगपत् पृथक्।
गृहेषु द्वि-अष्ट-साहस्रम् स्त्रियः एकः उदावहत्॥ 2
इति उत्सुकः द्वारवतीम् देव-ऋषिः द्रष्टुम् आगमत्।
पुष्पित-उपवन-आराम द्विज-आलि-कुल-नादिताम्॥ 3
उत्फुल्ल-इन्दीवर-अम्भोज कह्लार-कुमुद-उत्पलैः।
छुरितेषु सरः-सूच्चैः कूजिताम् हंस-सारसैः॥ 4
प्रासाद-लक्षैः नवभिः जुष्टाम् स्फाटिक-राजतैः।
महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः॥ 5
विभक्त-रथ्या-पथ-चत्वर-अपणैः
शाला-सभा-अभी रुचिराम् सुरालयैः।
संसिक्त-मार्ग-अङ्गण-वीथि-देहलीम्
पतत्-पताका-ध्वज-वारित-आतपाम्॥ 6
तस्याम् अन्तःपुरम् श्रीमत् अर्चितम् सर्व-धिष्ण्यपैः।
हरेः स्व-कौशलम् यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्॥ 7
तत्र षोडशभिः सद्म-सहस्रैः समलङ्कृतम्।
विवेश एकतमम् शौरेः पत्नीनाम् भवनम् महत्॥ 8
विष्टब्धम् विद्रुम-स्तम्भैः वैदूर्य-फलक-उत्तमैः।
इन्द्रनील-मयैः कुड्यैः जगत्या च आहत-त्विषा॥ 9
वितानैः निर्मितैः त्वष्ट्रा मुक्तादाम-विलम्बिभिः।
दान्तैः आसन-पर्यङ्कैः मणि-उत्तम-परिष्कृतैः॥ 10
दासीभिः निष्क-कण्ठीभिः सुवासोभिः अलङ्कृतम्।
पुम्भिः स-कञ्चुक-उष्णीष सुवस्त्र-मणि-कुण्डलैः॥ 11
रत्न-प्रदीप-निकर-द्युतिभिः निरस्त
ध्वान्तम् विचित्र-वलभीषु शिखण्डिनः अङ्गे।
नृत्यन्ति यत्र विहित-अगुरु-धूप-मक्षैः
निर्यान्तम् ईक्ष्य घन-बुद्धयः उन्नदन्तः॥ 12
तस्मिन् समान-गुण-रूप-वयः-सुवेष
दासी-सहस्र-युतया अनु-सवम् गृहिण्या।
विप्रः ददर्श चमर-व्यजनेन रुक्म
दण्डेन सात्वत-पतिम् परिवीजयन्त्या॥ 13
तम् सन्निरीक्ष्य भगवान् सहसा उत्थितः श्री–
पर्यङ्कतः सकल-धर्म-भृताम् वरिष्ठः।
आनम्य पाद-युगलम् शिरसा किरीट–
जुष्टेन साञ्जलिः अवीविशत् आसेने स्वे॥ 14
तस्य अवनिज्य चरणौ तत् अपः स्व-मूर्ध्ना
बिभ्रत् जगत्-गुरु-तमः अपि सताम् पतिः हि।
ब्रह्मण्य-देव इति यत् गुण-नाम युक्तम्
तस्य एव यत् चरण-शौचम् अशेष-तीर्थम्॥ 15
सम्पूज्य देव-ऋषि-वर्म्यम् ऋषिः पुराणः
नारायणः नर-सखः विधिना उदितेन।
वाण्या अभिभाष्य मित-या अमृतम् इष्टया तम्
प्राह प्रभो भगवते करवाम हे किम्॥ 16
श्री-नारद उवाच –
न एव अद्भुतम् त्वयि विभो अखिल-लोक-नाथे
मैत्री जनेषु सकलेषु दमः खलानाम्।
निःश्रेयसाय हि जगत्-स्थितिः रक्षणाभ्याम्
स्वैर-avatāra उरु-गाय विदाम सुष्ठु॥ 17
दृष्टम् तव अङ्घ्रि-युगलम् जन-ता-अपवर्गम्
ब्रह्म-आदिभिः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप-Patita-उत्तरण-आवलम्बम्
ध्यायन् चरामि अनुगृहाण यथा स्मृतिः स्यात्॥ 18
ततः अन्यत् आविशत् गेहम् कृष्ण-पत्न्याः सः नारदः।
योगेश्वर-ईश्वरस्य अङ्ग योग-माया-विवित्सया॥ 19
दीव्यन्तम् अक्षैः तत्र अपि प्रियया च उद्धवेन च।
पूजितः परया भक्त्या प्रत्युत्थान-आसन-आदिभिः॥ 20
पृष्टः च अविदुषा इव असौ कदा आयातः भवन् इति।
क्रियते किम् नु पूर्णानाम् अपूर्णैः अस्मत्-आदिभिः॥ 21
अथ अपि ब्रूहि नः ब्रह्मन् जन्म एतत् शोभनम् कुरु।
सः तु विस्मितः उत्थाय तूष्णीम् अन्यत् अगात् गृहम्॥ 22
तत्र अपि अचष्ट गोविन्दम् लालयन्तम् सुतान् शिशून्।
ततः अन्यस्मिन् गृहे अपश्यन् मज्जनाय कृत-उद्यतम्॥ 23
जुह्वन्तम् च वितान-अग्नीन् यजन्तम् पञ्चभिः मखैः।
भोजयन्तम् द्विजान् क्व अपि भुञ्जानम् अवशेषितम्॥ 24
क्व अपि सन्ध्याम् उपासीनम् जपन्तम् ब्रह्म वाग्यतम्।
एकत्र च आस्ते चर्माभ्याम् चरन्तम् असि-वर्त्मसु॥ 25
अश्वैः गजैः रथैः क्व अपि विचरन्तम् गदा-अग्रजम्।
क्वचित् शयानम् पर्यङ्के स्तूयमानम् च वन्दिभिः॥ 26
मन्त्रयन्तम् च कस्मिन् चित् मन्त्रिभिः च उद्धव-आदिभिः।
जल-क्रीडा-रतम् क्व अपि वारा-मुख्या-बला-आवृतम्॥ 27
कुत्रचित् द्विज-मुख्येभ्यः ददतम् गाः स्व-अलङ्कृताः।
इतिहास-पुराणानि श्रृण्वन्तम् मङ्गलानि च॥ 28
हसन्तम् हास्य-कथया कदाचित् प्रियया गृहे।
क्व अपि धर्मम् सेवमानम् अर्थ-कामौ च कुत्रचित्॥ 29
ध्यायन्तम् एकम् आसीनम् पुरुषम् प्रकृतेः परम्।
शुश्रूषन्तम् गुरून् क्व अपि कामैः भोगैः सपर्यया॥ 30
कुर्वन्तम् विग्रहम् कैश्चित् सन्धिम् च अन्यत्र केशवम्।
कुत्र अपि सह रामेण चिन्तयन्तम् सताम् शिवम्॥ 31
पुत्राणाम् दुहितॄणाम् च काले विवाह-उपायपनम्।
दारैः वरैः तत्-सदृशैः कल्पयन्तम् विभूतिभिः॥ 32
प्रस्थापन-उपनयनैः अपत्यानाम् महा-उत्सवान्।
वीक्ष्य योगेश्वर-ईश्वरस्य येषाम् लोकाः विसिस्मिरे॥ 33
यजन्तम् सकलान् देवान् क्व अपि क्रतुभिः ऊर्जितैः।
पूर्तयन्तम् क्वचित् धर्मम् कूप-आराम-मठ-आदिभिः॥ 34
चरन्तम् मृगयाम् क्व अपि हयम् आरुह्य सैन्धवम्।
घ्नन्तम् ततः पशून् मेध्यान् परीतम् यदु-पुङ्गवैः॥ 35
अव्यक्त-लिङ्गम् प्रकृतिषु अन्तःपुर-गृह-आदिषु।
क्वचित् चरन्तम् योगेशम् तत्-तत्-भाव-बुभुत्सया॥ 36
अथ उवाच हृषीकेशम् नारदः प्रहसन् इव।
योग-माया-उदयं वीक्ष्य मानुषीम् ईयुषः गतिम्॥ 37
विदाम योग-मायाः ते दुर्दर्शा अपि मायिनाम्।
योगेश्वर-आत्मन् निर्भाता भवत्-पाद-निषेवया॥ 38
अनुजानीहि माम् देव लोकान् ते यशसा आप्लुतान्।
पर्यटामि तव उद्गायन् लीलाम् भुवन-पावनीम्॥ 39
श्री-भगवान् उवाच –
ब्रह्मन् धर्मस्य वक्ता अहम् कर्ता तत् अनु-मोदिता।
तत् शिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः॥ 40
श्रीशुक उवाच –
इति आचरन्तम् सत्-धर्मान् पावनान् गृहमेधिनाम्।
तम् एव सर्व-गेहेषु सन्तम् एकम् ददर्श ह॥ 41
कृष्णस्य अनन्त-वीर्यस्य योग-माया-मह-उदयम्।
मुहुः दृष्ट्वा ऋषिः अभूत् विस्मितः जात-कौतुकः॥ 42
इति अर्थ-काम-धर्मेषु कृष्णेन श्रद्धित-आत्मना।
सम्यक् सभाजितः प्रीतः तम् एव अनुस्मरन् ययौ॥ 43
एवम् मनुष्य-पदवीम् अनुवर्तमानः
नारायणः अखिल-भवाय गृहीत-शक्तिः।
रेमे अङ्ग षोडश-सहस्र-वर-अङ्गनानाम्
सव्रीड-सौहृद-निरीक्षण-हास-जुष्टः॥ 44
यानि इह विश्व-विलय-उद्भव-वृत्ति-हेतुः
कर्माणि अनन्य-विषयाणि हरीः चकार।
यः तु अङ्ग गायति श्रृणोति अनुमोदते वा
भक्तिः भवेत् भगवति हि अपवर्ग-मार्गे॥ 45