மோஹினி அவதாரம்
ஸ்கந்தம் 8: அத்யாயம் 9
श्री-शुकः उवाच –
ते अन्योंयतः असुराः पात्रं हरन्तः त्यक्त-सौहृदाः।
क्षिपन्तः दस्यु-धर्माणः आयान्तीं ददृशुः स्त्रियम्॥ १॥
अहो रूपम् अहो धाम अहः अस्या नवं वयः।
इति ते ताम् अभिद्रुत्य पप्रच्छुः जात-हृच्छयाः॥ २॥
का त्वं कञ्ज-पलाश-अक्षि कुतः वा किम् चिकीर्षसि।
कस्य असि वद वाम-ऊरु मथ्नन्ती इव मनांसि नः॥ ३॥
न वयं त्वाम् अरैः दैत्यैः सिद्ध-गन्धर्व-चारणैः।
न अस्पृष्ट-पूर्वाम् जानीमः लोक-ईशैः च कुतः नृभिः॥ ४॥
नूनम् त्वं विधिना सु-भ्रूः प्रेषिता असि शरीरिणाम्।
सर्व-इन्द्रिय-मनः-प्रीतिं विधातुं स-घृणेन किम्॥ ५॥
सा त्वं नः स्पर्धमानानाम् एक-वस्तुनि मानिनि।
ज्ञातीनाम् बद्ध-वैराणाम् शं विधत्स्व सु-मध्यमे॥ ६॥
वयं कश्यप-दायादाः भ्रातरः कृत-पौरुषाः।
विभजस्व यथा न्यायं न एव भेदः यथा भवेत्॥ ७॥
इति उपामन्त्रितः दैत्यैः माया-योषित्-वपुः हरिः।
प्रहस्य रुचिर-अपाङ्गैः निरीक्षन् इदम् अब्रवीत्॥ ८॥
श्री-भगवान् उवाच –
कथम् कश्यप-दायादाः पुंश्चल्याम् मयि संगताः।
विश्वासं पण्डितः जातु कामिनीषु न याति हि॥ ९॥
साल-अवृकाणाम् स्त्रीणाम् च स्वैरिणीनाम् सुर-द्विषः।
सख्यानि आहुः अनित्यानि नूतनं नूतनं विचिन्वताम्॥ १०॥
श्री-शुकः उवाच –
इति ते क्ष्वेलितैः तस्या आश्वस्त-मनसः असुराः।
जहुः भाव-गम्भीरं ददुः च अमृत-भाजनम्॥ ११॥
ततः गृहीत्वा अमृत-भाजनं हरिः
बभाष ईषत्-स्मित-शोभया गिरा।
यदि अभ्युपेतं क्व च साधु-असाधु वा
कृतं मया वः विभजे सुधाम् इमाम्॥ १२॥
इति अभिव्याहृतं तस्या आ-कर्ण्य असुर-पुंगवाः।
अप्रमाण-वितः तस्याः तत् तथैति अन्वमंसत॥ १३॥
अथ उपोष्य कृत-स्नानाः हुत्वा च हविषा अनलम्।
दत्त्वा गो-विप्र-भूतेभ्यः कृत-स्वस्त्य-यना द्विजैः॥ १४॥
यथा उपजोषं वासांसि परिधाय आहतानि ते।
कुशेषु प्राविशन् सर्वे प्राग्-अग्रेषु अभिभूषिताः॥ १५॥
प्राङ्-मुखेषु उपविष्टेषु सुरेषु दिति-जेषु च।
धूप-आमोदित-शालायाम् जुष्टायाम् माल्य-दीपकैः॥ १६॥
तस्याम् नरेन्द्र करभ-ऊरु-उशत्-दुकूल-
श्रोणी-तट-आलस-गतिः मद-विह्वल-अक्षी।
सा कूजती कनक-नूपुर-शिञ्जितेन
कुम्भ-स्तनी कलश-पाणिः अथ आ विवेश॥ १७॥
ताम् श्री-सखीं कनक-कुण्डल-चारु-कर्ण-
नासा-कपोल-वदनाम् पर-देवता-अख्याम्।
संवीक्ष्य सम्मुमुहुः उत्स्मित-वीक्षणेन
देवा-असुराः विगलित-स्तन-पट्टिका-अन्ताम्॥ १८॥
असुराणाम् सुधा-दानं सर्पाणाम् इव दुर्नयम्।
मत्वा जाति-नृशंसानाम् न ताम् व्यभजत् अच्युतः॥ १९॥
कल्पयित्वा पृथक् पंक्तीः उभयेषाम् जगत्-पतिः।
तान् च उपवेशयामास स्वेषु स्वेषु च पंक्तिषु॥ २०॥
दैत्यान् गृहीत-कलसः वञ्चयन् उपसञ्चरैः।
दूर-स्थान् पाययामास जरा-मृत्यु-हरां सुधाम्॥ 21॥
ते पालयन्तः समयम् असुराः स्व-कृतं नृप।
तूष्णीम् आसन् कृत-स्नेहाः स्त्री-विवाद-जुगुप्सया॥ 22॥
तस्याम् कृत-अति-प्रणयाः प्रणय-अपाय-कातराः।
बहु-मानेन च आबद्धाः न ऊचुः किञ्चन विप्रियम्॥ 23॥
देव-लिङ्ग-प्रतिच्छन्नः स्वर्भानुः देव-संसदि।
प्रविष्टः सोमम् अपिबत् चन्द्र-अर्का-अभ्याम् च सूचितः॥ 24॥
चक्रेण क्षुर-धारेण जहार पिबतः शिरः।
हरिः तस्य कबन्धः तु सुधया आप्लावितः अपतत्॥ 25॥
शिरः तु अमरताम् नीतम् अ-जः ग्रहम् अचीकलिपत्।
यः तु पर्वणि चन्द्र-अर्कौ अभिधावति वैर-धीः॥ 26॥
पीत-प्राये अमृते देवैः भगवाञ् लोक-भावनः।
पश्यताम् असुरेन्द्राणाम् स्वं रूपं जगृहे हरिः॥ 27॥
एवं सुर-असुर-गणाः सम-देश-काल-
हेतुः-अर्थ-कर्म-मतयः अपि फले विकल्पाः।
तत्र अमृतं सुर-गणाः फलम् अञ्जसा आपुः
यत् पाद-पङ्कज-रजः-श्रयणात् न दैत्याः॥ 28॥
यत् युज्यते असु-वसु-कर्म-मनः-वचोभिः
देह-आत्म-जादिषु नृभिः तत् असत् पृथक्त्वात्।
तैः एव सत् भवति यत् क्रियते अपृथक्त्वात्
सर्वस्य तत् भवति मूल-निषेचनं यत्॥ 29॥
No comments:
Post a Comment