சுகன்யாவை மணம் செய்தார், ச்யவனர்
ஸ்கந்தம் 9: அத்யாயம் 3
श्री-शुकः उवाच।
शर्यातिः मानवः राजा ब्रह्मिष्ठः सः बभूव ह।
यः वा अङ्गिरसाम् सत्रे द्वितीयम् अह ऊचिवान् ॥ १ ॥
सुकन्या नाम तस्य आसीत् कन्या कमल-लोचना।
तया सार्धम् वनम् गतः हि अगमत् च्यवन-आश्रमम् ॥ २ ॥
सा सखीभिः परिवृता विचिन्वन्ती अङ्घ्रि-पान् वने।
वल्मीका-रन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥
ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै।
अविध्यत् मुग्ध-भावेन सुस्राव आसृक् ततः बहिः ॥ ४ ॥
शकृत्-मूत्र-निरोधः अभूत् सैनिकानाम् च तत्-क्षणात्।
राजर्षिः तम् उपालक्ष्य पुरुषान् विस्मितः अब्रवीत् ॥ ५ ॥
अपि अभद्रम् न युष्माभिः भार्गवस्य विचेष्टितम्।
व्यक्तम् केन अपि नः तस्य कृतम् आश्रम-दूषणम् ॥ ६ ॥
सुकन्या प्राह पितरम् भीता किञ्चित् कृतम् मया।
द्वे ज्योतिषी अजानन्त्या निर्भिन्नॆ कण्टकेन वै ॥ ७ ॥
दुहितुः तत् वचः श्रुत्वा शर्यातिः जात-साध्वसः।
मुनिम् प्रसादयामास वल्मीक-अन्तः-हितम् शनैः ॥ ८ ॥
तत्-अभिप्रायम् आज्ञाय प्रादात् दुहितरम् मुनेः।
कृच्छ्रात् मुक्तः तम् आमन्त्र्य पुरम् प्रायात् समाहितः ॥ ९ ॥
सुकन्या च्यवनम् प्राप्य पतिम् परम-कोपनम्।
प्रीणयामास चित्त-ज्ञा अप्रमत्त-अनुवृत्तिभिः ॥ १० ॥
कस्यचित् तु अथ कालस्य नासत्यौ आश्रमम् अगतौ।
तौ पूजयित्वा प्रोवाच वयः मे दत्तम् ईश्वरौ ॥ ११ ॥
ग्रहम् ग्रहीष्ये सोमस्य यज्ञे वाम् अपि असोमपौ।
क्रियताम् मे वयः रूपम् प्रमदानाम् यत् ईप्सितम् ॥ १२ ॥
बाढम् इति ऊचतुः विप्रम् अभिनन्द्य भिषक्-तमौ।
निमज्जताम् भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते ॥ १३ ॥
इति उक्त्वा जरया ग्रस्त-देहः धमनि-सन्ततः।
ह्रदम् प्रवेशितः अश्विभ्याम् वली-पालित-विप्रियः ॥ १४ ॥
पुरुषाः त्रयः उत्तस्थुः अपीव्याः वनिता-प्रियाः।
पद्म-स्रजः कुण्डलिनः तुल्य-रूपाः सु-वाससः ॥ १५ ॥
तान् निरीक्ष्य वर-आरोहा सरूपान् सूर्य-वर्चसः।
अजानती पतिम् साध्वी अश्विनौ शरणम् ययौ ॥ १६ ॥
दर्शयित्वा पतिम् तस्यै पाति-व्रत्येन तोषितौ।
ऋषिम् आमन्त्र्य ययतुुः विमानॆन त्रि-विष्टपम् ॥ १७ ॥
यक्ष्यमाणः अथ शर्यातिः च्यवनस्य आश्रमम् गतः।
ददर्श दुहितुः पार्श्वे पुरुषम् सूर्य-वर्चसम् ॥ १८ ॥
राजा दुहितरम् प्राह कृत-पाद-अभिवन्दनाम्।
आशिषः च प्रयुञ्जानः न अति-प्रितिमनाः इव ॥ १९ ॥
चिकीर्षितम् ते किम् इदम् पतिः त्वया
प्रलम्भितः लोक-नमस्कृतः मुनिः।
यत् त्वम् जरा-ग्रस्तम् असत्य-सम्मतम्
विहाय जारम् भजसे अमुम् अध्वगम् ॥ २० ॥
कथम् मतिः ते अवगत-अन्यथा सताम्
कुल-प्रसूते कुल-दूषणम् तु इदम्।
बिभर्षि जारम् यत् अ-पत्रपा कुलम्
पितुः च भर्तुः च नयसि अधः-तमः ॥ २१ ॥
एवम् ब्रुवाणम् पितरम् स्मयमाना शुचि-स्मिता।
उवाच तात जामाता तव एष भृगु-नन्दनः ॥ २२ ॥
शशंस पित्रे तत् सर्वम् वयः-रूप-अभिलम्भनम्।
विस्मितः परम-प्रीतः तनयाम् परिषस्वजे ॥ २३ ॥
सोमेन याजयन् वीरम् ग्रहम् सोमस्य च अग्रहीत्।
असोमपः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥
हन्तुम् तम् आददे वज्रम् सद्यः मन्युः अमर्षितः।
स-वज्रम् स्तम्भयामास भुजम् इन्द्रस्य भार्गवः ॥ २५ ॥
अन्वजानन् ततः सर्वे ग्रहम् सोमस्य च अश्विनोः।
भिषजौ इति यत् पूर्वम् सोम-आहुत्या बहिष्कृतौ ॥ २६ ॥
उत्तानबर्हिः आनर्तः भूरिषेणः इति त्रयः।
शर्यातेर् अभवन् पुत्राः आनर्तात् रेवतः अभवत् ॥ २७ ॥
सः अन्तः-समुद्रे नगरीम् विनिर्माय कुशस्थलीम्।
आस्थितः अभुङ्क्त विषयान् आनर्त-आदीन् अरिन्दमः ॥ २८ ॥
तस्य पुत्र-शतम् जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम्।
ककुद्मी रेवतीम् कन्याम् स्वाम् आदाय विभुम् गतः ॥ २९ ॥
कन्या-वरम् परिप्रष्टुम् ब्रह्म-लोकम् अपावृतम्।
आवर्तमाने गान्धर्वे स्थितः अलब्ध-क्षणः क्षणम् ॥ ३० ॥
तत्-अन्ते आद्यम् आनम्य स्व-अभिप्रायम् न्यवेदयत्।
तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह ॥ ३१ ॥
अहो राजन् निरुद्धाः ते कालेन हृदि ये कृताः।
तत् पुत्र-पौत्र-नप्तॄणाम् गोत्राणि च न श्रृण्महे ॥ ३२ ॥
कालः अभियातः त्रि-नव-चतुर्-युग-विकल्पितः।
तत् गच्छ देव-देव-अंशः बलदेवः महा-बलः ॥ ३३ ॥
कन्या-रत्नम् इदम् राजन् नर-रत्नाय देहि भोः।
भुवः भार-अवताराय भगवान् भूत-भावनः ॥ ३४ ॥
अवतीर्णः निज-अंशेन पुण्य-श्रवण-कीर्तनः।
इति आदिष्टः अभिवन्द्य अजम् नृपः स्व-पुरम् आगतः।
त्यक्तम् पुण्य-जन-त्रासात् भ्रातृभिः दिक्षु-अवस्थितैः ॥ ३५ ॥
सुताम् दत्त्वा अनवद्य-अङ्गीम् बलाय बल-शालिने।
बदर्य्-आख्यम् गतः राजा तप्तुम् नारायण-आश्रमम् ॥ ३६ ॥
No comments:
Post a Comment