நல்ல குடிமகன் எப்படி இருக்க வேண்டும்
ஸ்கந்தம் 7: அத்யாயம் 15
श्री-नारद उवाच
कर्म-निष्ठा द्विजाः केचित् तपो-निष्ठा नृप-अपरे।
स्वाध्यायेऽन्ये प्रवचने ये केचित् ज्ञान-योगयोः ॥ १ ॥
ज्ञान-निष्ठाय देयानि कव्य-अन्यानन्त्यमिच्छता।
दैवे च तद्-भावे स्याद् इतरेभ्यः यथार्हतः ॥ २ ॥
द्वौ दैवे पितृ-कार्ये त्री-नेकैकम्-उभयत्र वा।
भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यात् न विस्तरम् ॥ ३ ॥
देश-काल-उचित-श्रद्धा द्रव्य-पात्र-आर्हणानि च।
सम्यक् भवन्ति न एतानि विस्तरात् स्वजन-आर्पणात् ॥ ४ ॥
देशे काले च सम्प्राप्ते मुुन्य-न्नं हरि-दैवतम्।
श्रद्धया विधिवत् पात्रे न्यस्तं कामधु-क्षयम् ॥ ५ ॥
देवर्षि-पितृ-भूतेभ्यः आत्मने स्वजनाय च।
अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषा-आत्मकम् ॥ ६ ॥
न दद्याद् आमिषं श्राद्धे न च आद्याद् धर्म-तत्त्ववित्।
मुुन्य-न्नैः स्यात् परा प्रीतिः यथा न पशु-हिंसया ॥ ७ ॥
न एतादृशः परो धर्मः नृणां सद्धर्म-मिच्छताम्।
न्यासः दण्डस्य भूतेषु मनो-वाक्-कायजस्य यः ॥ ८ ॥
एके कर्म-मयान् यज्ञान् ज्ञानिनो यज्ञ-वित्तमाः।
आत्म-संयमनेऽनीहा जुह्वति ज्ञान-दीपिते ॥ ९ ॥
द्रव्य-यज्ञैः यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति।
एष माकरुणो हन्याद् तज्ज्ञो हि असुतृभ् ध्रुवम् ॥ १० ॥
तस्माद् दैव-उपपन्नेन मुुन्य-न्नेनापि धर्मवित्।
सन्तुष्टोऽहरहः कुर्यात् नित्य-नैमित्तिकीः क्रियाः ॥ ११ ॥
विधर्मः पर-धर्मश्च आभास उपमा छलः।
अधर्म-शाखाः पञ्चे मा धर्म-ज्ञोऽधर्मवत् त्यजेत् ॥ १२ ॥
धर्म-बाधो विधर्मः स्यात् पर-धर्मोऽन्य-चोदितः।
उप-धर्मः तु पाखण्डो दम्भो वा शब्द-भिच्छलः ॥ १३ ॥
यस्त्विच्छया कृतः पुम्भिः राभासो हि आश्रमात् पृथक्।
स्वभाव-विहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ १४ ॥
धर्म-ार्थम् अपि ने-हेत यात् र्थार्थं वाधनो धनम्।
अनीहा-नीह-मानस्य महा-हेरिव वृत्तिदा ॥ १५ ॥
सन्तुष्टस्य निरीहस्य स्व-आत्मारामस्य यत् सुखम्।
कुतस्तत् काम-लोभेन धावतोऽर्थेहया दिशः ॥ १६ ॥
सदा सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः।
शर्करा-कण्टकादि-भ्यः यथो-आप्नत् पदः शिवम् ॥ १७ ॥
सन्तुष्टः केन वा राजन् वर्तेत् आपि वारिणा।
औपस्थ्य-जैह्व्य-कार्पण्याद् गृहपालायते जनः ॥ १८ ॥
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः।
स्रवन्तीन्द्रि-लौल्येन ज्ञानं चैव आवकीर्यते ॥ १९ ॥
कामस्यान्तं च क्षुत्-तृड्भ्यां क्रोधस्य एतत् फल-उदायत्।
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ २० ॥
पण्डिताः बहवः राजन् बहु-ज्ञाः संशय-च्छिदः।
सदसः-पतयः अपि एके असन्तोषात् पतन्ति अधः ॥ २१ ॥
असङ्कल्पात् जयेत् कामम् क्रोधम् काम-विवर्जनात्।
अर्थ-अनर्थ-क्षयात् लोभम् भयं तत्त्व-अवमर्शनात् ॥ २२ ॥
आन्वीक्षिक्या शोक-मोहौ दम्भम् महत्-उपासया।
योग-अन्तरायान् मौनेन हिंसाम् काया-आदि-अनीहया ॥ २३ ॥
कृपया भूत-जम् दुःखम् दैवम् जह्यात् समाधिना।
आत्म-जम् योग-वीर्येण निद्राम् सत्त्व-निषेवया ॥ २४ ॥
रजः-तमसोः च सत्त्वेन सत्त्वम् च उपशमेन च।
एतत् सर्वम् गुरौ भक्त्या पुरुषः हि अञ्जसा जयेत् ॥ २५ ॥
यस्य साक्षात् भगवति ज्ञान-दीप-प्रदे गुरौ।
मर्त्य-असत्-धीः श्रुतम् तस्य सर्वम् कुञ्जर-शौच-वतः ॥ २६ ॥
एषः वै भगवान् साक्षात् प्रधान-पुरुष-ईश्वरः।
योग-ईश्वरैः विमृग्य-अङ्घ्रिः लोकः यम् मन्यते नरम् ॥ २७ ॥
षट्-वर्ग-संयम-एकान्ताः सर्वाः नियम-चोदनाः।
तत्-अन्ताः यदि नः योगान् अवहेयुः श्रम-आवहाः ॥ २८ ॥
यथा वार्ता-आदयः हि अर्थाः योगस्य अर्थम् न बिभ्रति।
अनर्थाय भवेयुः ते पूर्त-अिष्टम् तथा असतः ॥ २९ ॥
यः चित्त-विजये यत्तः स्यात् निःसङ्गः अपरिग्रहः।
एकः विविक्त-शरणः भिक्षुः भिक्षा-मित-अशनः ॥ ३० ॥
देशे शुचौ समे राजन् संस्थाप्य आसनम् आत्मनः।
स्थिरम् समम् सुखम् तस्मिन् आसीत् ऋजु-अङ्गः ॐ इति ॥ ३१ ॥
प्राण-अपानौ सन्निरुन्ध्यात् पूर-कुम्भक-रेचकैः।
यावत् मनः त्यजेत् कामान् स्व-नासाग्र-निरीक्षणः ॥ ३२ ॥
यतः यतः निःसरति मनः काम-हतम् भ्रमत्।
ततः ततः उपाहृत्य हृदि रुन्ध्यात् शनैः बुधः ॥ ३३ ॥
एवम् अभ्यसतः चित्तम् कालेन अल्पीयसा यतेः।
अनिशम् तस्य निर्वाणम् याति अनिन्धन-वह्नि-वत् ॥ ३४ ॥
काम-आदिभिः अनाविद्धम् प्रशान्त-अखिल-वृत्ति यत्।
चित्तम् ब्रह्म-सुख-स्पृष्टम् नैव उत्थिष्ठेत् कर्हिचित् ॥ ३५ ॥
यः प्रव्रज्य गृहात् पूर्वम् त्रि-वर्ग-अवपनात् पुनः।
यदि सेवेत्तान् भिक्षुः सः वै वान्त-अशि-पत्रपः ॥ ३६ ॥
यैः स्व-देहः स्मृतः न आत्मा मर्त्यः विट्-कृमि-भस्म-सात्।
ते एनम् आत्म-सात् कृत्वा श्लाघयन्ति हि असत्-तमाः ॥ ३७ ॥
गृहस्थस्य क्रिया-त्यागः व्रत-त्यागः वटोर् अपि।
तपस्विनः ग्राम-सेवा भिक्षोः इन्द्रिय-लोलता ॥ ३८ ॥
आश्रम-अपसदाः हि एते खलु आश्रम-विडम्बकाः।
देव-माया-विमूढान् तान् उपेक्षेत् अनुकम्पया ॥ ३९ ॥
आत्मानम् चेत् विजानीयात् परम् ज्ञान-धुत-आशयः।
किम् इच्छन् कस्य वा हेतोः देहम् पुष्णाति लम्पटः ॥ ४० ॥
आहुः शरीरम् रथम् इन्द्रियाणि हयान् अभीषून्।
मनः इन्द्रिय-ईशम् वर्त्मानि मात्राः धिषणाम् च सूतम्।
सत्त्वम् बृहत् बन्धुः अमीश-सृष्टम् ॥ ४१ ॥
अक्षम् दश-प्राणम् अधर्म-धर्मौ।
चक्रे अभिमानम् रथिनम् च जीवम्।
धनुः हि तस्य प्रणवम् पठन्ति।
शरम् तु जीवम् परम-एव लक्ष्यम् ॥ ४२ ॥
रागः द्वेषः च लोभः च शोक-मोहौ भयम् मदः।
मानः अवमानः असूया च माया हिंसा च मत्सरः ॥ ४३ ॥
रजः प्रमादः क्षुत्-निद्रा शत्रवः तु एवम्-आदयः।
रजस्-तमः-प्रकृतयः सत्त्व-प्रकृतयः क्वचित् ॥ ४४ ॥
यावत् नृकाय-रथम् आत्म-वश-उपकल्पम्
धत्ते गरिष्ठ-चरण-आर्चनया निशातम्।
ज्ञान-असिम् अच्युत-बलः दधत् अस्त-शत्रुः
स्व-राज्य-तुष्टः उपशान्तः इदम् विजह्यात् ॥ ४५ ॥
न चेत् प्रमत्तम् असत्-इन्द्रिय-वाजि-सूता
नीत्वा उन्मार्गम् विषय-दस्युषु निक्षिपन्ति।
ते दस्यवः सह-हय-सूतम् अमुम् तमः-अन्धे
संसार-कूपे उरु-मृत्यु-भये क्षिपन्ति ॥ ४६ ॥
प्रवृत्तम् च निवृत्तम् च द्वि-विधम् कर्म वैदिकम्।
आवर्तते प्रवृत्तेन निवृत्तेन अश्नुते अमृतम् ॥ ४७ ॥
हिंस्रम् द्रव्य-मयम् काम्यम् अग्नि-होत्र-आदि-अशान्ति-दम्।
दर्शः च पूर्ण-मासः च चातुर्-मास्यम् पशुः सुतः ॥ ४८ ॥
एतत् इष्टम् प्रवृत्त-अाख्यम् हुतम् प्रहुतम् एव च।
पूर्तम् सुर-आलय-आराम-कूप-आजिव्य-आदि-लक्षणम् ॥ ४९ ॥
द्रव्य-सूक्ष्म-विपाकः च धूमः रात्रिः अपक्षयः।
अयनम् दक्षिणम् सोमः दर्शः ओषधि-वीरुधः ॥ ५० ॥
अन्नम् रेतः इति क्ष्मेश पितृ-यानम् पुनः-भवः।
एक-एक-श्येन अनूपूर्वम् भूत्वा भूत्वा इह जायते ॥ ५१ ॥
निषेक-आदि-श्मशान-अन्तैः संस्कारैः संस्कृतः द्विजः।
इन्द्रियेषु क्रिया-यज्ञान् ज्ञान-दीपेषु जुह्वति ॥ ५२ ॥
इन्द्रियाणि मनसि ऊर्मौ वाचि वैकारिकम् मनः।
वाचम् वर्ण-समाम्नाये तमः अङ्कारः स्वरे न्यसेत्।
ओङ्कारम् बिन्दौ नादे तम् तम् तु प्राणे महति अमुम् ॥ ५३ ॥
अग्निः सूर्यः दिवा प्राह्णः शुक्लः राक्-उत्तरम् स्वराट्।
विश्वः च तैजसः प्राज्ञः तुरीयः आत्मा समन्वयात् ॥ ५४ ॥
देव-यानम् इदम् प्राहुः भूत्वा भूत्वा अनुपूर्वशः।
आत्म-याज्य उपशान्त-आत्मा हि आत्म-स्थः न निवर्तते ॥ ५५ ॥
ये एते पितृ-देवानाम् अयने वेद-निर्मिते।
शास्त्रेण चक्षुषा वेद जन-स्थः अपि न मुह्यति ॥ ५६ ॥
आदौ अन्ते जनानाम् सत् बहिः अन्तः पर-अवरम्।
ज्ञानम् ज्नेयम् वचः वाच्यम् तमः ज्योतिः तु अयम् स्वयम् ॥ ५७ ॥
आबाधितः अपि हि आभासः यथा वस्तुतया स्मृतः।
दुर्घटत्वात् ऐन्द्रियकम् तत् वत् अर्थ-विकल्पितम् ॥ ५८ ॥
क्षितिः-आदीनाम् इह अर्थानाम् छाया न कतमा अपि हि।
न सङ्घातः विकारः अपि न पृथक् न अन्वितः मृषा ॥ ५९ ॥
धातवः अवयवित्वात् च तन्-मात्र-अवयवैः विना।
न स्युः हि असत्-अवयविनः असत्-अनवयवः अन्ततः ॥ ६० ॥
स्यात् सादृश्य-भ्रमः तावत् विकल्पे सति वस्तुनः।
जाग्रत् स्वापौ यथा स्वप्ने तथा विधि-निषेधता ॥ ६१ ॥
भावात्-वैत्तं क्रिया-वैत्तं द्रव्य-वैत्तं तथा आत्मनः।
वर्तयन् स्वानुभूत्येह त्रि-स्वप्नान्धुनते मुनिः ॥ ६२ ॥
कार्य-कारण-वस्तु-ऐक्यं अर्शनं पटतन्तुवत्।
अवस्तुत्वात् विकल्पस्य भावात् वैत्तं तद् उच्यते ॥ ६३ ॥
यद् ब्रह्मणि परे साक्षात् सर्व-कर्म-समर्पणम्।
मनः-वाक्-तनुभिः पार्थ क्रिया-वैत्तं तद् उच्यते ॥ ६४ ॥
आत्म-जा-यासुता-दीनाम् अन्येषां सर्व-देहिनाम्।
यत् स्वार्थ-कामयोः ऐक्यं द्रव्य-वैत्तं तद् उच्यते ॥ ६५ ॥
यद् यस्य वा निषिद्धं स्यात् येन यत्र यतो नृप।
स तेने-हेत कर्माणि नरो नान्यैर् अनापदि ॥ ६६ ॥
एतैः अन्यैः च वेद-ओक्तैः वर्तमानः स्व-कर्म-भिः।
गृहेऽपि अस्य गतिं यायाद् राजंस्तद् भक्तिभाङ् नरः ॥ ६७ ॥
यथा हि यूयं नृप-देव दुष्ट्यजा-
दापद् गणात् उत्तर-तात्मनः प्रभोः।
यत्-पाद-पङ्के रुह-सेवया भवा-
न-हार्षीन् निर्जित-दिग्गजः क्रतून् ॥ ६८ ॥
अहं पुरा-अभवं कश्चिद् गन्धर्व उपबर्हणः।
नाम्ना-तीते महा-कल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥
रूप-पेशल-माधुर्य-सौ-गन्ध्य-प्रिय-दर्शनः।
स्त्रीणां प्रियतमः नित्यम् मत्तः तु पुरुलम्पटः ॥ ७० ॥
एकदा देव-सत्रे तु गन्धर्वा-अप्सरसां गणाः।
उपहूता विश्व-सृग्भिः हरि-गाथा-उपगायने ॥ ७१ ॥
अहं च गायं तद् विद्वान् स्त्रीभिः परिवृतो गतः।
ज्ञात्वा विश्व-सृजस्तन्मे हेलनं शेरु-रोजसा।
याहि त्वं शूद्रताम् आशु नष्ट-श्रीः कृत-हेलनः ॥ ७२ ॥
तावत् दास्याम् अहं जज्ञे तत्रापि ब्रह्म-वादिनाम्।
शुश्रूषया अनु-षङ्गेण प्राप्तोऽहं ब्रह्म-पुत्रताम् ॥ ७३ ॥
धर्मस्ते गृहमेधीयः वर्णितः पाप-नाशनः।
गृहस्थो येन पदवी-मञ्जसा न्यासिनाम् आयात् ॥ ७४ ॥
यूयं नृ-लोके पत् भूरि-भागा
लोकं पुनः ना मुनयः अभ्यन्ति।
येषां गृहान् अवस्थतीति साक्षात्
गूढं परम् ब्रह्म मनुष्य-लिङ्गम् ॥ ७५ ॥
स वा अयं ब्रह्म महद् विमृग्यं
कैवल्य-निर्वाण-सुख-अनुभूतिः।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृत् गुरुश्च ॥ ७६ ॥
न यस्य साक्षात् भव-पद्म-जादिभी
रूपं धिया वस्तु-तयोपवर्णितम्।
मौनेन भक्त्योप-शमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः ॥ ७७ ॥
श्री-शुक उवाच
इति देव-र्षिणा प्रोक्तं निशम्य भरत-र्षभः।
पूजयामास सुप्रीतः कृष्णं च प्रेम-विह्वलः ॥ ७८ ॥
कृष्ण-पार्था-उपामन्त्र्य पूजितः प्रययौ मुनिः।
श्रुत्वा कृष्णं परं ब्रह्म पार्थः परम- विस्मितः ॥ ७९ ॥
इति दाक्षायिणीनां ते पृथक् वंशा प्रकीर्तिताः।
देव-ासुर-मनुष्याद्या लोका यत्र चराचराः ॥ ८० ॥
॥ इति श्रीमद्भागवते महापुराणे वैयासिक्या अष्टादश-साहस्र्या पार-महंस्या संहितायां सप्तम-स्कन्धे प्रह्लाद-अनुचरिते युधिष्ठिर-नारद संवादे सदाचार-निर्णयो नाम पञ्चदशः अध्यायः ॥ १५ ॥
॥ इति सप्तमः स्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत् ॥

No comments:
Post a Comment