Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 8: அத்யாயம் 4 (கஜேந்திரன் மோக்ஷம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கஜேந்திரன் மோக்ஷம்

ஸ்கந்தம் 8: அத்யாயம் 4

श्री-शुक उवाच

तदा देव-ऋषि-गन्धर्वाः ब्रह्म-ईशान-पुरोगमाः।
मुमुचुः कुसुम-आसारम् शंसन्तः कर्म तत् हरेः॥ १॥


नेदुः दुन्दुभयः दिव्याः गन्धर्वाः ननृतुः जगुः।
ऋषयः चारणाः सिद्धाः तुष्टुवुः पुरुषोत्तमम्॥ २॥


यः असौ ग्राहः सः वै सद्यः परम-आश्चर्य-रूप-धृक्।
मुक्तः देवल-शापेन हूहूः गन्धर्व-सत्तमः॥ ३॥


प्रणम्य शिरसा अधीशम् उत्तम-श्लोकम् अव्ययम्।
अगायत यशः-धाम कीर्तन्य-गुण-सत्-कथम्॥ ४॥


सः अनुकम्पितः ईशेन परिक्रम्य प्रणम्य तम्।
लोकस्य पश्यतः लोकम् स्वम् अगात् मुक्त-किल्बिषः॥ ५॥


गजेन्द्रः भगवत्-स्पर्शात् विमुक्तः अज्ञान-बन्धनात्।
प्राप्तः भगवतः रूपम् पीत-वासाः चतुर्भुजः॥ ६॥


सः वै पूर्वम् अभूत् राजा पाण्ड्यः द्रविड-सत्तमः।
इन्द्रद्युम्नः इति ख्यातः विष्णु-व्रत-परायणः॥ ७॥


सः एकदा आराधन-काले आत्मवान्
गृहीत-मौन-व्रतः ईश्वरम् हरिम्।
जटाधरः तापसः आप्लुतः अच्युतम्
समर्चयामास कुलाचल-आश्रमः॥ ८॥


यदृच्छया तत्र महा-यशाः मुनिः
समागमत् शिष्य-गणैः परिश्रितः।
तम् वीक्ष्य तूष्णीम् अकृत-अर्हण-आदिकम्
रहसि उपासीनम् ऋषिः चुकोप ह॥ ९॥


तस्मै इमम् शापम् अदात् असाधुः
अयम् दुरात्मा अकृत-बुद्धिः अद्य।
विप्र-अवमन्ता विशताम् तमः-अन्धम्
यथा गजः स्तब्ध-मतिः सः एव॥ १०॥


श्री-शुक उवाच

एवम् शप्त्वा गतः अगस्त्यः भगवान् नृप स-अनुगः।
इन्द्रद्युम्नः अपि राजर्षिः दिष्टम् तत् उपधारयन्॥ ११॥


आपन्नः कौञ्जरीम् योनिम् आत्म-स्मृति-विनाशिनीम्।
हरि-अर्चन-अनुभावेन यत् गजत्वे अपि अनु-स्मृतिः॥ १२॥


एवम् विमोक्ष्य गज-यूथपम् अब्ज-नाभः
तेन अपि पार्षद-गतिम् गमितेन युक्तः।
गन्धर्व-सिद्ध-विबुधैः उपगीय-मान-
कर्म-अद्भुतम् स्व-भवनम् गरुड-आसनः अगात्॥ १३॥


एतत् महा-राज तव ईरितः मया
कृष्ण-अनुभावः गज-राज-मोक्षणम्।
स्वर्ग्यम् यशस्यम् कलि-कल्मष-अपहम्
दुःस्वप्न-नाशम् कुरु-वर्य शृण्वताम्॥ १४॥


यथा अनुकीर्तयन्ति एतत् श्रेयः-कामाः द्विजातयः।
शुचयः प्रातः उत्थाय दुःस्वप्न-आदिउपशान्तये॥ १५॥


इदम् आह हरिः प्रीतः गजेन्द्रम् कुरु-सत्तम।
शृण्वताम् सर्व-भूतानाम् सर्व-भूत-मयः विभुः॥ १६॥


श्री-भगवान् उवाच

ये माम् त्वाम् च सरः च इदम् गिरि-कन्दर-काननम्।
वेत्र-कीचक-वेणूनाम् गुल्मानि सुर-पादपान्॥ १७॥


शृङ्गानि इमानि धिष्ण्यानि ब्रह्मणः मे शिवस्य च।
क्षीर-उदम् मे प्रियं धाम श्वेत-द्वीपम् च भास्वरम्॥ १८॥


श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम।
सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतग-ईश्वरम्॥ १९॥


शेषम् च मत्-कलाम् सूक्ष्माम् श्रियम् देवीं मत्-आश्रयाम्।
ब्रह्माणम् नारदम् ऋषिम् भवम् प्रह्लादम् एव च॥ २०॥

श्री-भगवान् उवाच

मत्स्य-कूर्म-वराह-आद्यैः अवतारैः कृतानि मे।
कर्माणि अनन्त-पुण्यानि सूर्यं सोमं हुताशनम्॥ २१॥


प्रणवम् सत्यं अव्यक्तम् गो-विप्रान् धर्मम् अव्ययम्।
दाक्षायणीः धर्म-पत्न्यः सोम-कश्यपयोः अपि॥ २२॥


गङ्गाम् सरस्वतीं नन्दाम् कालिन्दीं सित-वारणम्।
ध्रुवम् ब्रह्म-ऋषीन् सप्त पुण्य-श्लोकान् च मानवान्॥ २३॥


उत्थाय अपर-रात्र-अन्ते प्रयताः सु-समाहिताः।
स्मरन्ति मम रूपाणि मुच्यन्ते हि एनसः अखिलात्॥ २४॥


ये माम् स्तुवन्ति अनेन अङ्ग प्रतिबुध्य निशा-अत्यये।
तेषाम् प्राण-अत्यये च अहम् ददामि विपुलाम् गतिम्॥ २५॥


श्री-शुक उवाच

इति आदिश्य हृषीकेशः प्राध्माय जलज-उत्तमम्।
हर्षयन् विबुध-आनीकम् आरुरोह खग-आधिपम्॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायाम् अष्टम-स्कन्धे गजेन्द्र-मोक्षणं नाम
चतुर्थः अध्यायः ॥

No comments: