ஆன்மீக பாதை அமைய நான்கு படிகள்
ஸ்கந்தம் 7: அத்யாயம் 1
नारद उवाच
ब्रह्म-चारी गुरु-कुले वसन्-आन्तः गुरोः हितम्।
आचरन् दासवन्नीचः गुरौ सुदृढ-सौहृदः ॥ १ ॥
सायं प्रातर् उपासीत् गुरु-अग्नि-अर्क-सुरोत्तमान्।
उभे सन्ध्ये च यत् वाग् जपन् ब्रह्म समाहितः ॥ २ ॥
छन्दांसि अधीयीत् गुरोः आहूतः चेत् सुयन्त्रितः।
उपक्रमे अवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥
मेखला-जिन-वासांसि जटा-दण्डक-मण्डलून्।
बिभृयात् उपवीतं च दर्भ-पाणि यथोक्तम् ॥ ४ ॥
सायं प्रातश् चरेद् भैक्षं गुरवे तन्निवेदयेत्।
भुञ्जीत् यद्य अनुज्ञातो नः चेन्न उपवसेत् क्वचित् ॥ ५ ॥
सुशीलः मितभुः दक्षः श्रद्धधानः जितेन्द्रियः।
यावत् अर्थं व्यवहरेत् स्त्रीषु स्त्री-निर्जितेषु च ॥ ६ ॥
वर्जयेत् प्रमदा-गाथाम् अ-गृहस्थो बृहद्-व्रतः।
इन्द्रियाणि प्रमाथीनि हरन्ति अपि यतेर्मनः ॥ ७ ॥
केश-प्रसाधन-उन्मर्द-स्नपन-ाभ्यञ्जनादिकम्।
गुरु स्त्रीभिः युवतिभिः कारयेत् नात्मनो युवा ॥ ८ ॥
नन्व् अग्निः प्रमदा नाम घृत-कुम्भ-समः पुमान्।
सुताम् अपि रहो जह्यात् अन्यदा यावत् अर्थकृत् ॥ ९ ॥
कल्पयित्वा आत्मना यावत् आभासम् इदं ईश्वरः।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि।
गुरु-वृत्तिः विकल्पेन गृहस्थस्य र्तु-गामिनः ॥ ११ ॥
अञ्जना-भ्यञ्जन-उन्मर्द-स्त्र्यव-लेखा-मिषं मधु।
स्रग्-गन्ध-लेप-आलंकारान् त्यजेयुः ये धृत-व्रताः ॥ १२ ॥
उषित्वैवम् गुरु-कुले द्विजः अधीत्यावबुध्य च।
त्रयीं साङ्गोपनिषदं यावत् अर्थं यथा बलम् ॥ १३ ॥
दत्त्वा वरम् अनुज्ञातो गुरोः कामं यदीश्वरः।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
अग्नौ गुराव् आत्मनि च सर्व-भूतेषु अधोक्षजम्।
भूतैः स्वधामभिः पश्येत् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥
एवंविधः ब्रह्म-चारी वान-प्रस्थो यतिः गृही।
चरन् विदित-विज्ञानः परं ब्रह्म-आधिगच्छति ॥ १६ ॥
वान-प्रस्थस्य वक्ष्यामि नियमान् मुनि-सम्मतान्।
यान् अतिष्ठन् मुनिः गच्छेत् ऋषि-लोक-मुहाञ्जसा ॥ १७ ॥
न कृष्ट-पच्यम् अश्नीयात् अकृष्टं च अप्यकालतः।
अग्नि-पक्वम् अथामं वा अर्क-पक्वम् उताहरेत् ॥ १८ ॥
वन्यैः च रूपु-रु-ओडाशान् निर्वपेत् काल-चोदितान्।
लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत् ॥ १९ ॥
अग्न्यर्थमेव शरणम् ऊटजं वाद्रिक-न्दराम्।
श्रयेत् हिम-वाय्-ग्नि-वर्षा-र्कात-पषाट् स्वयम् ॥ २० ॥
केश-रोमन-खश्म-श्रुमलानि जटिलः दधत्।
कमण्डल्-वजिने दण्ड-वल्कल-आग्नि-परिच्छदान् ॥ २१ ॥
चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरः मुनिः।
द्वावेकं वा यथा बुद्धिः न विपद्येत् कृच्छ्रतः ॥ २२ ॥
यद् आ-कल्पः स्व-क्रियायां व्याधिभिः जरा अथवा।
आन्वीक्षिक्याम् वा विद्यायां कुर्यात् अनशनादिकम् ॥ २३ ॥
आत्मन्य् अग्नीन् समारोप्य संन्यास्याहं मम आत्मताम्।
कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः ॥ २४ ॥
खे खानि वायौ निश्वासान् तेजस् युष्मान् आत्मवान्।
अप्सु सृक्-श्लेष्म-पूयानि क्षितौ शेषं यथोऽभवम् ॥ २५ ॥
वाचम् अग्नौ स वक्तव्याम् इन्द्रे शिल्पं करावपि।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥
मृत्यौ पायुः विसर्गं च यथास्थानं विनिर्दिशेत्।
दिक्षु श्रोत्रं सनादेन स्पर्शेमध्यात्मनि त्वचम् ॥ २७ ॥
रूपाणि चक्षुषा राजन् ज्योतिष्-भिनिवेशयेत्।
अप्सु प्रचेतसा जिह्वां घ्रेयैः घ्राणं क्षितौ न्यसेत् ॥ २८ ॥
मनो मनोरथैः चन्द्रे बुद्धिं बोध्यैः कवौ परे।
कर्माणि अध्यात्मना रुद्रे यद् अहं ममताक्रिया।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैः वैकारिकं परे ॥ २९ ॥
अप्सु क्षितिम् अपो ज्योतिष्यद् ओ वायौ नभस्यम् उम्।
कूटस्थे तच्च महति तद् अव्यक्तेऽक्षरे च तत् ॥ ३० ॥
इति अक्षरतयाः आत्मानं चिन्मात्रम् अवशेषितम्।
ज्ञात्वा द्वयोः अथ विरमेत् दग्ध-योनि-रिव् अनलः ॥ ३१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे सदाचार-निर्णयः
नाम द्वादश-अध्यायः ॥ १२ ॥

No comments:
Post a Comment