மாந்தாதாவின் பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 7
श्रीशुक उवाच
मान्धातुः पुत्र-प्रवरः यः अम्बरीषः प्रकीर्तितः।
पितामहेन प्रवृतः यौवनाश्वः च तत्-सुतः।
हारीतः तस्य पुत्रः अभूत् मान्धातृ-प्रवरा इमे॥ 1
नर्मदा भ्रातृभिः दत्ता पुरुकुत्साय यो उरगैः।
तया रसातलम् नीतः भुजग-इन्द्र-प्रयुक्तया॥ 2
गन्धर्वान् अवधीत्तत्र वध्यान् वै विष्णु-शक्ति-धृक्।
नागात् लब्ध-वरः सर्पात् अभयम् स्मरताम् इदम्॥ 3
त्रसद्दस्युः पौरुकुत्सः यः अनरण्यस्य देह-कृत्।
हर्यश्वः तत्-सुतः तस्मात् अरुणः अथ त्रि-बन्धनः॥ 4
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुः इति विश्रुतः।
प्राप्तः चाण्डालताम् शापात् गुरोः कौशिक-तेजसा॥ 5
स-शरीरः गतः स्वर्गम् अद्य अपि दिवि दृश्यते।
पातितः अवाक्-शिराः देवैः तेन एव स्तम्भितः बलात्॥ 6
त्रैशङ्कवः हरिश्चन्द्रः विश्वामित्र-वसिष्ठयोः।
यत् निमित्तम् अभूत् युद्धम् पक्षिणोः बहु-वार्षिकम्॥ 7
सोऽनपत्यः विषण्ण-आत्मा नारदस्य उपदेशतः।
वरुणम् शरणम् यातः "पुत्रः मे जायताम् प्रभो॥ 8
यदि वीरः महा-राज तेन एव त्वाम् यजे" इति।
तथा इति वरुणेन अस्य पुत्रः जातः तु रोहितः॥ 9
रोहितस्य यज्ञ-विलम्बनम्
जातः सुतः हि अन्वेन अङ्ग "माम् यजस्व" इति सः अब्रवीत्।
"यदा पशुः निर्दशः स्यात् अथ मेध्यः भवेत्" इति॥ 10
निर्दशे च सः आगत्य "यजस्व" इति आह, सः अब्रवीत्—
"दन्ताः पशोः यत् जायेरन् अथ मेध्यः भवेत्" इति॥ 11
जाता दन्ताः "यजस्व" इति, सः प्रत्याह, अथ सः अब्रवीत्—
"यदा पतन्ति अस्य दन्ताः अथ मेध्यः भवेत्" इति॥ 12
पशोः निपतिता दन्ताः "यजस्व" इति आह, सः अब्रवीत्—
"यदा पशोः पुनः दन्ताः जायन्ते अथ पशुः शुचिः"॥ 13
पुनः जाता "यजस्व" इति, सः प्रत्याह, अथ सः अब्रवीत्—
"सान्नाहिकः यदा राजन्, राजन्यः अथ पशुः शुचिः"॥ 14
इति पुत्र-अनुरागेण स्नेह-यन्त्रित-चेतसा।
कालम् वञ्चयता तं तम् उक्तः देवः तम् ऐक्षत॥ 15
रोहितस्य अरण्यवासः
रोहितः तत् अभिज्ञाय पितुः कर्म चिकीर्षितम्।
प्राण-प्रेप्सुः धनुः-पाणिः अरण्यम् प्रत्यपद्यत॥ 16
पितरम् वरुण-ग्रस्तम् श्रुत्वा जात-महोदरम्।
रोहितः ग्रामम् एयाय, तम् इन्द्रः प्रत्यषेधत॥ 17
भूमेः पर्यटनम् पुण्यम् तीर्थ-क्षेत्र-निषेवणैः।
रोहिताय आदिशत् शक्रः, सः अपि अरण्ये अवसत् समाम्॥ 18
एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा।
अभ्येत्य-अभ्येत्य स्थविरः विप्रः भूत्वा आह वृत्रहा॥ 19
शोणश्रवसः पुत्र-क्रयः
षष्ठम् संवत्सरम् तत्र चरित्वा रोहितः पुरीम्।
उपव्रजन् अजीगर्तात् अक्रीणात् मध्यमम् सुतम्॥ 20
शुनःशेपम् पशुम् पित्रे प्रदाय समवन्दत।
ततः पुरुष-मेधेन हरिश्चन्द्रः महा-यशाः॥ 21
मुक्त-उदरः अयजत् देवान् वरुण-आदीन् महत्-कथः।
विश्वामित्रः अभवत् तस्मिन् होता च अध्वर्युः आत्मवान्॥ 22
जमदग्निः अभूत् ब्रह्मा वसिष्ठः अयास्य-सामगः।
तस्मै तुष्टः ददौ इन्द्रः शातकौम्भ-मयम् रथम्॥ 23
शुनःशेपस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते।
सत्य-साराम् धृतिम् दृष्ट्वा सभार्यस्य च भूपतेः॥ 24
विश्वामित्रः भृशम् प्रीतः ददौ अविहताम् गतिम्।
मनः पृथिव्याम् ताम् अद्भिः तेजसा अपः अनिलेन तत्॥ 25
खे वायुम् धारयन् तत् च भूत-आदौ तम् महा-आत्मनि।
तस्मिन् ज्ञान-कलाम् ध्यात्वा तयाज् ज्ञानम् विनिर्दहन्॥ 26
हित्वा ताम् स्वेन भावेन निर्वाण-सुख-संविदा।
अनिर्देश्य-अप्रतर्क्येण तस्थौ विध्वस्त-बन्धनः॥ 27
No comments:
Post a Comment