கஜேந்திரன் முதலையிடம் மாட்டிக்கொண்டது
ஸ்கந்தம் 8: அத்யாயம் 2
श्रीशुक उवाच
आसीत् गिरि-वरः राजन् त्रिकूटः इति विश्रुतः।
क्षीर-उदेन आवृतः श्रीमान् योजन-आयुतम् उच्छ्रितः॥ १॥
तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयः-निधिम्।
दिशः खम् रोचयन् आस्ते रौप्य-आयस-हिरण्मयैः॥ २॥
अन्यैः च ककुभः सर्वाः रत्न-धातु-विचित्रितैः।
नाना-द्रु-मलता-गुल्मैः निर्घोषैः निर्झर-अम्भसाम्॥ ३॥
सः च अवनिज्यमान-अङ्घ्रिः समन्तात् पयः-ऊर्मिभिः।
करोति श्यामलाम् भूमिम् हरित्-मरकत-अश्मभिः॥ ४॥
सिद्ध-चारण-गन्धर्व-विद्याधर-महोरगैः।
किन्नरैः अप्सरोभिः च क्रीडद्भिः जुष्ट-कन्दरः॥ ५॥
यत्र सङ्गीत-सन्नादैः नदत् गुहम् अमर्षया।
अभिगर्जन्ति हरयः श्लाघिनः पर-शङ्कया॥ ६॥
नाना-अरण्य-पशु-व्रात-सङ्कुल-द्रोणि-अलंकृतः।
चित्र-द्रु-म-सुर-उद्यान-कल-कण्ठ-विहङ्गमः॥ ७॥
सरित्-सरोभिः अच्छ-उदैः पुलिनैः मणि-वालुकैः।
देव-स्त्री-मज्जन-आमोड-सौरभ-अम्भु-अनिलैः युतः॥ ८॥
तस्य द्रोण्याम् भगवतः वरुणस्य महात्मनः।
उद्यानम् ऋतुमत् नाम आक्रीडम् सुर-योषिताम्॥ ९॥
सर्वतः अलंकृतम् दिव्यैः नित्यम् पुष्प-फल-द्रुमैः।
मन्दारैः पारिजातैः च पाटल-अशोक-चम्पकैः॥ १०॥
चूतैः प्रियालैः पनसैः आम्रैः आम्रातकैः अपि।
क्रमुकैः नारिकेलैः च खर्जूरैः बीजपूरकैः॥ ११॥
मधुकैः शाल-तालैः च तमालैः असन-अर्जुनैः।
अरिष्ट-उदुम्बर-प्लक्षैः वटैः किंशुक-चन्दनैः॥ १२॥
पिचुमन्दैः कोविदारैः सरलैः सुर-दारुभिः।
द्राक्ष-ईक्षु-रम्भ-जम्बुभिः बदरि-क्ष-अभय-आमलैः॥ १३॥
बिल्वैः कपित्थैः जम्बीरैः वृतः भल्लातक-आदिभिः।
तस्मिन् सरः सु-विपुलम् लसत् काञ्चन-पङ्कजम्॥ १४॥
कुमुद-उत्पल-कह्लार-शत-पत्र-श्रिया उर्जितम्।
मत्त-षट्पद-निर्घुष्टम् शकुन्तैः च कल-स्वनैः॥ १५॥
हंस-कारण्डव-आकीर्णम् चक्र-अह्वैः सारसैः अपि।
जल-कुक्कुट-कोयष्टि-दात्यूह-कुल-कूजितम्॥ १६॥
मत्स्य-कच्छप-सञ्चार-चलत्-पद्म-रजः-पयः।
कदम्ब-वेतस-नल-नीप-वञ्जुलकैः वृतम्॥ १७॥
कुन्दैः कुरुबक-अशोकैः शिरीषैः कूटज-एङ्गुदैः।
कुब्जकैः स्वर्ण-यूथीभिः नाग-पुन्नाग-जातिभिः॥ १८॥
मल्लिका-शत-पत्रैः च माधवी-जालक-आदिभिः।
शोभितम् तीर-जैः च अन्यैः नित्य-ऋतुभिः अलम् द्रुमैः॥ १९॥
तत्र एकदा तत् गिरि-कानन-आश्रयः।
