Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 8: அத்யாயம் 1 (ஸ்வாயம்பு மனு) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஸ்வாயம்பு மனு

ஸ்கந்தம் 8: அத்யாயம் 1

श्रीराजोवाच

स्वायम्भुवस्य इह गुरो वंशः अयम् विस्तरात् श्रुतः।
यत्र विश्वसृजाम् सर्गः मनून् अन्यान् वदस्व नः॥ १॥

यत्र यत्र हरेः जन्म कर्माणि च महीयसः।
गृणन्ति कवयः ब्रह्मन् तानि नः वद शृण्वताम्॥ २॥

यदि अस्मिन् अन्तरे ब्रह्मन् भगवान् विश्वभावनः।
कृतवान् कुरुते कर्ता हि अतीते अनागते अद्य वा॥ ३॥


श्रीऋषिः उवाच

मनवः अस्मिन् व्यतीताः षट् कल्पे स्वायम्भुव-आदयः।
आद्यः ते कथितः यत्र देव-आदीनाम् च सम्भवः॥ ४॥

आकूत्याम् देवहूत्याम् च दुहित्योः तस्य वै मनोः।
धर्म-ज्ञान-उपदेश-अर्थम् भगवान् पुत्रताम् गतः॥ ५॥

कृतम् पुरा भगवतः कपिलस्य अनु वर्णितम्।
आख्यास्ये भगवान् यज्ञः यत् चकार कुरूद्वह॥ ६॥

विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः।
विसृज्य राज्यं तपसे सभार्यः वनम् आविशत्॥ ७॥

सुनन्दायाम् वर्ष-शतम् पद-एकेन भुवं स्पृशन्।
तप्यमानः तपः घोरम् इदम् अन्वाह भारत॥ ८॥


श्रीमनुः उवाच

येन चेतयते विश्वं विश्वं चेतयते न यम्।
यः जागर्ति शयाने अस्मिन् न अयम् तम् वेद वेद सः॥ ९॥

आत्मा-आवास्यम् इदं विश्वं यत् किञ्चित् जगत्याम् जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्वित् धनम्॥ १०॥

यम् न पश्यति पश्यन्तम् चक्षुः यस्य न रिष्यति।
तम् भूत-निलयम् देवं सुपर्णम् उपधावत॥ ११॥

न यस्य आद्य-अन्तौ मध्यं च स्वः परः न अन्तरं बहिः।
विश्वस्य आमूनि यत् यस्मात् विश्वं च तत् ऋतम् महत्॥ १२॥

स विश्व-कायः पुरुहूत ईशः
सत्यः स्वयम्-ज्योतिः अजः पुराणः।
धत्ते अस्य जन्म आदि अजय आत्म-शक्त्या
ताम् विद्या-उदस्य निरीहः आस्ते॥ १३॥

अथ अग्रे ऋषयः कर्माणि ईहन्ते अ-कर्म-हेतवे।
ईहमानः हि पुरुषः प्रायः अनीहाम् प्रपद्यते॥ १४॥

ईहते भगवान् ईशः न हि तत्र विषज्जते।
आत्म-लाभेन पूर्ण-अर्थः न अवसीदन्ति ये अनु तम्॥ १५॥

तम् ईहमानम् निरहङ्कृतम् बुधम्
निराशिषम् पूर्णम् अनन्य-चोदितम्।
नॄन् शिक्षयन्तम् निज-वर्त्म-संस्थितम्
प्रभुम् प्रपद्ये अखिल-धर्म-भावनम्॥ १६॥


श्रीशुक उवाच

इति मन्त्र-उपनिषदम् व्याहरन्तम् समाहितम्।
दृष्ट्वा असुराः यातुधानाः जग्धुम् अभ्यद्रवन् क्षुधा॥ १७॥

तान् तथा अवसितान् वीक्ष्य यज्ञः सर्व-गतः हरिः।
यामैः परिवृतः देवैः हत्वा अशासत् त्रिविष्टपम्॥ १८॥

स्वारोचिषः द्वितीयः तु मनुः अग्नेः सुतः अभवत्।
द्युमत् सुषेण रोचिष्मत् प्रमुखाः तस्य च आत्मजाः॥ १९॥

तत्र इन्द्रः रोचनः आसीत् देवाः च तुषित-आदयः।
ऊर्ज-स्तम्भ-आदयः सप्त ऋषयः ब्रह्म-वादिनः॥ २०॥

ऋषेस्तु वेदशिरसः तुषिता नाम पत्नि अभूत्।

तस्याम् जज्ञे ततः देवः विभुः इति अभिविश्रुतः॥ २१॥

अष्ट-आशीति-सहस्राणि मुनयः ये धृत-व्रताः।
अन्वशिक्षन् व्रतम् तस्य कौमार-ब्रह्मचारिणः॥ २२॥

तृतीयः उत्तमः नाम प्रियव्रत-सुतः मनुः।
पवनः सृञ्जयः यज्ञहोत्र-आद्याः तत्-सुताः नृप॥ २३॥

वसिष्ठ-तनयाः सप्त ऋषयः प्रमद-आदयः।
सत्या वेदश्रुता भद्रा देवाः इन्द्रः तु सत्यजित्॥ २४॥

धर्मस्य सूनृतायाम् तु भगवान् पुरुष-उत्तमः।
सत्यसेनः इति ख्यातः जातः सत्यव्रतैः सह॥ २५॥

सः अनृत-व्रत-दुःशीलान् असतः यक्ष-राक्षसान्।
भूत-द्रुहः भूत-गणान् च अवधीद् सत्यजित्-सखः॥ २६॥


चतुर्थः उत्तम-भ्राता मनुः नाम्ना च तामसः।

पृथुः ख्यातिः नरः केतु-इति-आद्याः दश तत्-सुताः॥ २७॥

सत्यकाः हरयः वीराः देवाः त्रिशिख ईश्वरः।
ज्योतिर्धाम-आदयः सप्त ऋषयः तामसे अन्तरे॥ २८॥

देवाः वैधृतयः नाम विधृतेः तनयाः नृप।
नष्टाः कालेन यैः वेदाः विधृताः स्वेन तेजसा॥ २९॥

तत्र अपि जज्ञे भगवान् हरिण्याम् हरि-मेधसः।
हरिः इति आहृतः येन गज-इन्द्रः मोचितः ग्रहात्॥ ३०॥


श्रीराजोवाच

बादरायण एतत् ते श्रोतुम् इच्छामहे वयम्।
हरिः यथा गज-पतिम् ग्राह-ग्रस्तम् अमुमुचत्॥ ३१॥

तत्-कथा सुमहत् पुण्यम् धन्यम् स्वस्ति-अयनम् शुभम्।
यत्र यत्र उत्तम-श्लोकः भगवान् गीयते हरिः॥ ३२॥


श्रीसूत उवाच

परीक्षित् एवम् सः तु बादरायणिः।
प्राय-उपविष्टेन कथासु चोदितः॥

उवाच विप्राः प्रति-नन्द्य पार्थिवम्।
मुदा मुनीनाम् सदसि स्म शृण्वताम्॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥ 1 ॥

No comments: