புரூரவஸ் பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 13
श्रीशुक उवाच
निमिः इक्ष्वाकु-तनयः वसिष्ठम् अवृतर्त्विजम्।
आरभ्य सत्रम् सः अपि आह शक्रेण प्राक्-वृतः अस्मि भोः ॥ १ ॥
तम् निर्वर्त्य आगमिष्यामि तावत् माम् प्रतिपालय।
तूष्णीम् आसीत् गृह-पतिः सः अपि इन्द्रस्य अकरोत् मखम् ॥ २ ॥
निमिः चलम् इदम् विद्वान् सत्रम् आरभत आत्म-वान्।
ऋत्विग्भिः अपरैः तावत् न आगमत् यावता गुरुः ॥ ३ ॥
शिष्य-व्यतिक्रमम् वीक्ष्य निर्वर्त्य गुरुः आगतः।
अशपत् पतताद् देहः निमेः पण्डित-मानिनः ॥ ४ ॥
निमिः प्रतिददौ शापम् गुरवे अधर्म-वर्तिने।
तव अपि पतताद् देहः लोभात् धर्मम् अजानतः ॥ ५ ॥
इति उत्ससर्ज स्वम् देहम् निमिः अध्यात्म-कोविदः।
मित्र-वरुणयोः जज्ञे उर्वश्याम् प्र-पितामहः ॥ ६ ॥
गन्ध-वस्तुषु तत् देहम् निधाय मुनि-सत्तमाः।
समाप्ते सत्र-यागे अथ देवान् ऊचुः समागतान् ॥ ७ ॥
राज्ञः जीवतु देहः अयम् प्रसन्नाः प्रभवः यदि।
तथा इति उक्ते निमिः प्राह मा भूः मे देह-बन्धनम् ॥ ८ ॥
यस्य योगम् न वाञ्छन्ति वियोग-भय-कातराः।
भजन्ति चरण-अम्भोजम् मुनयः हरि-मेधसः ॥ ९ ॥
देहम् न अवरुरुत्से अहम् दुःख-शोक-भय-अवहम्।
सर्वत्र अस्य यतः मृत्युः मत्स्यानाम् उदके यथा ॥ १० ॥
देवाः ऊचुः।
विदेह उष्यताम् कामम् लोचनेषु शरीरिणाम्।
उन्मेषण-निमेषाभ्याम् लक्षितः अध्यात्म-संस्थितः ॥ ११ ॥
अराजक-भयम् नॄणाम् मन्यमानाः महा-ऋषयः।
देहम् ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥
जन्मना जनकः सः अभूत् वैदेहः तु विदेह-जः।
मिथिलः मथनात् जातः मिथिला येन निर्मिता ॥ १३ ॥
तस्मात् उदावसुः तस्य पुत्रः अभूत् नन्दि-वर्धनः।
ततः सुकेतुः तस्य अपि देवरातः मही-पते ॥ १४ ॥
तस्मात् बृहद्रथः तस्य महा-वीर्यः सुधृत् पिता।
सुधृतेः धृष्ट-केतुः वै हर्यश्वः अथ मरुः ततः ॥ १५ ॥
मरोः प्रतीपकः तस्मात् जातः कृतरथः यतः।
देवमीढः तस्य सुतः विश्रुतः अथ महा-धृतिः ॥ १६ ॥
कृतिरातः ततः तस्मात् महा-रोमाथ तत्-सुतः।
स्वर्ण-रोमा सुतः तस्य ह्रस्व-रोमा व्यजायत ॥ १७ ॥
ततः सीर-ध्वजः जज्ञे यज्ञ-अर्थम् कर्षतः महीम्।
सीता शीर-अग्रतः जाता तस्मात् सीर-ध्वजः स्मृतः ॥ १८ ॥
कुश-ध्वजः तस्य पुत्रः ततः धर्म-ध्वजः नृपः।
धर्म-ध्वजस्य द्वौ पुत्रौ कृत-ध्वजः इत-ध्वजः ॥ १९ ॥
कृत-ध्वजात् केशि-ध्वजः खाण्डिक्यः तु मित-ध्वजात्।
कृत-ध्वज-सुतः राजन् आत्म-विद्या-विशारदः ॥ २० ॥
खाण्डिक्यः कर्म-तत्त्व-ज्ञः भीतः केशि-ध्वजात् द्रुतः।
भानुमान् तस्य पुत्रः अभूत् शतद्युम्नः तु तत्-सुतः ॥ २१ ॥
शुचिः तत्-तनयः तस्मात् सनद्वाजः ततः अभवत्।
ऊर्ध्व-केतुः सनद्वाजात् अजः अथ पुरुजित् सुतः ॥ २२ ॥
अरिष्ट-नेमिः तस्य अपि श्रुतायुः तत् सुपार्श्वकः।
ततः चित्ररथः यस्य क्षेमाधिः मिथिला-अधिपः ॥ २३ ॥
तस्मात् समरथः तस्य सुतः सत्यरथः ततः।
आसीत् उपगुरुः तस्मात् उपगुप्तः अग्नि-सम्भवः ॥ २४ ॥
वस्वनन्तः अथ तत्-पुत्रः युयुधः यत् सुभाषणः।
श्रुतः ततः जयः तस्मात् विजयः अस्मात् ऋतः सुतः ॥ २५ ॥
शुनकः तत्-सुतः जज्ञे वीतहव्यः धृतिः ततः।
बहुलाश्वः धृतेः तस्य कृतिः अस्य महा-वशी ॥ २६ ॥
एते वै मैथिलाः राजन् आत्म-विद्या-विशारदाः।
योग-ईश्वर-प्रसादेन द्वन्द्वैः मुक्ताः गृहेषु अपि ॥ २७ ॥
No comments:
Post a Comment