करेणुभिः वारण-यूथपः चरन्॥
स-कण्टकम् कीचक-वेणु-वेत्रवत्।
विशाल-गुल्मम् प्ररुजन् वनस्पतीन्॥ २०॥
यद् गन्ध-मात्रात् हरयः गजेन्द्राः
व्याघ्र-आदयः व्याल-मृगाः स-खड्गाः।
महोरगाः च अपि भयात् द्रवन्ति
स-गौर-कृष्णाः शरभाः च म्रियः॥ २१॥**
वृकाः वराहाः महिष-ऋक्ष-शल्याः
गो-पुच्छ-शाला-वृक-मर्कटाः च।
अन्यत्र क्षुद्राः हरिणाः शश-आदयः
चरन्ति भीताः यद्-अनुग्रहेण॥ २२॥
सः घर्म-तप्तः करिभिः करेणुभिः
वृतः मद-अच्युत-कलभैः अनुद्रुतः।
गिरिम् गरिम्णा परितः प्रकम्पयन्
निषेव्यमाणः अलि-कुलैः मद-आशनैः॥ २३॥
सरः अनिलम् पङ्कज-रेणु-ऊषितम्
जिघ्रन् विदूरात् मद-विह्वल-ईक्षणः।
वृतः स्व-यूथेन तृषा-आर्दितेन तत्
सरः-अवर-अभ्याशम् अथ आगमत् द्रुतम्॥ २४॥
विगाह्य तस्मिन् अमृत-अम्बु निर्मलम्
हेम-अरविन्द-उत्पल-रेणु-वासितम्।
पपौ निकामम् निज-पुष्कर-उद्धृतम्
आत्मानम् अद्भिः स्नपयन् गत-क्लमः॥ २५॥
स्व-पुष्करेण उद्धृत-शीकर-अम्बुभिः
निपाययन् संस्नपयन् यथा गृही।
घृणी करेणूः कलभान् च दुर्मदः
न आचष्ट कृच्छ्रम् कृपणः अ-ज-मायया॥ २६॥
तम् तत्र कश्चित् नृप दैव-चोदितः
ग्राहः बलीयान् चरणे रुषा अग्रहीत्।
यदृच्छया एवम् व्यसनम् गतः गजः
यथा बलम् सः अति-बलः विचक्रमे॥ २७॥
तथा आतुरम् यूथ-पतिम् करेणवः
विकृष्यमाणम् तरसा बलीयसा।
विचुक्रुशुः दीन-धियः अपरे गजाः
पार्ष्णि-ग्रहाः तारयितुम् न च अशकन्॥ २८॥
नियुध्यतोः एवम् इभ-इन्द्र-नक्रयोः
विकर्षतोः अन्तरतः बहिः मिथः।
समाः सहस्रम् व्यगमन् मही-पते
स-प्राणयोः चित्रम् अमंसत आमराः॥ २९॥
ततः गजेन्द्रस्य मनः-बल-ओजसाम्
कालेन दीर्घेण महान् अभूत् व्ययः।
विकृष्यमाणस्य जले अवसीदतः
विपर्ययः अभूत् सकलम् जल-ओकसः॥ ३०॥
इत्थम् गजेन्द्रः सः यदा आप संकटम्
प्राणस्य देही विवशः यदृच्छया।
अपारयन् आत्म-विमोक्षणे चिरम्
दध्यौ इमाम् बुद्धिम् अथ अभ्यपद्यत॥ ३१॥
न माम् इमे ज्ञातयः आतुरम् गजाः
कुतः करिण्यः प्रभवन्ति मोचितुम्।
ग्राहेण पाशेन विधातुः आवृतः
अपि अहम् च तम् यामि परम् परायणम्॥ ३२॥
यः कश्चन ईशः बलिनः अन्तक-उरगात्
प्रचण्ड-वेगात् अभिधावतः भृशम्।
भीतम् प्रपन्नम् परिपाति यत् भयात्
मृत्युः प्रधावति अरणम् तम् ईमहि॥ ३३॥
No comments:
Post a Comment