வ்ருத்ராசுரனின் பூர்வ சரித்திரம்
ஸ்கந்தம் 6: அத்யாயம் 14
श्री-परीक्षिद् उवाच
रजः-तमः-स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः।
नारायणे भगवति कथम् आसीत् दृढा मतिः ॥ १ ॥
देवानाम् शुद्ध-सत्त्वानाम् ऋषीणाम् च अमल-आत्मनाम्।
भक्तिः मुकुन्द-चरणे न प्रायेण उपजायते ॥ २ ॥
रजोभिः सम-सङ्ख्याताः पार्थिवैः इह जन्तवः।
तेषाम् ये केचन इह अन्ते श्रेयः वै मनुज-आदयः ॥ ३ ॥
प्रायः मुमुक्षवः तेषाम् केचन एव द्विज-उत्तम।
मुमुक्षूणाम् सहस्रेषु कश्चित् मुच्येत सिध्यति ॥ ४ ॥
मुक्तानाम् अपि सिद्धानाम् नारायण-परायणः।
सु-दुर्लभः प्रशान्त-आत्मा कोटिषु अपि महा-मुने ॥ ५ ॥
वृत्रः तु सः कथम् पापः सर्व-लोक-उप-तापनः।
इत्थम् दृढ-मतिः कृष्णे आसीत् सङ्ग्रामे उल्बणे ॥ ६ ॥
अत्र नः संशयः भूयान् श्रोतुम् कौतूहलम् प्रभो।
यः पौरुषेण समरे सहस्र-अक्षम् अतोषयत् ॥ ७ ॥
श्री-सूत उवाच
परीक्षितः अथ सं-प्रश्नम् भगवान् बादरायणिः।
निशम्य श्रद्धधानस्य प्रति-नन्द्य वचः अब्रवीत् ॥ ८ ॥
श्री-शुक उवाच
शृणुष्व अवहितः राजन् इतिहासम् इमम् यथा।
श्रुतम् द्वैपायन-मुखात् नारदात् देवलात् अपि ॥ ९ ॥
आसीत् राजा सार्व-भौमः शूर-सेनेषु वै नृप।
चित्रकेतुः इति ख्यातः यस्य आसीत् काम-धुक् मही ॥ १० ॥
तस्य भार्या-सहस्राणाम् सहस्राणि दश अभवन्।
सान्तानिकः च अपि नृपः न लेभे तासु सन्ततिम् ॥ ११ ॥
रूप-औदार्य-वयः-जन्म-विद्या-ऐश्वर्य-श्रिया-आदिभिः।
सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्या-पतेः अभूत् ॥ १२ ॥
न तस्य सम्पदः सर्वाः महिष्यः वाम-लोचनाः।
सार्व-भौमस्य भूः च इयम् अभवन् प्रीति-हेतवः ॥ १३ ॥
तस्य एकदा तु भवनम् अङ्गिराः भगवान् ऋषिः।
लोकान् अनु-चरन् एतान् उप-आगच्छत् यदृच्छया ॥ १४ ॥
तम् पूजयित्वा विधि-वत् प्रत्युत्थान-अर्हण-आदिभिः।
कृत-अतिथ्यम् उपासीत सुख-आसीनम् समाहितः ॥ १५ ॥
महा-ऋषिः तम् उपासीनम् प्रश्रय-अवनतम् क्षितौ।
प्रति-पूज्य महा-राज समा-भाष्य इदम् अब्रवीत् ॥ १६ ॥
अङ्गिरा उवाच
अपि ते अनामयम् स्वस्ति प्रकृतीनाम् तथा आत्मनः।
यथा प्रकृतिभिः गुप्तः पुमान् राजा अपि सप्तभिः ॥ १७ ॥
आत्मानम् प्रकृतिषु अद्धा निधाय श्रेयः आप्नुयात्।
राज्ञा तथा प्रकृतयः नर-देव-अहित-आधयः ॥ १८ ॥
अपि दाराः प्रजा-अमात्याः भृत्याः श्रेण्यः अथ मन्त्रिणः।
पौराः जान-पदाः भूप आत्मजाः वश-वर्तिनः ॥ १९ ॥
यस्य आत्मा अनु-वशः चेत् स्यात् सर्वे तत्-वश-गाः इमे।
लोकाः स-पाला यच्छन्ति सर्वे बलिम् अतन्द्रिताः ॥ २० ॥
आत्मनः प्रीयते न आत्मा परतः स्वतः एव वा।
लक्षये अलब्ध-कामम् त्वाम् चिन्तया शबलम् मुखम् ॥ २१ ॥
एवम् विकल्पितः राजन् विदुषा मुनिना अपि सः।
प्रश्रय-अवनतः अभ्याह प्रजा-कामः ततः मुनिम् ॥ २२ ॥
चित्रकेतुः उवाच
भगवन् किम् न विदितम् तपः-ज्ञान-समाधिभिः।
योगिनाम् ध्वस्त-पापानाम् बहिः-अन्तः शरीरिषु ॥ २३ ॥
तथा अपि पृच्छतः ब्रूयाम् ब्रह्मन् आत्मनि चिन्तितम्।
भवतः विदुषः च अपि चोदितः त्वत्-अनुज्ञया ॥ २४ ॥
लोक-पालैः अपि प्रार्थ्याः साम्राज्य-ऐश्वर्य-सम्पदः।
न नन्दयन्ति अप्रजम् माम् क्षुत्-तृट्-कामम् इव अपरे ॥ २५ ॥
ततः पाहि महा-भाग पूर्वैः सह गतम् तमः।
यथा तरेम दुष्पारम् प्रजया तत् विधेहि नः ॥ २६ ॥
श्री-शुक उवाच
इति अर्थितः सः भगवान् कृपालुः ब्रह्मणः सुतः।
श्रपयित्वा चरुम् त्वाष्ट्रम् त्वष्टारम् अयजत् विभुः ॥ २७ ॥
ज्येष्ठा श्रेष्ठा च या राज्ञः महिषीणाम् च भारत।
नाम्ना कृत-द्युतिः तस्यै यज्ञ-उच्छिष्टम् अदात् द्विजः ॥ २८ ॥
अथ आह नृपतिम् राजन् भविता एकः तव आत्मजः।
हर्ष-शोक-प्रदः तुभ्यम् इति ब्रह्म-सुतः ययौ ॥ २९ ॥
सा अपि तत्-प्राशनात् एव चित्रकेतुः अधारयत्।
गर्भम् कृत-द्युतिः देवी कृत्तिका-अग्नेः इव आत्मजम् ॥ ३० ॥
तस्याः अनु-दिनम् गर्भः शुक्ल-पक्षः इव उडुपः।
ववृधे शूर-सेन-ईश-तेजसा शनकैः नृप ॥ ३१ ॥
अथ काले उपावृत्ते कुमारः समजायत।
जनयन् शूर-सेनानाम् शृण्वताम् परमाम् मुदम् ॥ ३२ ॥
हृष्टः राजा कुमारस्य स्नातः शुचिः अलङ्कृतः।
वाचयित्वा आशिषः विप्रैः कारयाम्-आस जातकम् ॥ ३३ ॥
तेभ्यः हिरण्यम् रजतम् वासांसि आभरणानि च।
ग्रामान् हयान् गजान् प्रादात् धेनूनाम् अर्बुदानि षट् ॥ ३४ ॥
ववर्ष कामान् अन्येषाम् पर्जन्यः इव देहिनाम्।
धन्यम् यशस्यम् आयुष्यम् कुमारस्य महा-मनाः ॥ ३५ ॥
कृच्छ्र-लब्धे अथ राज-ऋषेः तनये अनु-दिनम् पितुः।
यथा निः-स्वस्य कृच्छ्र-आप्ते धने स्नेहः अनु-वर्धत ॥ ३६ ॥
मातुः तु अतितराम् पुत्रे स्नेहः मोह-समुद्भवः।
कृत-द्युतिः सपत्नीनाम् प्रजा-काम-ज्वरः अभवत् ॥ ३७ ॥
चित्रकेतुः अति-प्रीतिः यथा दारे प्रजा-वति।
न तथा अन्येषु सञ्जज्ञे बालम् लालयतः अनु-अहम् ॥ ३८ ॥
ताः पर्यतप्यन् आत्मानम् गर्हयन्त्यः अभ्यसूयया।
आन-अपत्येन दुःखेन राज्ञः अनादरणेन च ॥ ३९ ॥
धिक्-प्रजाम् स्त्रियम् पापाम् पत्युः च अ-गृह-सम्मताम्।
सु-प्रजाभिः सपत्निभिः दासीम् इव तिरस्कृताम् ॥ ४० ॥
दासी-नाम् कः नु सन्तापः स्वामिनः परिचर्यया।
अभीक्ष्णम् लब्ध-मानानाम् दास्याः दासी-इव दुर्भगाः ॥ ४१ ॥
एवम् सन्दह्यमानानाम् सपत्न्याः पुत्र-सम्पदा।
राज्ञः असम्मत-वृत्तीनाम् विद्वेषः बलवान् अभूत् ॥ ४२ ॥
विद्वेष-नष्ट-मतयः स्त्रियः दारुण-चेतसः।
गरम् ददुः कुमाराय दुर्मर्षाः नृपतिम् प्रति ॥ ४३ ॥
कृत-द्युतिः अजानन्ती सपत्नीनाम् अघम् महत्।
सुप्तः एव इति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे ॥ ४४ ॥
शयानम् सु-चिरम् बालम् उपधार्य मनीषिणी।
पुत्रम् आनय मे भद्रे इति धात्रीम् अचोदयत् ॥ ४५ ॥
सा शयानम् उपव्रज्य दृष्ट्वा च उत्तार-लोचनम्।
प्राण-इन्द्रिय-आत्मभिः त्यक्तम् हता अस्मि इति अपतत् भुवि ॥ ४६ ॥
तस्याः तदा आकर्ण्य भृश-अतुरम् स्वरम्
घ्नन्त्याः कराभ्याम् उरः उच्चकैः अपि।
प्रविश्य राज्ञी त्वरया आत्मज-अन्तिकम्
ददर्श बालम् सहसा मृतम् सुतम् ॥ ४७ ॥
पपात भूमौ परिवृद्धया शुचा
मुमोह विभ्रष्ट-शिरः-रुह-अम्बरा ॥ ४८ ॥
ततः नृप-अन्तः-पुर-वर्तिनः जनाः
नराः च नार्यः च निशम्य रोदनम्।
आगत्य तुल्य-व्यसनाः सु-दुःखिताः
ताः च व्यलीकम् रुरुदुः कृत-आगसः ॥ ४९ ॥
श्रुत्वा मृतम् पुत्रम् अलक्षित-अन्तकम्
विनष्ट-दृष्टिः प्रपतन् स्खलन् पथि।
स्नेह-अनुबन्ध-एधितया शुचा भृशम्
विमूर्च्छितः अनुप्रकृतिः द्विजैः वृतः ॥ ५० ॥
पपात बालस्य सः पाद-मूले
मृतस्य विस्रस्त-शिरः-रुह-अम्बरा।
दीर्घम् श्वसन् बाष्प-कला-उपरोधतः
निरुद्ध-कण्ठः न शशाक भाषितुम् ॥ ५१ ॥
पतिम् निरीक्ष्य उरु-शुचा अर्पितम् तदा
मृतम् च बालम् सुतम् एक-सन्ततिम्।
जनस्य राज्ञी प्रकृतेः च हृद्-रुजम्
सती दधाना विललाप चित्रधा ॥ ५२ ॥
स्तन-द्वयम् कुङ्कुम-गन्ध-मण्डितम्
निषिञ्चती सा अञ्जन-बाष्प-बिन्दुभिः।
विकीर्य केशान् विगलत्-स्रजः सुतम्
शुशोच चित्रम् कुररी-इव सु-स्वरम् ॥ ५३ ॥
अहो विधातः त्वम् अतीव बालिशः
यः त्वम् आत्म-सृष्ट्या अप्रतिरूपम् ईहसे।
परे अनुजीवति अपरस्य या मृतिः
विपर्ययः चेत् त्वम् असि ध्रुवः परः ॥ ५४ ॥
न हि क्रमः चेत् इह मृत्यु-जन्मनोः
शरीरिणाम् अस्तु तदा आत्म-कर्मभिः।
यः स्नेह-पाशः निज-सर्ग-वृद्धये
स्वयम् कृतः ते तम् इमम् विवृश्चसि ॥ ५५ ॥
त्वम् तात न अर्हसि च माम् कृपणाम् अनाथाम्
त्यक्तुम् विचक्ष्व पितरम् तव शोक-तप्तम्।
अञ्जः तरेम भवता प्रज-दुस्तरम् यत्
ध्वान्तम् न याहि अकरुणेन यमेन दूरम् ॥ ५६ ॥
उत्तिष्ठ तात ते इमे शिशवः वयस्याः
त्वाम् आह्वयन्ति नृप-नन्दन संविहर्तुम्।
सुप्तः चिरम् हि अशनया च भवान् परीतः
भुङ्क्ष्व स्तनम् पिब शुचः हर नः स्वकानाम् ॥ ५७ ॥
न अहम् तनूज ददृशे हत-मङ्गलाम् ते
मुग्ध-स्मितम् मुदित-वीक्षणम् आनन-अब्जम्।
किम् वा गतः असि पुनः अन्वयम् अन्य-लोकम्
नीतः अघृणेन न शृणोमि कला गिरः ते ॥ ५८ ॥
श्री-शुक उवाच
विलपन्त्याः मृतम् पुत्रम् इति चित्र-विलापनैः।
चित्रकेतुः भृशम् तप्तः मुक्त-कण्ठः रुरोद ह ॥ ५९ ॥
तयोः विलपतोः सर्वे दम्पत्योः तत्-अनुव्रताः।
रुरुदुः स्म नराः नार्यः सर्वम् आसीत् अचेतनम् ॥ ६० ॥
एवम् कश्मलम् आपन्नम् नष्ट-संज्ञम् अनायकम्।
ज्ञात्वा अङ्गिराः नाम मुनिः आजगाम स-नारदः ॥ ६१ ॥
इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
षष्ठ-स्कन्धे चित्रकेतु-विलापः नाम चतुर्थः अध्यायः ॥ १४ ॥

No comments:
Post a Comment