Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 10 (ராமபிரான் சரித்திரம் (ராமாயணம்)) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 ராமபிரான் சரித்திரம் (ராமாயணம்)

ஸ்கந்தம் 9: அத்யாயம் 10

श्री-शुक उवाच।
खट्वाङ्गात् दीर्घ-बाहुः च रघुः तस्मात् पृथु-श्रवाः।
अजः ततः महा-राजः तस्मात् दशरथः अभवत् ॥ १ ॥

तस्य अपि भगवान् एषः साक्षात् ब्रह्म-मयः हरिः।
अंश-अंशेन चतुर्धा अगात् पुत्रत्वम् प्रार्थितः सुरैः।
राम-लक्ष्मण-भरत-शत्रुघ्नाः इति संज्ञया ॥ २ ॥

तस्य अनु-चरितम् राजन् ऋषिभिः तत्त्व-दर्शिभिः।
श्रुतम् हि वर्णितम् भूरि त्वया सीता-पतेः मुहुः ॥ ३ ॥

गुरु-अर्थे त्यक्त-राज्यः व्यचरत् अनु-वनम्
पद्म-पद्भ्याम् प्रियायाः।
पाणि-स्पर्श-अक्षमाभ्याम् मृजित-पथ-रुजः
यः हरीन्द्र-अनुजाभ्याम्।
वै-रूप्यात् शूर्पणख्याः प्रिया-विरह-रुषा-
आरोपित-भ्रू-विजृम्भः।
त्रस्त-अब्दिः बद्ध-सेतुः खल-दव-दहनः
कोसलेन्द्रः अवतान् नः ॥ ४ ॥

विश्वामित्र-अध्वरे येन मारीच-आद्याः निशा-चराः।
पश्यतः लक्ष्मणस्य एव हताः नैर्‌ऋत-पुंगवाः ॥ ५ ॥

यः लोक-वीर-समितौ धनुः ऐशम् उग्रम्
सीता-स्वयंवर-गृहे त्रि-शत-उपनीतम्।
आदाय बाल-गज-लीलाम् इव इक्षु-यष्टिम्
सज्जीकृतम् नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥

जित्वा अनुरूप-गुण-शील-वयः-अङ्ग-रूपाम्
सीता-अभिधाम् श्रियम् उरस्य अभिलब्ध-मानाम्।
मार्गे व्रजन् भृगु-पतेः व्यनयत् प्ररूढम्
दर्पम् महीम् अकृत यः त्रि-राट्-बीजाम् ॥ ७ ॥

यः सत्य-पाश-परिवीत-पितुः निदेशम्
स्त्रैणस्य च अपि शिरसा जगृहे स-भार्यः।
राज्यम् श्रियम् प्रणयिनः सुहृदः निवासम्
त्यक्त्वा ययौ वनम् असून् इव मुक्त-सङ्गः ॥ ८ ॥

रक्षः-स्वसुः व्यकृत-रूपम् अशुद्ध-बुद्धेः-
तस्याः खर-त्रि-शिर-दूषण-मुख्य-बन्धून्।
जघ्ने चतुर्दश-सहस्रम् अपारणीय-
कोदण्ड-पाणिः अटमानः उवास कृच्छ्रम् ॥ ९ ॥

सीता-कथा-श्रवण-दीपित-हृत्-चयेन
सृष्टम् विलोक्य नृपते दश-कन्धरेण।
जघ्ने अद्भुत-ऐण-वपुषा आश्रमतः अपकृष्टः
मारीचम् आशु विशिखेन यथा कम् उग्रः ॥ १० ॥

रक्षः-अधमेन वृक-वद् विपिने असमक्षम्
वैदेह-राज-दुहितरि अपयापितायाम्।
भ्रात्रा वने कृपणवत् प्रियया वियुक्तः
स्त्री-सङ्गिनाम् गतिम् इति प्रथयन् चचार ॥ ११ ॥

दग्ध्वा आत्म-कृत्य-हत-कृत्यम् अहन् कबन्धम्
सख्यम् विधाय कपिभिः दयित-आगतिम् तैः।
बुद्ध्वा अथ वालिनि हते प्लवग-इन्द्र-सैन्यैः-
वेलाम् अगात् सः मनुजः अज-भव-आर्चित-अङ्घ्रिः ॥ १२ ॥

यत् रोष-विभ्रम-विवृत्त-कटाक्ष-पात-
सम्भ्रान्त-नक्र-मकरः भय-गीर्ण-घोषः।
सिन्धुः शिरसि अर्हणम् परिगृह्य रूपी
पाद-अरविन्दम् उपगम्य बभाष एतत् ॥ १३ ॥

न त्वाम् वयम् जड-धियः नु विदाम भूमन्
कूट-स्थम् आदि-पुरुषम् जगताम् अधीशम्।
यत् सत्त्वतः सुर-गणाः रजसः प्रजे-शाः
मन्युः च भूत-पतयः सः भवान् गुण-ईशः ॥ १४ ॥

कामम् प्रयाहि जहि विश्रवसः अवमेहम्
त्रै-लोक्य-रावणम् अवाप्नुहि वीर पत्निम्।
बध्नीहि सेतुम् इह ते यशसः वितत्यै
गायन्ति दिग्-विजयिनः यम् उपेत्य भूपाः ॥ १५ ॥

बद्ध्वा उदधौ रघु-पतिः विविध-अद्रि-कूटैः
सेतुम् कपि-इन्द्र-कर-कम्पित-भू-रुह-अङ्गैः।
सुग्रीव-नील-हनुमत्-प्रमुखैः अनीकैः-
लङ्काम् विभीषण-दृशा आविशत् अग्र-दग्धाम् ॥ १६ ॥

सा वानर-इन्द्र-बल-रुद्ध-विहार-कोष्ठ-
श्री-द्वार-गोपुर-सदः-वलभी-विटङ्काः।
निर्भज्यमान-धिषण-ध्वज-हेम-कुम्भ-
श्रृङ्ग-अटिका गज-कुलैः ह्रदिनी इव घूर्णा ॥ १७ ॥

रक्षः-पतिः तत् अवलोक्य निकुम्भ-कुम्भ-
धूम्राक्ष-दुर्मुख-सुरान्त-नरान्तक-आदीन्।
पुत्रम् प्रहस्तम् अतिकाय-विकम्पन-आदीन्
सर्व-अनुगान् समहिनोत् अथ कुम्भकर्णम् ॥ १८ ॥

ताम् यातुधान-पृतनाम् असि-शूल-चाप-
प्रास-ऋष्टि-शक्ति-शर-तोमर-खड्ग-दुर्गाम्।
सुग्रीव-लक्ष्मण-मारुत्-सुत-गन्ध-माद-
नील-अङ्गद-ऋक्ष-पनस-आदिभिः अन्वितः अगात् ॥ १९ ॥

ते अनीक-पाः रघु-पतेः अभिपत्य सर्वे
द्वन्द्वम् वरूथ-मिभ-पत्ति-रथ-अश्व-योधैः।
जघ्नुः द्रुमैः गिरि-गदैः इषुभिः अङ्गद-आद्याः
सीता-अभिमर्श-हत-मङ्गल-रावण-ईशान् ॥ २० ॥

रक्षः-पतिः स्व-बल-नष्टिम् अवेक्ष्य रुष्टः
आरुह्य यानकम् अथ अभिससार रामम्।
स्वः-स्यन्दने द्यु-मति मातलिना उपनीते
विभ्राजमानम् अहनत् निशितैः क्षुर-प्रैः ॥ २१ ॥

रामः तम् आह पुरुष-अद् पुरीष यत् नः
कान्ता-समक्षम् असता अपहृता श्ववत् ते।
त्यक्त-त्रपस्य फलम् अद्य जुगुप्सितस्य
यच्छामि कालः इव कर्तुः अलङ्घ्य-वीर्यः ॥ २२ ॥

एवम् क्षिपन् धनुषि संधितम् उत्ससर्ज
बाणम् सः वज्रम् इव तत् हृदयम् बिभेद।
सः असृक् वमन् दश-मुखैः न्यपतत् विमानात्
द्ध "ह" इति जल्पति जने सुकृती इव रिक्तः ॥ २३ ॥

ततः निष्क्रम्य लङ्कायाः यातुधान्यः सहस्रशः।
मन्दोदर्या समम् तस्मिन् प्ररुदन्त्यः उपाद्रवन्त ॥ २४ ॥

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मण-इषुभिः अर्दितान्।
रुरुदुः सु-स्वरम् दीना घ्नन्त्यः आत्मानम् आत्मना ॥ २५ ॥

हा हताः स्म वयं नाथ लोक-रावण रावण।
कम् यायात् शरणम् लङ्का त्वत्-विहीना पर-अर्दिता ॥ २६ ॥

न एवम् वेद महा-भागः भवान् काम-वशम् गतः।
तेजः-अनुभावम् सीतायाः येन नीतः दशाम् इमाम् ॥ २७ ॥

कृता एषा विधवा लङ्का वयं च कुल-नन्दन।
देहः कृतः अन्नम् गृध्राणाम् आत्मा नरक-हेतवे ॥ २८ ॥

श्री-शुक उवाच।
स्वानाम् विभीषणः चक्रे कोसल-इन्द्र-अनुमोदितः।
पितृ-मेध-विधान-एन यत् उक्तम् साम्परायिकम् ॥ २९ ॥

ततः ददर्श भगवान् अशोक-वटिका-आश्रमे।
क्षामाम् स्व-विरह-व्याधिम् शिंशपा-मूलम् आस्थिताम् ॥ ३० ॥

रामः प्रिय-तमाम् भार्याम् दीनाम् वीक्ष्य अन्वकम्पत।
आत्म-संदर्शन-आह्लाद-विकसन्-मुख-पङ्कजाम् ॥ ३१ ॥

आरोप्य आरुरुहे यानम् भ्रातृभ्याम् हनुमत्-युतः।
विभीषणाय भगवान् दत्त्वा रक्षः-गण-ईशताम् ॥ ३२ ॥

लङ्काम् आयुः च कल्प-अन्तम् ययौ चीर्ण-व्रतः पुरीम्।
अवकीर्यमाणः कुसुमैः लोक-पाल-अर्पितैः पथि ॥ ३३ ॥

उपगीयमान-चरितः शत-धृत्य्-आदिभिः मुदाम्।
गो-मूत्र-यावकम् श्रुत्वा भ्रातरम् वल्कल-अम्बरम् ॥ ३४ ॥

महा-कारुणिकः अतप्यत् जटिलम् स्थण्डिल-एशयम्।
भरतः प्राप्तम् आकरण्य पौरा-अमात्य-पुरोहितैः ॥ ३५ ॥

पादुके शिरसि न्यस्य रामम् प्रत्युद्यतः अग्रजम्।
नन्दि-ग्रामात् स्व-शिबिरात् गीत-वादित्र-निःस्वनैः ॥ ३६ ॥

ब्रह्म-घोषेण च मुहुः पठद्भिः ब्रह्म-वादिभिः।
स्वर्ण-कक्ष-पताकाभिः हैमैः चित्र-ध्वजैः रथैः ॥ ३७ ॥

स-दश्वैः रुक्म-सन्नाहैः भटैः पुरट-वर्मभिः।
श्रेणीभिः वार-मुख्याभिः भृत्यैः च एव पदा-अनुगैः ॥ ३८ ॥

पारमेष्ठ्यानि उपादाय पण्यानि उच्च-अवचानि च।
पादयोः न्यपतत् प्रेम्णा प्रक्लिन्न-हृदय-ईक्षणः ॥ ३९ ॥

पादुके न्यस्य पुरतः प्राञ्जलिः वाष्प-लोचनः।
तम् आश्लिष्य चिरम् दोर्भ्याम् स्नापयन् नेत्र-जैः जलैः ॥ ४० ॥

रामः लक्ष्मण-सीता-अभ्याम् विप्रेभ्यः ये अर्ह-सत्तमाः।
तेभ्यः स्वयं नमः चक्रे प्रजाभिः च नमस्कृतः ॥ ४१ ॥

धुन्वन्तः उत्तरा-असङ्गान् पतिम् वीक्ष्य चिर-आगतम्।
उत्तराः कोसला माल्यैः किरन्तः ननृतुः मुदाऽ ॥ ४२ ॥

पादुके भरतः अगृह्णात् चामर-व्यजन-उत्तमे।
विभीषणः स-सुग्रीवः श्वेत-च्छत्रम् मरुत्-सुतः ॥ ४३ ॥

धनुः-निषङ्गान् च शत्रुघ्नः सीता तीर्थ-कमण्डलुम्।
अबिभ्रत् अङ्गदः खड्गम् हैमम् चर्म अर्क्ष-राट् नृप ॥ ४४ ॥

पुष्पक-स्थः अन्वितः स्त्रीभिः स्तूयमानः च वन्दिभिः।
विरेजे भगवान् राजन् ग्रहैः चन्द्रः इव उदितः ॥ ४५ ॥

भ्रातृभिः नन्दितः सः अपि सः उत्सवाम् प्राविशत् पुरीम्।
प्रविश्य राज-भवनम् गुरु-पत्नीयः स्व-मातरम् ॥ ४६ ॥

गुरून् वयस्य-अवरजान् पूजितः प्रत्यपूजयत्।
वैदेही लक्ष्मणः च एव यथावत् समुपेयतुः ॥ ४७ ॥

पुत्रान् स्व-मातरः ताः तु प्राणान् तन्वः इव उत्थिताः।
आरोप्य अङ्के अभिषिञ्चन्त्यः बाष्प-ओघैः विजहुः शुचः ॥ ४८ ॥

जटा निर्मुच्य विधिवत् कुल-वृद्धैः समम् गुरुः।
अभ्यषिञ्चत् यथा एव इन्द्रम् चतुः-सिन्धु-जल-आदिभिः ॥ ४९ ॥

एवम् कृत-शिरः-स्नानः सुवासाः स्रग्वि-अलङ्कृतः।
स्व-अलङ्कृतैः सुवासोभिः भ्रातृभिः भार्यया बभौ ॥ ५० ॥

अग्रहीत् आसनम् भ्रात्रा प्रणिपत्य प्रसादितः।
प्रजाः स्व-धर्म-निरताः वर्ण-आश्रम-गुण-अन्विताः।
जुगोप पितृवत् रामः मेनिरे पितरम् च तम् ॥ ५१ ॥

त्रेतायाम् वर्तमानायाम् कालः कृत-समः अभवत्।
रामे राजनि धर्म-ज्ञे सर्व-भूत-सुख-आवहे ॥ ५२ ॥

वनानि नद्यः गिरयः वर्षाणि द्वीप-सिन्धवः।
सर्वे काम-दुघाः आसन् प्रजानाम् भरत-ऋषभ ॥ ५३ ॥

न आधि-व्याधि-जरा-ग्लानि-दुःख-शोक-भय-क्लमाः।
मृत्युः च अनीच्छताम् न आसीत् रामे राजनि अधोक्षजे ॥ ५४ ॥

एक-पत्नी-व्रत-धरः राजर्षि-चरितः शुचिः।
स्व-धर्मम् गृह-मेधीयम् शिक्षयन् स्वयम् आचरत् ॥ ५५ ॥

प्रेम्णा-अनुवृत्त्या शीलेन प्रश्रय-आवनता सती।
धिया ह्रिया च भाव-ज्ञा भर्तुः सीता अहरत् मनः ॥ ५६ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे रामचरिते दशमोऽध्यायः॥ 10 ॥

No comments: