ஊர்வசியை அடைய ஆசைப்பட்ட புரூரவஸ்
ஸ்கந்தம் 9: அத்யாயம் 14
श्रीशुक उवाच
अथ अतः श्रूयताम् राजन् वंशः सोमस्य पावनः।
यस्मिन् ऐल-आदयः भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥ १ ॥
सहस्र-शिरसः पुंसः नाभि-ह्रद-सरोरुहात्।
जातस्य आसीत् सुतः धातुः अत्रिः पितृ-समः गुणैः ॥ २ ॥
तस्य दृग्भ्यः अभवत् पुत्रः सोमः अमृत-मयः किल।
विप्र-औषधि-उडु-गणानाम् ब्रह्मणा कल्पितः पतिः ॥ ३ ॥
सः अयजत् राजसूयेन विजित्य भुवन-त्रयम्।
पत्नीम् बृहस्पतेः दर्पात् ताराम् नाम आहरत् बलात् ॥ ४ ॥
यदा सः देव-गुरुणा याचितः अभीक्ष्णशः मदात्।
न अत्यम्सत् तत् कृते जज्ञे सुर-दानव-विग्रहः ॥ ५ ॥
शुक्रः बृहस्पतेः द्वेषात् अग्रहीत् स-असुरः उडुपम्।
हरः गुरु-सुतम् स्नेहात् सर्व-भूत-गण-आवृतः ॥ ६ ॥
सर्व-देव-गण-उपेतः महेन्द्रः गुरुम् अन्वयात्।
सुर-असुर-विनाशः अभूत् समरः तारा-कामयः ॥ ७ ॥
निवेदितः अथ अङ्गिरसा सोमम् निर्भर्त्स्य विश्व-कृत्।
ताराम् स्व-भर्त्रे प्रायच्छत् अन्तः-वतीम् अवैत् पतिः ॥ ८ ॥
त्यज त्यज आशु दु:प्रज्ञे मत्-क्षेत्रात् आहितम् परैः।
न अहम् त्वाम् भस्म-सात् कुर्याम् स्त्रियम् स-अन्तानिकः सति ॥ ९ ॥
तत्याज व्रीडिता तारा कुमारम् कनक-प्रभम्।
स्पृहाम् अङ्गिरसः च अक्रेत् कुमारे सोमः एव च ॥ १० ॥
मम अयम् न तव इति उच्चैः तस्मिन् विवदमानयोः।
पप्रच्छुः ऋषयः देवान् नैव उवाच व्रीडिता तु सा ॥ ११ ॥
कुमारः मातरम् प्राह कुपितः अलीक-लज्जया।
किम् न वोक्स्यसि असत्-वृत्ते आत्म-अवद्यम् वद अशु मे ॥ १२ ॥
ब्रह्मा ताम् रहः आहूय सम-प्राक्षीत् च सान्त्वयन्।
सोमस्य इति आह शनकैः सोमः तम् तावत् अग्रहीत् ॥ १३ ॥
तस्य आत्म-योनिः अकृत बुधः इति अभिधाम् नृप।
बुद्ध्या गम्भीरया येन पुत्रेण अप-उडुरात् मुदम् ॥ १४ ॥
ततः पुरूरवा जज्ञे इलायाम् यः उदाहृतः।
तस्य रूप-गुण-औदार्य-शील-द्रविण-विक्रमान् ॥ १५ ॥
श्रुत्वा उर्वशी इन्द्र-भवने गीयमानान् सुर-ऋषिणा।
तत् अन्तिकम् उपेयाय देवी स्मर-शर-अर्दिता ॥ १६ ॥
मित्र-वरुणयोः शापात् आपन्ना नर-लोकताम्।
निशम्य पुरुष-श्रेष्ठम् कन्दर्पम् इव रूपिणम्।
धृतिम् विष्टभ्य ललना उपतस्थे तत् अन्तिके ॥ १७ ॥
सः ताम् विलोक्य नृपतिः हर्षेण उत्फुल्ल-लोचनः।
उवाच श्लक्ष्णया वाचा देवीम् हृष्ट-तनू-रुहः ॥ १८ ॥
श्रीराजोवाच
स्वागतं ते वर-अरोहे आस्यताम् करवाम किम्।
संरमस्व मया साकम् रतिः नौ शाश्वतीः समाः ॥ १९ ॥
उर्वशी उवाच
कस्य अस्त्वयि न सज्जेत मनः दृष्टिः च सुन्दर।
यत् अङ्ग-अन्तरम् आसाद्य च्यवते ह रिरंसया ॥ २० ॥
उर्वशी उवाच
एतौ उरण-कौ राजन् न्यासौ रक्षस्व मानद।
संरंस्ये भवता साकम् श्लाघ्यः स्त्रीणाम् वरः स्मृतः ॥ २१ ॥
घृतम् मे वीर भक्ष्यम् स्यात् न ईक्षे त्वा अन्यत्र मैथुनात्।
विवाससम् तत् तथा इति प्रतिपेदे महा-मनाः ॥ २२ ॥
अहो रूपम् अहो भावः नर-लोक-विमोहनम्।
कः न सेवेत मनुजः देवीं त्वाम् स्वयम्-आगताम् ॥ २३ ॥
तया सः पुरुष-श्रेष्ठः रमयन्त्या यथा-अर्हतः।
रेमे सुर-विहारेषु कामम् चैत्ररथ-आदिषु ॥ २४ ॥
रममाणः तया देव्या पद्म-किञ्जल्क-गन्धया।
तत्-मुख-आमोद-मुषितः मुमुदे अहः-गणान् बहून् ॥ २५ ॥
अपश्यन् उर्वशीम् इन्द्रः गन्धर्वान् समचोदयत्।
उर्वशी-रहितम् मह्यम् आस्थानम् न अति शोभते ॥ २६ ॥
ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते।
उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥
निशम्य आक्रन्दितम् देवी पुत्रयोः नीयमानयोः।
हतास्मि अहम् कु-नाथेन नपुंसा वीर-मानिना ॥ २८ ॥
यत् विश्व्रम्भात् अहम् नष्टा हृत-अपत्या च दस्युभिः।
यः शेते निशि संत्रस्तः यथा नारी दिवा पुमान् ॥ २९ ॥
इति वाक्-सायकैः विद्धः प्रत-उत्त्रैः इव कुञ्जरः।
निशि निस्त्रिंशम् आदाय विवस्त्रः अभ्यद्रवत् रुषा ॥ ३० ॥
ते विसृज्य उरणौ तत्र व्यद्योतन्त स्म विद्युतः।
आदाय मेषौ आ-यान्तम् नग्नम् ऐक्षत सा पतिम् ॥ ३१ ॥
ऐलः अपि शयने जायाम् अपश्यन् विमनाः इव।
तत्-चित्तः विह्वलः शोचन् बभ्राम उन्मत्त-वत् महीम् ॥ ३२ ॥
सः ताम् वीक्ष्य कुरु-क्षेत्रे सरस्वत्याम् च तत्-सखीः।
पञ्च प्रहृष्ट-वदनाः प्राह सूक्तम् पुरूरवाः ॥ ३३ ॥
पुरूरव उवाच
अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि।
माम् त्वम् अद्य अपि अनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥
सु-देहः अयम् पतति अत्र देवि दूरम् हृतः त्वया।
खादन्ति एनम् वृकाः गृध्राः त्वत्-प्रसादस्य न आस्पदम् ॥ ३५ ॥
उर्वशी उवाच
मा मृथाः पुरुषः असि त्वम् मा स्म त्वात् इव उर्वृकाः इमे।
क्व अपि सख्यम् न वै स्त्रीणाम् वृकाणाम् हृदयं यथा ॥ ३६ ॥
स्त्रियः हि अकरुणाः क्रूराः दुर्मर्षाः प्रिय-साहसाः।
घ्नन्ति अल्प-अर्थे अपि विश्व्रब्धम् पतिम् भ्रातरम् अपि उत ॥ ३७ ॥
विधाय आलिक-विश्व्रम्भम् अज्ञेषु त्यक्त-सौहृदाः।
नवम् नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः ॥ ३८ ॥
संवत्सर-अन्ते हि भवन् एक-रात्रम् मया ईश्वरः।
वत्स्यति अपत्यानि च ते भविष्यन्ति अपराणि भोः ॥ ३९ ॥
अन्तः-वतीम् उपालक्ष्य देवीं सः प्रययौ पुरीम्।
पुनः तत्र गतः अब्द-अन्ते उर्वशीम् वीर-मातरम् ॥ ४० ॥
उपलभ्य मुदा युक्तः समुवास तया निशाम्।
अथ एनम् उर्वशी प्राह कृपणम् विरह-आतुरम् ॥ ४१ ॥
गन्धर्वान् उपधाव एमान् तुभ्यम् दास्यन्ति माम् इति।
तस्य संस्तुवतः तुष्टा अग्नि-स्थालीम् ददुः नृप।
उर्वशीम् मन्यमानः ताम् सः अबुध्यत चरन् वने ॥ ४२ ॥
स्थालीम् न्यस्य वने गत्वा गृहान् अध्यायतः निशि।
त्रेता-याम् सम्प्रवृत्तायाम् मनसि त्रयी अवर्तत ॥ ४३ ॥
स्थाली-स्थानम् गतः अश्वत्थम् शमी-गर्भम् विलक्ष्य सः।
तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥ ४४ ॥
उर्वशीम् मन्त्रतः ध्यायन् अधर्-अरणिम् उत्तराम्।
आत्मानम् उभयोः मध्ये यत् तत् प्रजननम् प्रभुः ॥ ४५ ॥
तस्य निर्मन्थनात् जातः जात-वेदा विभावसुः।
त्रय्या सः विद्यया राज्ञा पुत्रत्वे कल्पितः त्रि-वृत् ॥ ४६ ॥
तेन आयजत यज्ञ-ईशम् भगवन्तम् अधोक्षजम्।
उर्वशी-लोकम् अन्विच्छन् सर्व-देव-मयम् हरिम् ॥ ४७ ॥
एकः एव पुरा वेदः प्रणवः सर्व-वाङ्मयः।
देवः नारायणः न अन्यः एकः अग्निः वर्णः एव च ॥ ४८ ॥
पुरूरवसः एव आसीत् त्रयी त्रेता-मुखे नृप।
अग्निना प्रजया राजा लोकम् गान्धर्वम् एयिवान् ॥ ४९ ॥
No comments:
Post a Comment