Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 11 (நல்ல சமுதாயம் அமைய நான்கு வகுப்புகள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

நல்ல சமுதாயம் அமைய நான்கு வகுப்புகள்

ஸ்கந்தம் 7: அத்யாயம் 11

 

श्रीशुक उवाच –
श्रुत्वेहितं साधु सभासभाजितं
महत्तमाग्रण्य उरुक्रमात्मनः।
युधिष्ठिरो दैत्यपतेर्मुदा युतः
पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥

युधिष्ठिर उवाच –
भगवञ्छ्रोतुमिच्छामि नृणां धर्मं सनातनम्।
वर्णाश्रमाचारयुतं यत् पुमान्विन्दते परम् ॥ २ ॥

भवान्प्रजापतेः साक्षादात्मजः परमेष्ठिनः।
सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥ ३ ॥

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः।
करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥ ४ ॥

नारद उवाच –
नत्वा भगवतेऽजाय लोकानां धर्महेतवे।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५ ॥

योऽवतीर्यात्मनोऽशेन दाक्षायण्यां तु धर्मतः।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥

धर्ममूलं हि भगवान्सर्ववेदमयो हरिः।
स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥ ७ ॥

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः।
अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥

सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः।
तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः।
सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११ ॥

नृणामयं परो धर्मः सर्वेषां समुदाहृतः।
त्रिंशल्लक्षणवान्राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम्।
इज्याध्ययनदानानि विहितानि द्विजन्मनाम्।
जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः।
राज्ञो वृत्तिः प्रजागोप्तुरविप्राद् वा करादिभिः ॥ १४ ॥

वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः।
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥

वार्ता विचित्रा शालीनयायावरशिलोञ्छनम्।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥

जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः।
ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा।
सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन ॥ १८ ॥

ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम्।
मृतं तु नित्ययांच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम्।
वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम्।
सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥

शमो दमः तपः शौचं सन्तोषः क्षान्ति आर्जवम्।
ज्ञानं दया अच्युत-आत्मत्वं सत्यं च ब्रह्म-लक्षणम् ॥ २१ ॥

शौर्यं वीर्यं धृतिः तेजः त्याग आत्मजयः क्षमा।
ब्रह्मण्यता प्रसादः च रक्षा च क्षत्र-लक्षणम् ॥ २२ ॥

देव-गुर-वच्युते भक्तिः त्रि-वर्ग-परिपोषणम्।
आस्तिक्यं उद्यमः नित्यं नैपुण्यं वैश्य-लक्षणम् ॥ २३ ॥

शूद्रस्य संनतिः शौचं सेवा स्वामिन्य-मायया।
अमन्त्र-यज्ञो हि अस्तेयम् सत्यं गो-विप्र-रक्षणम् ॥ २४ ॥

स्त्रीणां च पति-देवानां तत्-शुश्रूषा अनुकूलता।
तत्-बन्धुषु अनुवृत्ति च नित्यं तत्-व्रत-धारणम् ॥ २५ ॥

सम्मार्जन-उपलेपा अभ्यां गृह-मण्डल-वर्तनैः।
स्वयं च मण्डिता नित्यं परि-मृष्ट-परिच्छदा ॥ २६ ॥

कामैः उच्चावचैः साध्वी प्रश्रयेण दमेन च।
वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ २७ ॥

सन्तुष्टा अलोलुपा दक्षा धर्मज्ञा प्रिय-सत्य-वाक्।
अप्रमत्ता शुचिः स्निग्धा पतिं त्वा पतितं भजेत् ॥ २८ ॥

या पतिं हरि-भावेन भजेच्छ्रीरिव तत्-पराः।
हरि-आत्मना हरि-र्लोके पत्या श्रीरिव मोदते ॥ २९ ॥

वृत्तिः सङ्‌कर-जातीना तत्तत्-कुलकृता भवेत्।
अचौराणाम् अपापानाम् अन्त्यजान्ते अवसायिनाम् ॥ ३० ॥

प्रायः स्वभाव-विहितो नृणां धर्मो युगे युगे।
वेद-दृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥

वृत्त्या स्वभाव-कृत्या वर्तमानः स्वकर्म-कृत्।
हित्वा स्वभावजं कर्म शनैः निर्गुणता-मीयात् ॥ ३२ ॥

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्य-ताम् इयात्।
न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥

एवं काम-आशयं चित्तं कामानाम् अति-सेवया।
विरज्येत यथा राजन् अग्निवत् काम-बिन्दुभिः ॥ ३४ ॥

यस्य यः लक्षणं प्रोक्तं पुंसो वर्ण-अभिव्यञ्जकम्।
यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ ३५ ॥

॥ इति श्रीमद्-भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे सत्-आचार-निर्णयः
नाम एकादशः-अध्यायः ॥ ११ ॥

No comments: