ஹிரண்யகசிபு வரம்
ஸ்கந்தம் 7: அத்யாயம் 3
श्री-नारद उवाच
हिरण्यकशिपुः राजन् अजेयम् अजर-अमरम्।
आत्मानम् अप्रतिद्वन्द्वम् एक-राजम् व्यधित्सत ॥ १ ॥
सः तेपे मन्दर-द्रोण्याम् तपः परम् अदारुणम्।
ऊर्ध्व-बाहुः नभः-दृष्टिः पाद-अङ्गुष्ठ-आश्रित- अवनिः ॥ २ ॥
जटा-दीधितिभिः रेजे संवर्त-अर्कः इव अम्शुभिः।
तस्मिन् तपः तप्यमाने देवाः स्थानानि भेजिरे ॥ ३ ॥
तस्य मूर्ध्नः समुद्भूतः स-धूमः अग्निः तपः-मयः।
तिर्यक्-ऊर्ध्वम् अधः-लोकान् अतपत् विष्वग्-ईरितः ॥ ४ ॥
चुक्षुभुः नदीः उदन्वन्तः स- द्वीप-अद्रयः च चाल भूः।
निपेतुः स-ग्रहाः तारा जज्वलुः च दिशः दश ॥ ५ ॥
तेन तप्ताः दिवम् त्यक्त्वा ब्रह्म-लोकम् ययुः सुराः।
धात्रे विज्ञापयाम् आसुः देव-देव जगत्-पते ॥ ६ ॥
दैत्य-इन्द्र-तपसा तप्ताः दिवि स्थातुम् न शक्नुमः।
तस्य च उपशमम् भूमन् विधेहि यदि मन्यसे ॥ ७ ॥
लोकाः न यावत् नङ्क्ष्यन्ति बलि-हाराः तव-अभिभूः।
तस्य अयम् किल सङ्कल्पः चरतः दुश्चरम् तपः ॥ ८ ॥
श्रूयताम् किम् न विदितः तव अथ अपि निवेदितः।
सृष्ट्वा चर-अचरम् इदम् तपः-योग-समाधिना।
अध्यास्ते सर्व-धिष्ण्येभ्यः परमेष्ठी निज-आसनम् ॥ ९ ॥
तत् अहम् वर्धमानेन तपः-योग-समाधिना।
काल-आत्मनः च नित्यत्वात् साधयिष्ये तथा आत्मनः ॥ १० ॥
अन्यथा इदम् विधास्ये अहम् अयथा-पूर्वम् ओजसा।
किम् अन्यैः काल-निर्धूतैः कल्प-अन्ते वैष्णवान् इभिः ॥ ११ ॥
इति शुश्रुम निर्बन्धम् तपः परम् आस्थितः।
विधत्स्व अनन्तरम् युक्तम् स्वयम् त्रि-भुवन-ईश्वर ॥ १२ ॥
तव आसनम् द्वि-ज-गवाम् पारमेष्ठ्यम् जगत्-पते।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥
इति विज्ञापितः देवैः भगवान् आत्म-भूः नृप।
परितः भृगु-दक्ष-आद्यैः ययौ दैत्य-ईश्वर-आश्रमम् ॥ १४ ॥
न ददर्श प्रतिच्छन्नम् वल्मीक-तृण-कीचकैः।
पिपीलिका-भिः आचीर्यम् मेदः-त्वक्-मांस-शोणितम् ॥ १५ ॥
तपन्तम् तपसा लोकान् यथा अभ्र-आपिहितम् रविम्।
विलक्ष्य विस्मितः प्राह प्रहसन् हंस-वाहनः ॥ १६ ॥
श्री-ब्रह्मा उवाच
उत्तिष्ठ उत्तिष्ठ भद्रम् ते तपः-सिद्धः असि काश्यप।
वर-दः अहम् अनुप्राप्तः व्रियताम् ईप्सितः वरः ॥ १७ ॥
अद्राक्षम् अहम् एतत् ते हृत्-सारम् महत् अद्भुतम्।
दंश-भक्षित-देहस्य प्राणाः हि अस्थिषु शेरते ॥ १८ ॥
न एतत् पूर्व-ऋषयः चक्रुः न करिष्यन्ति च अपरे।
निर-अम्भुः धारयेत् प्राणान् कः वै दिव्य-समाः शतम् ॥ १९ ॥
व्यवसायेन ते अनेन दुष्करेण मनस्विनाम्।
तपः-निष्ठेन भवता जितः अहम् दिति-नन्दन ॥ २० ॥
ततः सः आशिषः सर्वाः ददामि असुर-पुङ्गव।
मर्तस्य ते अमर्तस्य दर्शऩम् न अफलम् मम ॥ २१ ॥**
श्री-नारद उवाच
इति उक्त्वा आदिभवः देवः
भक्षित-अङ्गम् पिपीलिकैः।
कमण्डलु-जलेन औक्षत् दिव्येन अमोघ-राधसा ॥ २२ ॥
सः तत् कीचक-वल्मीकात्
सह ओजः-बल- अन्वितः।
सर्व-अवयव-सम्पन्नः वज्र-संहननः युवा।
उत्थितः तप्त-हेम-आभः विभावसुः इव ऐधसः ॥ २३ ॥
सः निरीक्ष्य अम्बरे देवम्
हंस-वाहम् अवस्थितम्।
ननाम शिरसा भूमौ तत्-दर्शन-महोत्सवः ॥ २४ ॥
उत्थाय प्राञ्जलिः प्रह्वः
ईक्षमाणः दृशा विभुम्।
हर्ष-अश्रु-पुलक-उद्भेदः
गिरा गद्गदया अगृणात् ॥ २५ ॥
श्री-हिरण्यकशिपुः उवाच
कल्प-अन्ते काल-सृष्टेन
यः अन्धेन तमसा आवृतम्।
अभिव्यनक् जगत् इदम्
स्वयम्-ज्योतिः स्व-रोचिषा ॥ २६ ॥
आत्मना त्रि-वृता च इदम्
सृजति अवति लुम्पति।
रजः-सत्त्व-तमः-धाम्ने
पराय महते नमः ॥ २७ ॥
नमः आद्याय बीजाय
ज्ञान-विज्ञान-मूर्तये।
प्राण-इन्द्रिय-मनः-बुद्धि-विकारैः
व्यक्तिम् ईयुषे ॥ २८ ॥
त्वम् ईशिषे जगतः तस्थुषः च
प्राणेन मुख्येन पतिः प्रजानाम्।
चित्तस्य चित्तेः मनः-इन्द्रियाणाम्
पतिः महान् भूत-गुण-आश्रय-ईशः ॥ २९ ॥
त्वम् सप्त-तन्तून् वितनोषि तन्वा
त्रय्या चतुः-होत्रक-विद्यया च।
त्वम् एकः आत्मा आत्मवताम् अनादिः
अनन्त-परः कविः अन्तर-आत्मा ॥ ३० ॥
त्वम् एव कालः अनिमिषः जनानाम्
आयुः लव-आद्य-अवयवैः क्षिणोषि।
कूटस्थ आत्मा परमेष्ठि-अजः महांस्
त्वम् जीव-लोकस्य च जीव-आत्मा ॥ ३१ ॥
त्वत्तः परम् न अपरम् अपि अनेजत्
एजत् च किञ्चित् व्यतिरिक्तम् अस्ति।
विद्याः कलाः ते तनवः च सर्वाः
हिरण्यगर्भः असि बृहत्-त्रि-पृष्ठः ॥ ३२ ॥
व्यक्तम् विभो स्थूलम् इदम् शरीरम्
येन इन्द्रिय-प्राण-मनः-गुणान् त्वम्।
भुङ्क्षे स्थितः धामनि पारमेष्ठ्ये
अव्यक्त आत्मा पुरुषः पुराणः ॥ ३३ ॥
अनन्त-अव्यक्त-रूपेण
येन इदम् अखिलम् ततम्।
चित्-अचित्-शक्ति-युक्ताय
तस्मै भगवते नमः ॥ ३४ ॥
यदि दास्यसि अभिमतान् वरान् मे
वरद-उत्तम।
भूतेभ्यः त्वत्-विसृष्टेभ्यः
मृत्युः मा भूः मम प्रभो ॥ ३५ ॥
न अन्तर् न बहिः दिवा नक्तम्
अन्यस्मात् अपि च आयुधैः।
न भूमौ न अम्बरे मृत्युḥ
न नरैः न मृगैः अपि ॥ ३६ ॥
व्यसुभिः वासुमद्भिः वा
सुर-असुर-महोरगैः।
अप्रतिद्वन्द्वताम् युद्धे
ऐकपत्यं च देहिनाम् ॥ ३७ ॥
सर्वेषाम् लोक-पालानाम्
महिमानम् यथा आत्मनः।
तपः-योग-प्रभावाणाम्
यत् न रिष्यति कर्हिचित् ॥ ३८ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे हिरण्यकशिपोः वर-याचनं नाम
तृतीयः अध्यायः ॥ ३ ॥

No comments:
Post a Comment