பாகவதர்களில் உத்தமன் பிரஹலாதன்
ஸ்கந்தம் 7: அத்யாயம் 10
श्री-नारद उवाच
भक्ति-योगस्य तत् सर्वम् अंतर-आयते-आर्भकः।
मन्यमानो हृषीकेशं स्मयमान् उवाच ह ॥ १ ॥
श्री-प्रह्लाद उवाच
मा माम् प्रलोभ-उत्पत्त्याऽऽसक्तं कामेषु तैः वरैः।
तत् सङ्ग-भीतो निर्विण्णः मुमुक्षुः त्वाम् उपाश्रितः ॥ २ ॥
भृत्य-लक्षण-जिज्ञासुः भक्तं कामेषु चोदितः।
भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो ॥ ३ ॥
नान्यथा तेऽखिल-गुरो घटेत् करुणा-आत्मनः।
यः ताशिष् आशा-स्ते न स भृत्यः स वै वणिक् ॥ ४ ॥
आशासानो न वै भृत्यः स्वामिन्याशिष् आत्मनः।
न स्वामी भृत्यतः स्वाम्यं इच्छन् यः राति च आशिषः ॥ ५ ॥
अहं त्वकामः त्वद् भक्तः त्वं च स्वाम्य-अपाश्रयः।
नान्यथा एहावयोः अर्थो राज-सेवकयोः इव ॥ ६ ॥
यदि रासीः मे कामान् वराः त्वं वर-दर्शभ।
कामानां हृद्य-संरोहं भवतः तु वृणे वरम् ॥ ७ ॥
इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः।
ह्रीः श्रीः तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ ८ ॥
विमुञ्चति यदा कामान् मानवो मनसि स्थितान्।
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ ९ ॥
नमो भगवते तुभ्यं पुरुषाय महात्मने।
हरयेऽद्भुत-सिंहाय ब्रह्मणे परमात्मने ॥ १० ॥
नृसिंह उवाच
नैकान्तिनो मे मयि जात्विह आशिष्
आशासतेऽमुत्र च ये भवद् विधाः।
अथापि मन्वन्तरं एतदत्र
दैत्येश्वराणाम् अनुभुङ्क्ष्व भोगान् ॥ ११ ॥
कथा मदीया जुषमाणः प्रियास्त्वम्
आवेश्य मामात्मनि सन्तम् एकम्।
सर्वेषु भूतेषु अधियज्ञ-मीशं
यजस्व योगेन च कर्म हिन्वन् ॥ १२ ॥
भोगेन पुण्यं कुशलेन पापं
कलेवरं काल-जवेन् हित्वा।
कीर्तिं विशुद्धां सुर-लोक-गीतां
विताय मामेष्यसि मुक्त-बन्धः ॥ १३ ॥
य एतत् कीर्तयेन्मह्यं त्वया गीतमिदं नरः।
त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥ १४ ॥
श्री-प्रह्लाद उवाच
वरं वरय एतत् ते वर-देशान् महेश्वर।
यद् अनिन्दत् पिता मे त्वाम् विद्वांस्तेज ऐश्वरम् ॥ १५ ॥
विद्धा मर्ष-आशयः साक्षात् सर्व-लोक-गुरुं प्रभुम्।
भ्रातृ-हेति मृषा दृष्टिः त्वद् भक्ते मयि चाघवान् ॥ १६ ॥
तस्मात् पिता मे पूयेत् दुरन्तात् दुस्तराद् घात्।
पूतस्तेऽपाङ्ग-संदृष्टस्तदा कृपणवत्सल ॥ १७ ॥
श्री-भगवान् उवाच
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ।
यत् साधोऽस्य गृहे जातो भवान्वै कुल-पावनः ॥ १८ ॥
यत्र यत्र च मद्भक्ताः प्रशान्ताः सम-दर्शिनः।
साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः ॥ १९ ॥
सर्व-आत्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन।
उच्च-आवचेषु दैत्येन्द्र मद्भावेन गत-स्पृहाः ॥ २० ॥
भवन्ति पुरुषा लोके मद्भक्तास्त्वाम् अनुव्रताः।
भवान् मे खलु भक्तानां सर्वेषां प्रति रूप-धृक् ॥ २१ ॥
कुरु त्वं प्रेत-कार्याणि पितुः पूतस्य सर्वशः।
मद-अङ्ग-स्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २२ ॥
पितृयं च स्थानम् आ तिष्ठ यथोक्तं ब्रह्म-वादिभिः।
मय्यावेश्य मनः तात कुरु कर्माणि मत् परः ॥ २३ ॥
श्री-नारद उवाच
प्रह्रादोऽपि तथा चक्रे पितुर्यत् साम्परायिकम्।
यथाऽऽह भगवान् राजन् अभिषिक्तो द्विजोत्तमैः ॥ २४ ॥
प्रसाद-सुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम्।
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिः वृत्तः ॥ २५ ॥
श्री-ब्रह्मो वाच
देव-देवाखिलाध्यक्ष भूत-भावन पूर्वज।
दिष्ट्या ते निहतः पापः लोक-सन्तापनोऽसुरः ॥ २६ ॥
योऽसौ लब्ध-वरो मत्तो न वध्यो मम सृष्टिभिः।
तपो-योगबलो-न्नद्धः समस्त-निगमानहन् ॥ २७ ॥
दिष्ट्या स्य तनयः साधुर्महाभागवतोऽर्भकः।
त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना ॥ २८ ॥
एतद् वपुस्ते भगवन्ध्यायतः परमात्मनः।
सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः ॥ २९ ॥
नृसिंह उवाच
मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव।
वरः क्रूर-निसर्गाणाम् हीनाम् अमृतं यथा ॥ ३० ॥
श्री-नारद उवाच
इत्युक्त्वा भगवान् राजंस्तत्रैवान्तर्दधे हरिः।
अदृश्यः सर्व-भूतानां पूजितः परमेष्ठिना ॥ ३१ ॥
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम्।
भवं प्रजापतीन्देवान् प्रह्लादो भगवत्कलाः ॥ ३२ ॥
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः।
दैत्य-दानवानां च प्रह्लादम् अकरोत् पतिम् ॥ ३३ ॥
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः।
स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ ३४ ॥
एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३५ ॥
पुनश्च विप्र-शापेन राक्षसौ तौ बभूवतुः।
कुम्भकर्ण-दशग्रीवौ हतौ तौ रामविक्रमैः ॥ ३६ ॥
शयानौ युधि निर्भिन्न-हृदयौ राम-शायकैः।
तच्चित्तौ जहतुर्देहं यथा प्राक्तन-जन्मनि ॥ ३७ ॥
ताविहाथ पुनर्जातौ शिशुपाल-करूषजौ।
हरौ वैरानु-बन्धेन पश्यतस्ते समीयतुः ॥ ३८ ॥
एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः।
जहुस्तेऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ ३९ ॥
यथा यथा भगवतो भक्त्या परमयाभिदा।
नृपाः चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ ४० ॥
आख्यातं सर्वमेतत् ते यन्मां त्वं परिपृष्टवान्।
दम-घोष-सुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ ४१ ॥
एषा ब्रह्मण्य-देवस्य कृष्णस्य च महात्मनः।
अवतार-कथा पुण्या वधो यत्रादि दैत्ययोः ॥ ४२ ॥
प्रह्लादस्य अनुचरितं महाभागवतस्य च।
भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४३ ॥
सर्ग-स्थिति-अप्ययेशस्य गुण-कर्मानुवर्णनम्।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४४ ॥
धर्मो भागवतानां च भगवान्येन गम्यते।
आख्यानेऽस्मिन् समाम्नातमाध्यात्मिकम् अशेषतः ॥ ४५ ॥
य एतत् पुण्यमाख्यानं विष्णोः वीर्योपबृंहितम्।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्म-पाशैर्विमुच्यते ॥ ४६ ॥
एतद् य आदिपुरुषस्य मृगेन्द्र-लीलां
दैत्येन्द्र-यूथ-पवधं प्रयतः पठेत।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वा अनुभावमकुतोभयमेति लोकम् ॥ ४७ ॥
यूयं नृलोके बहु-भागाः,
लोकं पुनाना मुनयः अभियन्ति।
येषां गृहान् अवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ ४८ ॥
स वा अयं ब्रह्म महद्विमृग्य
कैवल्य-निर्वाण-सुखानुभूतिः।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधिकृत् गुरुश्च ॥ ४९ ॥
न यस्य साक्षाद् भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम्।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः ॥ ५० ॥
स एष भगवान् राजन् व्यतनोद् विहतं यशः।
पुरा रुद्रस्य देवस्य मयेन अनन्तमायिना ॥ ५१ ॥
राजोवाच
कस्मिन् कर्मणि देवस्य मयोऽहं जगदीशितुः।
यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ ५२ ॥
श्री-नारद उवाच
निर्जिता असुरा देवैर् युध्यनेनोपबृंहितैः।
मायिनां परमाचार्यं मयं शरणमाययुः ॥ ५३ ॥
स निर्माय पुरस्ति स्रो हैमीरौप्यायसीर्विभुः।
दुर्लक्ष्य-अपाय-संयोगा दुर्वितर्क्य-परिच्छदाः ॥ ५४ ॥
ताभिस्तेऽसुरसेनान्यो लोकान् स्त्रीन् सेश्वरान् नृप।
स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः ॥ ५५ ॥
ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो।
त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥ ५६ ॥
अथानुगृह्य भगवान् मा भैष्टेति सुरान्विभुः।
शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ ५७ ॥
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्।
यथा मयूख-सन्दोहा नादृश्यन्त पुरो यतः ॥ ५८ ॥
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः।
तान्ानीय महायोगी मयः कूपरसेऽक्षिपत् ॥ ५९ ॥
सिद्धामृत-रस-स्पृष्टा वज्र-सारा महौजसः।
उत्तस्थुर्मेघ-दलना वैद्युता इव वह्नयः ॥ ६० ॥
विलोक्य भग्न-सङ्कल्पं विमनस्कं वृषध्वजम्।
तदायं भगवान् विष्णुः तत्रोपायं कल्पयत् ॥ ६१ ॥
वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२ ॥
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः।
तद् विज्ञाय महायोगी रसपालान् इदम् जगौ ॥ ६३ ॥
स्वयं विशोकः शोकार्तान् स्मरन्दैवगतिं च ताम्।
देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ॥ ६४ ॥
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः।
अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ॥ ६५ ॥
धर्म-ज्ञान-विरक्त्य-ृद्धितपो-विद्या-क्रियादिभिः।
रथं सूतं ध्वजं वाहान् धनुर्वर्म शरादि यत् ॥ ६६ ॥
सन्नद्धो रथमास्थाय शरं धनुरुपाददे।
शरं धनुषि सन्धाय मुहूर्तेऽभिजित-ईश्वरः ॥ ६७ ॥
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप।
दिवि दुन्दुभयो नेदुर्विमान-शतसङ्कुलाः ॥ ६८ ॥
देवर्षि-पितृ-सिद्धेशा जयेति कुसुमोत्करैः।
अवाकिरं जगुर्हृष्टा न नृतुश्चाप्सरोगणाः ॥ ६९ ॥
एवं दग्ध्वा पुरस्ति स्रो भगवान् पुरहा नृप।
ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत ॥ ७० ॥
एवंविधान्यस्य हरेः स्वमायया
विडम्बमानस्य नृलोकम् आत्मनः।
वीर्याणि गीतानि ऋषिभिर्जगद्गुरोर्लोकन्
पुनः आनान्यपरं वदामि किम् ॥ ७१ ॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे त्रिपुरविजयो नाम
दशमोऽध्यायः ॥ १० ॥

No comments:
Post a Comment