Followers

Search Here...

Sunday, 14 December 2025

ஸ்கந்தம் 5: அத்யாயம் 3 (நாபி மகாராஜன் சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

நாபி மகாராஜன் சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 3

 

श्रीशुक उवाच –
नाभिः अपत्य-कामः अ-प्रजया मेरु-देव्या
भगवन्तं यज्ञ-पुरुषम् अवहित-आत्मा अयजत् ॥ १ ॥

तस्य ह वा श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल
मन्त्र-ऋत्विक्-दक्षिणा-विधान-योग-उपपत्त्या दुरधिगमः अपि भगवान्
भागवत-वात्सल्यतया सुप्रतीकः आत्मानम् अपराजितं
निज-जन-अभिप्रेत-अर्थ-विधित्सया गृहीत-हृदयः
हृदयङ्गमं मनः-नयन-आनन्दन अवयव-अभिरामम् आविश्चकार ॥ २ ॥

अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं
कपिश-कौशेय-अम्बर-धरम् उरसि विलसत् श्री-वत्स-ललामम्
दर-वर-वन-रुह-वन-माला- अच्छूर्य-अमृत-मणि-गदा-आदिभिः
उपलक्षितं स्फुट-किरण-प्रवर-मुकुट- कुण्डल-कटक-कटि-सूत्र-हार-
केयूर-नूपुर-आदि-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृहपतयः
अधनाः इव उत्तम-धनम् उपलभ्य स-बहु-मानम् अर्हणेन
अवनत-शीर्षाणः उपतस्थुः ॥ ३ ॥

ऋत्विजः ऊचुः –
अर्हसि मुहुः अर्हत्-तम अर्हणम् अस्माकम् अनु-पथानाम्
नमः नमः इति एतावत् सत्-उपशिक्षितम् कः अर्हति पुमान्
प्रकृति-गुण-व्यतिकर-मतिः अनीशः ईश्वरस्य परस्य
प्रकृति-पुरुषयोः अर्वाक्-तनाभिः नाम-रूप-आकृतिभिः
रूप-निरूपणम् ॥ ४ ॥

सकल-जन-निकाय-वृजिन-निरसन शिव-तम-प्रवर-गुण-गण
एक-देश-कथनात् ऋते ॥ ५ ॥

परिजन-अनुराग-विरचित शबल-संशब्द-सलिल
सित-किसलय-तुलसिका दूर्वा-अङ्कुरैः अपि सम्भृतया
स-पर्यया किल परम् परितुष्यसि ॥ ६ ॥

अथ अनया अपि न भवतः इज्ययोः उभा-र-भरया
समुचितम् अर्थम् इह उपलभामहे ॥ ७ ॥

आत्मनः एव अनु-सवनम् अञ्जसा अव्यतिरेकेण बोभूयमान
अशेष-पुरुष-अर्थ-स्वरूपस्य किन्तु नाथ आशिष् आशासानानाम्
एतत् अभि-संराधन-मात्रम् भवितुम् अर्हति ॥ ८ ॥

तद् यथा बालिशानाम् स्वयम् आत्मनः श्रेयः परम-विदुषाम्
परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानम् च
अपवर्ग-आख्यम् उपकल्पयिष्यन् स्वयम् न अपचितः एव
इतर-वत् इह उपलक्षितः ॥ ९ ॥

अथ अयम् एव वरः हि अर्हत्-तम यर्हि बर्हिषि
राज-ऋषेः वर-द-ऋषभः भवान् निज-पुरुष-ईक्षण-विषयः आसीत् ॥ १० ॥

असङ्ग-निशित-ज्ञान-अनल विधूत-अशेष-मलानाम् भवत्-स्वभावानाम्
आत्म-आरामाणाम् मुनीनाम् अनवरत-परिगुणित-गुण-गण
परम-मङ्गल-आयन- गुण-गण-कथनः असि ॥ ११ ॥

अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण दुरवस्थान-आदिषु विवशानाम् नः
स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि
तव गुण-कृत-नाम-धेयानि वचन-गोचराणि भवन्तु ॥ १२ ॥

किञ्च अयम् राज-ऋषिः अपत्य-कामः प्रजाम् भवत्-आदृशीम् आशासानः
ईश्वरम् आशिषाम् स्वर्ग-अपवर्गयोः अपि भवन्तम् उपधावति
प्रजायाम् अर्थ-प्रत्ययः धन-दम् इव अ-धनः फली-करणम् ॥ १३ ॥

को वा इह ते अ-पराजितः अ-पराजितया मायया
अनवसित-पदव्या अनावृत-मतिः
विषय-विष-रय-अनावृत-प्रकृतिः अनुपासित-महत्-चरणः ॥ १४ ॥

यदु ह वा तव पुनः अदभ्र-कर्तरि इह समाहूतः तत्र अर्थ-धियाम्
मन्दानाम् नः तत् यत् देव-हेलनम् देव-देव अर्हसि साम्येन
सर्वान् प्रति-वोढुम् अविदुषाम् ॥ १५ ॥

श्रीशुक उवाच –
इति निगदेन अभिष्टूयमानः भगवान् अनिमिष-ऋषभः
वर्ष-धर-अभिवादित-अभिवन्दित-चरणः स-दयम् इदम् आह ॥ १६ ॥

श्रीभगवान् उवाच –
अहो बत अहम् ऋषयः भवत्-भिः अवितथ-गीर्भिः वरम् असुलभम् अभियाचितः 
यत् अमुष्य आत्म-जः मया सदृशः भूयात् इति मम अहम् एव अभिरूपः
कैवल्यात् अथ अपि ब्रह्म-वादः न मृषा भवितुम् अर्हति
मम एव हि मुखम् यत् द्विज-देव-कुलम् ॥ १७ ॥

ततः आग्नीध्रिये अंश-कलया अवतारिष्यामि
आत्म-तुल्यम् अनुपलभमानः ॥ १८ ॥

श्रीशुक उवाच –
इति निशामयन्त्या मेरु-देव्याः पतिम् अभिधाय अन्तर्दधे भगवान् ॥ १९ ॥

बर्हिषि तस्मिन् एव विष्णु-दत्तः भगवान् परम-ऋषिभिः प्रसादितः
नाभेः प्रिय-चिकीर्षया तत् अवरोध-आयने मेरु-देव्याम्
धर्मान् दर्शयितु-कामः वात-रशनानाम् श्रमणानाम् ऋषीणाम्
ऊर्ध्व-मन्थिनाम् शुक्लया तनुवा अवततार ॥ २० ॥

॥ इति श्रीमद्-भागवते महापुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे नाभि-चरिते ऋषभ-अवतारः नाम तृतीयः अध्यायः ॥ ३ ॥

No comments: