Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 11 (ராமர், பரதன், லக்ஷ்மணன், சத்ருக்னன் பிள்ளைகள் பெயர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 ராமர், பரதன், லக்ஷ்மணன், சத்ருக்னன் பிள்ளைகள் பெயர்

ஸ்கந்தம் 9: அத்யாயம் 11

श्रीशुक उवाच
भगवान् आत्मना आत्मानम् रामः उत्तम-कल्पकैः।
सर्व-देव-मयम् देवं अईजे आचार्य-वान् मखैः ॥ १ ॥

होत्रे अददात् दिशम् प्राचीम् ब्रह्मणे दक्षिणाम् प्रभुः।
अध्वर्यवे प्रतीचीम् च उदीचीम् साम-गाय सः ॥ २ ॥

आचार्याय ददौ शेषाम् यावती भूः तद्-अन्तरा।
मन्यमानः इदम् कृत्स्नम् ब्राह्मणः अर्हति निःस्पृहः ॥ ३ ॥

इति अयम् तद्-अलङ्कार-वसो-भ्याम् अवशेषितः।
तथा राज्ञ्य् अपि वैदेही सौ-मङ्गल्या-अवशेषिता ॥ ४ ॥

ते तु ब्राह्मण्य-देवस्य वात्सल्यम् वीक्ष्य संस्तुतम्।
प्रीताः क्लिन्न-धियः तस्मै प्रत्यर्प्य इदम् बभाषिरे ॥ ५ ॥

अप्रत्तम् नः त्वया किम् नु भगवन् भुवन-ईश्वर।
यत् नः अन्तः-हृदयम् विश्य तमः हंसि स्व-रोचिषा ॥ ६ ॥

नमः ब्राह्मण्य-देवाय रामाय अ-कुण्ठ-मेधसे।
उत्तम-श्लोक-धुर्याय न्यस्त-दण्ड-अर्पित-अङ्घ्रये ॥ ७ ॥

कदा-चित् लोक-जिज्ञासुः गूढः रात्र्याम् अलक्षितः।
चरन् वाचः अशृणोत् रामः भार्याम् उद्दिश्य कस्यचित् ॥ ८ ॥

न अहम् बिभर्मि त्वाम् दुष्टाम् असतीम् पर-वेश्म-गाम्।
स्त्री-लोभी बिभ्रियात् सीताम् रामः न अहम् भजे पुनः ॥ ९ ॥

इति लोकात् बहु-मुखात् दुराराध्यात् असंविदः।
पत्या भीतेना सा त्यक्ता प्राप्ता प्राचेतस-आश्रमम् ॥ १० ॥

अन्तः-वत्त्नि आगते काले यमौ सा सुषुवे सुतौ।
कुशः लव इति ख्यातौ तयोः चक्रे क्रियाम् मुनिः ॥ ११ ॥

अङ्गदः चित्रकेतुः च लक्ष्मणस्य आत्मजौ स्मृतौ।
तक्षः पुष्कल इति आस्ताम् भरतस्य मही-पते ॥ १२ ॥

सुबाहुः श्रुतसेनः च शत्रुघ्नस्य बभूवतुः।
गन्धर्वान् कोटिशः जघ्ने भरतः विजये दिशाम् ॥ १३ ॥

तदीयम् धनम् आनीय सर्वम् राज्ञे न्यवेदयत्।
शत्रुघ्नः च मधोः पुत्रम् लवणम् नाम राक्षसम्।
हत्वा मधु-वने चक्रे मथुराम् नाम वै पुरीम् ॥ १४ ॥

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता।
ध्यायन्ती राम-चरणौ विवरम् प्रविवेश ह ॥ १५ ॥

तत् श्रुत्वा भगवान् रामः रुन्धन् अपि धिया शुचः।
स्मरन् तस्या गुणान् तान् तान् न अशक्नोत् रोद्धुम् ईश्वरः ॥ १६ ॥

स्त्री-पुम्-प्रसङ्गः एतादृक् सर्वत्र त्रासम् आवहः।
अपि ईश्वराणाम् किम् उत ग्राम्यस्य गृह-चेतसः ॥ १७ ॥

ततः ऊर्ध्वम् ब्रह्मचर्यम् धारयन् अजुहोत् प्रभुः।
त्रयो-दश-अब्ध-साहस्रम् अग्नि-होत्रम् अखण्डितम् ॥ १८ ॥

स्मरताम् हृदि विन्यस्य विद्धम् दण्डक-कण्टकैः।
स्व-पाद-पल्लवम् रामः आत्म-ज्योतिः अगात् ततः ॥ १९ ॥

न एदम् यशः रघु-पतेः सुर-याच्ञया आत्त-
लीला-तनुः अधिक-साम्य-विमुक्त-धाम्नः।
रक्षः- वधः जलधि-बन्धनम् अस्त्र-पुगैः
किम् तस्य शत्रु-हनने कपयः सहायाः ॥ २० ॥

यस्य अमलम् नृप-सदस्-सु यशः अधुना अपि
गायन्ति अघ-घ्नम् ऋषयः दिग्-इभ-इन्द्र-पट्टम्।
तम् नाक-पाल-वसु-पाल-किरीट-जुष्ट-
पाद-अम्बुजम् रघु-पतिम् शरणम् प्रपद्ये ॥ २१ ॥

सः यैः स्पृष्टः अभिदृष्टः वा संविष्टः अनुगतः अपि वा।
कोसलाः ते ययुः स्थानम् यत्र गच्छन्ति योगिनः ॥ २२ ॥

पुरुषः राम-चरितम् श्रवणैः उपधारयन्।
आ-नृशंस्य-परः राजन् कर्म-बन्धैः विमुच्यते ॥ २३ ॥

श्री-राजा उवाच।
कथम् सः भगवान् रामः भ्रातॄन् वा स्वयम् आत्मनः।
तस्मिन् वा ते अन्ववर्तन्त प्रजाः पौराः च ईश्वरे ॥ २४ ॥

श्री-शुक उवाच।
अथ आदिशत् दिग्-विजये भ्रातॄन् त्रि-भुवन-ईश्वरः।
आत्मानम् दर्शयन् स्वानाम् पुरीम् ऐक्षत स-अनुगः ॥ २५ ॥

आसिक्त-मार्गाम् गन्ध-उदैः करिणाम् मद-शीकरैः।
स्वामिनम् प्राप्तम् आलोक्य मत्ताम् वा सुतराम् इव ॥ २६ ॥

प्रासाद-गोपुर-सभाचैत्य-देव-गृह-आदिषु।
विन्यस्त-हेम-कलशैः पताकाभिः च मण्डिताम् ॥ २७ ॥

पूगैः स-वृन्तैः रम्भाभिः पट्टिकाभिः सु-वाससाम्।
आदर्शैः अंशुकैः स्रग्भिः कृत-कौतुक-तोरणाम् ॥ २८ ॥

तम् उपेयुः तत्र तत्र पौराः अर्हण-पाणयः।
आशिषः युयुजुः देव पाही इमाम् प्राक् त्वया उद्धृताम् ॥ २९ ॥

ततः प्रजाः वीक्ष्य पतिम् चिर-आगतम्
दिदृक्षया उत्सृष्ट-गृहाः स्त्रियः नराः।
आरुह्य हर्म्याणि अरविन्द-लोचन-
अतृप्त-नेत्राः कुसुमैः अवाकिरन् ॥ ३० ॥

अथ प्रविष्टः स्व-गृहम् जुष्टम् स्वैः पूर्व-राजभिः।
अनन्त-अखिल-कोष-आढ्यम् अनर्घ्य-उरु-परिच्छदम् ॥ ३१ ॥

विद्रुम-उदुम्बर-द्वारैः वैदूर्य-स्तम्भ-पङ्क्तिभिः।
स्थलैः मारकतैः स्वच्छैः भात-स्फटिक-भित्तिभिः ॥ ३२ ॥

चित्र-स्रग्भिः पट्टिकाभिः वासो-मणि-गण-अंशुकैः।
मुक्ता-फलैः च इदुल्लासैः कान्त-काम-उपपत्तिभिः ॥ ३३ ॥

धूप-दीपैः सुरभिभिः मण्डितम् पुष्प-मण्डनैः।
स्त्री-पुम्भिः सुर-सङ्काशैः जुष्टम् भूषण-भूषणैः ॥ ३४ ॥

तस्मिन् सः भगवान् रामः स्निग्धया प्रियया इष्टया।
रेमे स्व-आराम-धीराणाम् ऋषभः सीतया किल ॥ ३५ ॥

बुभुजे च यथा-कालम् कामान् धर्मम् अपीडयन्।
वर्ष-पूगान् बहून् नृणाम् अभिध्यात् अङ्घ्रि-पल्लवः ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे श्रीरामोपाख्याने एकादशोऽध्यायः ॥ 11 ॥

No comments: