Followers

Search Here...

Sunday, 14 December 2025

ஸ்கந்தம் 5: அத்யாயம் 5 (ரிஷபதேவரின் உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ரிஷபதேவரின் உபதேசம்

ஸ்கந்தம் 5: அத்யாயம் 5

 

ऋषभ उवाच –

न अयं देहः देह-भाजां नृ-लोके कष्टान् कामान् अर्हते विट्-भुजां ये।
तपः दिव्यं पुत्रकाः येन सत्त्वं शुद्ध्येत् यस्मात् ब्रह्म-सौख्यं तु अनन्तम् ॥ १ ॥

महत्-सेवां द्वारम् आहुः विमुक्तेः तमः-द्वारं योषितां सङ्गि-सङ्गम्।
महान्तः ते सम-चित्ताः प्रशान्ताः विमन्यवः सुहृदः साधवः ये ॥ २ ॥

ये वा मयि ईशे कृत-सौहृद-अर्थाः जनेषु देहं-भर-वार्तिकेषु।
गृहेषु जाय-आत्मज-राति-मत्सु न प्रीति-युक्ताः यावत् अर्थाः च लोके ॥ ३ ॥

नूनं प्रमत्तः कुरुते विकर्म यत् इन्द्रिय-प्रीतयः आपृणोति।
न साधु मन्ये यत् आत्मनः अयम् असन् अपि क्लेश-दः आस्य देहः ॥ ४ ॥

पराभवः तावत् अबोध-जातः यावत् न जिज्ञासते आत्म-तत्त्वम्।
यावत् क्रियाः तावत् इदं मनः वै कर्म-आत्मकं येन शरीर-बन्धः ॥ ५ ॥

एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्यया आत्मनि उपधीयमाने।
प्रीतिः न यावत् मयि वासुदेवे न मुच्यते देह-योगेन तावत् ॥ ६ ॥

यदा न पश्यति अयथा गुण-ईहां स्व-अर्थे प्रमत्तः सहसा विपश्चित्।
गत-स्मृतिः विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः ॥ ७ ॥

पुंसः स्त्रिया मिथुनी-भावम् एतं तयोः मिथः हृदय-ग्रन्थिम् आहुः।
अतः गृह-क्षेत्र-सुत-आप्त-वित्तैः जनस्य मोहः अयम् अहं ममेति ॥ ८ ॥

यदा मनः-हृदय-ग्रन्थिः अस्य कर्म-अनुबद्धः दृढः आश्लथेत।
तदा जनः सम्परिवर्तते अस्मात् मुक्तः परं याति अतिहाय हेतुम् ॥ ९ ॥

हंसे गुरौ मयि भक्ति-अनुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च।
सर्वत्र जन्तोः व्यसन-अवगत्या जिज्ञासया तपसा ईहा-निवृत्त्या ॥ १० ॥

मत्-कर्मभिः मत्-कथया च नित्यं मत्-देव-सङ्गात् गुण-कीर्तनात् मे।
निर्वैर-साम्य-उपशमेन पुत्राः जिहासया देह-गेह-आत्म-बुद्धेः ॥ ११ ॥

अध्यात्म-योगेन विविक्त-सेवया प्राण-इन्द्रिय-आत्म-अभिजयेन साध्यक्।
सत्-श्रद्धया ब्रह्म-चर्येण शश्वत् असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥

सर्वत्र मत्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन।
योगेन धृति-उद्यम-सत्त्व-युक्तः लिङ्गं व्यपोहेत् कुशलः अहम्-आख्यम् ॥ १३ ॥

कर्म-आशयं हृदय-ग्रन्थि-बन्धम् अविद्यया आसादितम् अप्रमत्‍तः।
अनेन योगेन यथा-उपदेशं सम्यक् व्यपोह्य उपरमेत् योगात् ॥ १४ ॥

पुत्रान् च शिष्यान् च नृपः गुरुः वा मत्-लोक-कामः मत्-अनुग्रह-अर्थः।
इत्थं विमन्युः अनुशिष्यात् अतत्-ज्ञान् न योजयेत् कर्मसु कर्म-मूढान्।
कं योजयन् मनुजः अर्थं लभेत निपातयन् नष्ट-दृशं हि गर्ते ॥ १५ ॥

लोकः स्वयं श्रेयसि नष्ट-दृष्टिः यः अर्थान् समीहेत् निकाम-कामः।
अन्योन्य-वैरः सुख-लेश-हेतोः अनन्त-दुःखं च न वेद मूढः ॥ १६ ॥

कः तम् स्वयं तत्-अभिज्ञः विपश्चित् अविद्यायाम् अन्तरे वर्तमानम्।
दृष्ट्वा पुनः तम् सघृणः कुबुद्धिं प्रयोजयेत् उत्-पथ-गं यथा अन्धम् ॥ १७ ॥

गुरुः न सः स्यात् स्व-जनः न सः स्यात् पिता न सः स्यात् जननी न सा स्यात्।
दैवं न तत् स्यात् न पतिः च सः स्यात् न मोचयेत् यः समुपेत-मृत्युम् ॥ १८ ॥

इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः।
पृष्ठे कृतः मे यत् अधर्मः आरात् अतः हि माम् ऋषभं प्राहुः आर्याः ॥ १९ ॥

तस्मात् भवन्तः हृदयेन जाताः सर्वे महीयांसम् अमुं सनाभम्।
अक्लिष्ट-बुद्ध्या भरतं भजध्वं शुश्रूषणं तत्-भरणं प्रजानाम् ॥ २० ॥

भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः।

ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये॥ २१

देवासुरेभ्यः मघवत्-प्रधाना दक्ष-आदयः ब्रह्म-सुताः तु तेषाम्।

भवः परः सः अथ विरिञ्च-वीर्यः सः मत्-परः अहं द्विज-देव-देवः॥ २२ ॥

न ब्राह्मणैः तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परं तु।
यस्मिन् नृभिः प्रहुतं श्रद्धया अहम् अश्नामि कामं न तथा अग्नि-होत्रे॥ २३ ॥

धृता तनुः उशती मे पुराणी येन इह सत्त्वं परमं पवित्रम्।
शमः दमः सत्यं अनुग्रहः च तपः तितिक्षा अनुभवः च यत्र॥ २४ ॥

मत्तः अपि अनन्तात् परतः परस्मात् स्वर्ग-अपवर्ग-अधिपतेः न किञ्चित्।
येषाम् किमु स्यात् इतरेण तेषाम् अकिञ्चनानां मयि भक्ति-भाजाम्॥ २५ ॥

सर्वाणि मत्-धिष्ण्यतया भवद्भिः चराणि भूतानि सुताः ध्रुवाणि।
सम्भावितव्यानि पदे पदे वः विविक्त-दृग्भिः तत् उ हार्हणं मे॥ २६ ॥

मनः-वचः-दृक्-करण-ईहितस्य साक्षात्-कृतं मे परिबर्हणं हि।
विना पुमान् येन महा-विमोहात् कृतान्त-पाशात् न विमोक्तुम् ईशेत्॥ २७ ॥


श्री-शुक उवाच

एवम् अनुशास्य आत्मजान् स्वयम् अनुशिष्टान् अपि लोक-अनुशासन-अर्थम्
महानुभावः परम-सुहृत् भगवान् ऋषभ-आदेशः

उपशम-शीलानाम् उपरत-कर्मणाम्
महा-मुनीनाम् भक्तिः–ज्ञान–वैराग्य-लक्षणम्
पारमहंस्य-धर्मम् उपशिक्षमाणः

स्व-तनय-शत-ज्येष्ठम् परम-भागवतम् भगवत्-जन-परायणम्
भरतम् धरणि-पालनाय अभिषिच्य

स्वयम् भवने एव उर्वरित-शरीर-मात्र-परिग्रहः
उन्मत्तः इव गगन-परिधानः प्रकीर्ण-केशः

आत्मनि आरोपित-आहवनीयः ब्रह्म-आवर्तात् प्रवव्राज ॥ २८ ॥

जड-अन्ध-मूक-बधिर-पिशाच-उन्मादकवत् अवधूत-वेषः
अभिभाष्यमाणः अपि जनानाम् गृहीत-मौन-व्रतः तूष्णीम् बभूव ॥ २९ ॥

तत्र तत्र पुर-ग्राम-आकर-खेट-वाट-खर्वट
शिबिर-व्रज-घोष-सार्थ-गिरि-वन-आश्रम-आदिषु

अनुपथम् अवनि-चर-अपसदैः परिभूयमानः
मक्षिकाभिः इव वन-गजः

तर्जन-ताडन-अवमेहन-ष्ठीवन-ग्राव-शकृत्-रजः
प्रक्षेप-पूति-वात-दुरुक्तैः तत् अविगणयन् एव

असत्-संस्थाने एतस्मिन् देह-उपलक्षणे
सत्-अपदेशः उभय-अनुभव-स्वरूपेण स्व-महिमा-अवस्थानेन

अस्मारोपित-अहं-मम-अभिमानत्वात् अविखण्डित-मनाः
पृथिवीम् एक-चरः परिबभ्राम ॥ ३० ॥

अति-सुकुमार-कर-चरण-उरः-स्थल
विपुल-बाहु-अंस-गल-वदन-आदि-अवयव-विन्यासः

प्रकृति-सुन्दर-स्वभाव-हास-सुमुखः
नव-नलिन-दल-आयमान-शिशिर-तार-अरुण-आयत-नयन-रुचिरः

सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासः विगूढ-स्मित-वदन-मह-उत्सवेन

पुर-वनितानाम् मनसि कुसुम-शर-आसनम् उपदधानः

पराग-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारः
अवधूत-मलिन-निज-शरीरेण ग्रह-गृहीतः इव अदृश्यत ॥ ३१ ॥

यर्हि वाव सः भगवान् लोकम् इमम् योगस्य आद्धा प्रतीपम् इव आचक्षाणः

तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम् आस्थितः

शयानः एव अश्नाति पिबति खादति अवमेहति हदति स्म
चेष्टमानः उच्चरित-आदि-ग्ध-उद्देशः ॥ ३२ ॥

तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुः तम् देशम् दश-योजनम्
समन्तात् सुरभिम् चकार ॥ ३३ ॥

एवम् गो-मृग-काक-चर्यया व्रजन् तिष्ठन् आसीनः शयानः

काक-मृग-गोचरितः पिबति खादति अवमेहति स्म ॥ ३४ ॥

इति नाना-योग-चर्या-आचरणः भगवान् कैवल्य-पतिः ऋषभः

अविरत-परम-महा-आनन्द-अनुभवः आत्मनि सर्वेषाम् भूतानाम् आत्म-भूते

भगवति वासुदेवे आत्मनः अव्यवधान-अनन्त-रोदर-भावेन

सिद्ध-समस्त-अर्थ-परिपूर्णः योग-ऐश्वर्याणि
वैहायस-मनोजव-अन्तर्धान पर-काय-प्रवेश-दूर-ग्रहण-आदीनि

यदृच्छया उपगतानि न अञ्जसा नृप हृदयेन अभ्यनन्दत् ॥ ३५ ॥

॥ इति श्रीमद्-भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चम-स्कन्धे ऋषभदेव-अनुचरिते पञ्चमोऽध्यायः ॥ ५ ॥

No comments: