Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 7 (இந்திரன் ப்ருஹஸ்பதியை அவமதித்தான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

இந்திரன் ப்ருஹஸ்பதியை அவமதித்தான்

ஸ்கந்தம் 6: அத்யாயம் 7

 

श्री-राजा उवाच
कस्य हेतुः परित्यक्ता आचार्येण आत्मनः सुराः।
एतद् आचक्ष्व भगवन् शिष्याणाम्क्रमं गुरौ ॥ १ ॥

श्री-शुक उवाच
इन्द्रः त्रिभुवन-ऐश्वर्यम् अदोल्लङ्घित-सत्पथः।
मरुद्भिः वसुभिः रुद्रैः आदित्यैः ऋभुभिः नृप ॥ २ ॥

विश्वेदेवैः च साध्यैः च नासत्याभ्यां परिश्रितः।
सिद्ध-चारण-गन्धर्वैः मुनिभिः ब्रह्म-वादिभिः ॥ ३ ॥

विद्याधर-अप्सरः भिश्च किन्नरैः पतग-ओरगैः।
निषेव्यमानः मघवान् स्तूयमानश्च भारत ॥ ४ ॥

उप-गीयमानः ललितम् आस-स्थानाध्यासन-आश्रितः।
पाण्डुरेणात-पत्रेण चन्द्र-मण्डल-चारुणा ॥ ५ ॥

युक्तः च अन्यैः पारमेष्ठ्यैः च अमर-व्‍यजनादिभिः।
विराजमानः पौलोम्या सह आर्धासनया भृशम् ॥ ६ ॥

स यदा परमाचार्यं देवानाम् आत्मनश्च ह।
नाभ्यनन्दत् सम्प्राप्तं प्रत्युत्थान-आसनादिभिः ॥ ७ ॥

वाचस्पतिं मुनिवरं सुरासुर-नमस्कृतम्।
न उच्-चालासनात् इन्द्रः पश्यन् अपि सभागतम् ॥ ८ ॥

ततः निर्गत्य सहसा कविर्-आङ्गिरसः प्रभुः।
आययौ स्वगृहं तूष्णीं विद्वान् श्रीमद्-विक्रियाम् ॥ ९ ॥

तर्ह्येव प्रतिबुध्येन्द्रः गुरु-हेलनम् आत्मनः।
गर्हयामास सदसि स्वयम् आत्मानम् आत्मना ॥ १० ॥

अहो, बत्त मयासाधु कृतम् वै दभ्र-बुद्धिना।
यत् मयैश्वर्यम् अत्-तेन गुरुः सदसि कात्कृतः ॥ ११ ॥

को गृध्येत् पण्डितः लक्ष्मीं त्रिविष्टप-पतेर् अपि।
ययाहम् आसुरं भावं नीतोऽद्य विवुध-ईश्वरः ॥ १२ ॥

यः पारमेष्ठ्यं धिषणम् अधितिष्ठन् न कञ्चन।
प्रत्युत्तिष्ठेत् इति ब्रूयुर्धर्मं ते न परम् विदुः ॥ १३ ॥

तेषां कुपथ-देष्टॄणां पततां तमसि ह्यधः।
ये श्रद्द-ध्युर्वचः ते वै मज्जन्त्य-श्मप्लवा इव ॥ १४ ॥

अथाहम् अमर-आचार्यं अगाध-धिषणं द्विजम्।
प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ १५ ॥

एवं चिन्तयतस्तस्य मघोनः भगवान् गृहात्।
बृहस्पतिर्गतः अदृष्टां गतिम् अध्यात्म-मायया ॥ १६ ॥

गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट्।
ध्यायन् धिया सुरैः युक्तः शर्म नालभत् आत्मनः ॥ १७ ॥

तच्छ्रुत्वैव आसुराः सर्वा आश्रित्यौ शन-संमतम्।
देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ १८ ॥

तैः विसृष्टेषुभिः तीक्ष्णैः निर्भिन्नाङ्ग-ओरुबाहवः।
ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ १९ ॥

तांस्तथा भ्यर्दितान् वीक्ष्य भगवान् आत्म-भूरजः।
कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥

श्री-ब्रह्मो वाचः
अहो बत्त सुर-श्रेष्ठा ह्यभद्रं वः कृतं महत्।
ब्रह्मिष्टं ब्राह्मणं दान्तं ऐश्वर्यं नाभ्यनन्दत् ॥ २१ ॥

तस्यायम् अनयस्य आसीत् परेभ्यः वः पराभवः।
प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ २२ ॥

मघवन् द्विषतः पश्य प्रक्षीणान् गुरु-तिक्रमात्।
सम्प्रत्युपचितान् भूयः काव्यम् आराध्य भक्तितः।
आददीरन् निलयनं ममापि भृगु-देवताः ॥ २३ ॥

त्रि-पिष्टपं किं गणयन्ति अभेद्य-
मन्त्राः भृगूणाम् अनु-शिक्षित-आर्थाः।
न विप्र-गोविन्द-ग-वीश्वराणां
भवन्ति अभद्राणि नरेश्वराणाम् ॥ २४ ॥

तत् विश्व-रूपं भजता अशु विप्रं
तपस्विनं त्वाष्ट्रम् अथ आत्म-वंतम्।
सभाजितोऽर्थान् स विधास्यते वः
यदि क्षमिष्यध्वम् उतास्य कर्म ॥ २५ ॥

श्री-शुक उवाच
त एवम् उदिता राजन् ब्रह्मणा विगत-ज्वराः।
ऋषिं त्वाष्ट्रम् उपव्रज्य परिष्वज्य एतं अब्रुवन् ॥ २६ ॥

श्री-देवा ऊचुः
वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते।
कामः सम्पाद्यतां तात पितॄणां समय-उचितः ॥ २७ ॥

पुत्राणां हि परो धर्मः पितृ-शुश्रूषणं सताम्।
अपि पुत्रवतां ब्रह्मन् किम् उत् ब्रह्म-चारिणाम् ॥ २८ ॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
भ्राता मरुत्पतेर् मूर्तिः माता साक्षात् क्षितेस्तनुः ॥ २९ ॥

दयया भगिनी मूर्तिः धर्मस्य आत्मा-तिथिः स्वयम्।
अग्नेर् अभ्यागतः मूर्तिः सर्व-भूतानि चात्मनः ॥ ३० ॥

तस्मात् पितॄणाम् आर्तानाम् आर्तिं पर-पराभवम्।
तपसापनयं स्तात् सन्देशं कर्तुम् अर्हसि ॥ ३१ ॥

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम्।
यथा अञ्जसा विजेष्यामः स-पत्नांस्तव तेजसा ॥ ३२ ॥

न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्य- अभिवादनम्।
छन्दोभ्यः अन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३ ॥

श्री-ऋषिर् उवाच
अभ्यर्थितः सुर-गणैः पौरोहित्ये महा-तपाः।
स विश्व-रूपस्तान् आह प्रसन्नः श्लक्ष्णया गिरा ॥ ३४ ॥

श्री-विश्वरूप उवाच
विगर्हितं धर्म-शीलैः ब्रह्म-वर्च् उपव्ययम्।
कथं नु मद्विधो नाथा लोकेशैः अभियाचितम्।
प्रत्याख्यास्यति तच्छिष्यः स एव् स्वार्थ उच्यते ॥ ३५ ॥

अकिञ्चनानां हि धनं शिलो-ञ्छनं
ते नेह निर्वर्तित-साधु-सत्-कृत्यः।
कथं विगर्ह्यं नु करोम्य अधि ईश्वराः
पौरोध-सं हृष्यति येन दुर्मतिः ॥ ३६ ॥

तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत्।
भवतां प्रार्थितं सर्वं प्राणैः अर्थैः च साधये ॥ ३७ ॥

श्री-शुक उवाच
तेभ्य एवम् प्रतिश्रुत्य विश्व-रूपो महा-तपाः।
पौरोहित्यं वृतः चक्रे परमेण समाधिना ॥ ३८ ॥

सुर-द्विषां श्रियं गुप्ताम् औशनस्य अपि विद्यया।
आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः ॥ ३९ ॥

यया गुप्तः सहस्राक्षो जिग्येऽसुर-चमूर्विभुः।
तां प्राह स महेन्द्राय विश्व-रूप उदार-धीः ॥ ४० ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे सप्तमोऽध्यायः ॥ ७ ॥

No comments: