ஹிரண்யகசிபு - அசுரன்
ஸ்கந்தம் 7: அத்யாயம் 2
नारद उवाच
भ्रातरि एवम् विनिहते हरिणा क्रोड-मूर्तिना।
हिरण्यकशिपुः राजन् पर्यतप्यत रुषा शुचा ॥ १ ॥
आह च इदम् रुषा घूर्णः सन्दष्ट-दशन-छदः।
कोप-उज्ज्वलत-अभ्याम् चक्षुभ्याम् निरीक्षन् ध्रुमम् अम्बरम् ॥ २ ॥
कराल-दंष्ट्र-उग्र-दृष्ट्या दुःप्रेक्ष्य-भ्रुकुटी-मुखः।
शूलम् उद्यम्य सदसि दानवान् इदम् अब्रवीत् ॥ ३ ॥
भो भो दानव-दैतेयाः द्वि-मूर्धन् त्रक्ष शम्बर।
शत-बाहो हय-ग्रीव नमुचे पाक इल्वल ॥ ४ ॥
विप्र-चित्ते मम वचः पुलोमन् शकुन-आदयः।
श्रृणुत अनन्तरम् सर्वे क्रियताम् आशु मा चिरम् ॥ ५ ॥
सपत्नैः घातितः क्षुद्रैः भ्राता मे दयितः सुहृत्।
पार्ष्णि-ग्राहेण हरिणा समेन अपि उपधावनैः ॥ ६ ॥
तस्य त्यक्त-स्वभावस्य घृणेः माया-वन-ओकसः।
भजन्तम् भजमानस्य बालस्य इव अास्थिर-आत्मनः ॥ ७ ॥
मच्छूल-अभिन्न-ग्रीवस्य भुरिणा रुधिरेण वै।
रुधिर-प्रियम् तर्पयिष्ये भ्रातरम् मे गत-व्यथः ॥ ८ ॥
तस्मिन् कूटे अहिते नष्टे कृत्त-मूले वनस्पतौ।
विटपाः इव शुष्यन्ति विष्णु-प्राणा दिव-ओकसः ॥ ९ ॥
तावत् यात भुवम् यूयम् विप्र-क्षत्र-समेधिताम्।
सुदयध्वम् तपः-यज्ञ-स्व-अध्याय-व्रत-दानिनः ॥ १० ॥
विष्णोः द्विज-क्रिया-मूलः यज्ञः धर्म-मयः पुमान्।
देव-ऋषि-पितृ-भूतानाम् धर्मस्य च परायणम् ॥ ११ ॥
यत्र यत्र द्विजाः गावः वेदाः वर्ण-आश्रमः क्रियाः।
तम् तम् जनपदम् यात सन्दीपयत वृश्चत ॥ १२ ॥
इति ते भर्तुः निर्देशम् आदाय शिरसा आदृताः।
तथा प्रजानाम् कदनम् विदधुः कदन-प्रियाः ॥ १३ ॥
पुर-ग्राम-व्रज-उद्यान-क्षेत्र-आराम-आश्रम-आकरान्।
खेट-खर्वट-घोषान् च ददहुः पत्तनानि च ॥ १४ ॥
केचित् खनित्रैः बिभिदुः सेतु-प्राकार-गोपुरान्।
आजीव्यान् च चिच्छिदुः वृक्षान् केचित् पशु-अपाणयः।
प्रादहन् शरणान् अन्ये प्रजानाम् ज्वलित-ओल्मुकैः ॥ १५ ॥
एवम् विप्र-कृते लोके दैत्य-इन्द्र-अनुचरैः मुहुः।
दिवम् देवाः परित्यज्य भुवि चेरुः अलक्षिताः ॥ १६ ॥
हिरण्यकशिपुः भ्रातुः सम्परेतस्य दुःखितः।
कृत्वा कट-उदक-आदीनि भ्रातृ-पुत्रान् असान्त्वयत् ॥ १७ ॥
शकुनिम् शम्बरम् धृष्टम् भूत-सन्तापनम् वृकम्।
कालनाभम् महानाभम् हरि-श्मश्रुम् अथ उत्कचम् ॥ १८ ॥
तत् मातरम् रुषा-भानुम् दितिम् च जननीम् गिरा।
श्लक्ष्णया देश-काल-ज्ञः इदम् आह जनेश्वरः ॥ १९ ॥
हिरण्यकशिपुः उवाच
अम्बे अम्बे हे वधूः पुत्राः वीरम् न अर्हथ शोचितुम्।
रिपोः अभिमुखे श्लाघ्यः शूराणाम् वधः ईप्सितः ॥ २० ॥
भूतानाम् इह संवाहः प्रपायाम् इव सुव्रते।
दैवेन एकत्र नीतानाम् उन्नीतानाम् स्व-कर्मभिः ॥ २१ ॥
नित्यः आत्मा अव्ययः शुद्धः सर्व-गः सर्व-वित् परः।
धत्ते असौ आत्मनः लिङ्गम् मायया विसृजन् गुणान् ॥ २२ ॥
यथा अम्भसा प्रचलता तरवः अपि चलाः इव।
चक्षुषा भ्राम्यमाणेन दृश्यते चलति इति भूः ॥ २३ ॥
एवम् गुणैः भ्राम्यमाणे मनसि अविकलः पुमान्।
याति तत्-साम्यताम् भद्रे हि आलिङ्गः लिङ्गवान् इव ॥ २४ ॥
एषः आत्म-विपर्यासः हि आलिङ्गे लिङ्ग-भावना।
एषः प्रिय-अप्रिय-योगः वियोगः कर्म-संसृतिः ॥ २५ ॥
सम्भवः च विनाशः च शोकः च विविधः स्मृतः।
अ-विवेकः च चिन्ता च विवेक-स्मृतिः एव च ॥ ২৬ ॥
अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम्।
यमस्य प्रेत-बन्धूनाम् संवादम् तम् निबोधत ॥ २७ ॥
उशीनरेषु अभूत् राजा सुयज्ञः इति विश्रुतः।
सपत्नैः निहतः युद्धे ज्ञातयः तम् उपासत ॥ २८ ॥
विशीर्ण-रत्न-कवचम् विभ्रष्ट-आभरण-स्रजम्।
शर-निर्भिन्न-हृदयम् शयानम् असृक्-आविलम् ॥ २९ ॥
प्रकीर्ण-केशम् ध्वस्त-आक्षम् रभसा दष्ट-दत्-छदम्।
रजः-कुण्ठ-मुख-अम्भोजम् छिन्न-आयुध-भुजम् मृधे ॥ ३० ॥
उशीनर-इन्द्रम् विधिना तथा कृतम्
पतिम् महिष्यः प्रसमीक्ष्य दुःखिताः।
हताः स्म नाथे इति करैः उरः भृशम्
घ्नन्त्यः मुहुः तत्-पदयोः उपापतन् ॥ ३१ ॥
रुदत्यः उच्चैः दयित-अङ्घ्रि-पङ्कजम्
सिञ्चन्त्यः अश्रैः कुच-कुङ्कुम-अरुणैः।
विस्रस्त-केश-आभरणाः शुचम् नृणाम्
सृजन्त्यः आक्रन्दनया विलेपिरे ॥ ३२ ॥
अहो विधात्रा अकरुणेन नः प्रभो
भवान् प्रणीतः दृढ-अगोचराम् दशाम्।
उशीनराणाम् आси वृत्ति-दः पुरा
कृतः अधुना येन शुचाम् विवर्धनः ॥ ३३ ॥
त्वया कृतज्ञेन वयम् मही-पते
कथम् विना स्याम सुहृत्-तमेन ते।
तत्र अनुयानम् तव वीर पादयोः
शुश्रूषतीनाम् दिश यत्र यास्यसि ॥ ३४ ॥
एवम् विलपतीनाम् वै परिगृह्य मृतम् पतिम्।
अनिच्छतीनाम् निर्हारम् अर्कः अस्तम् संन्यवर्तत ॥ ३५ ॥
तत्र ह प्रेत-बन्धूनाम् आश्रुत्य परिदेवितम्।
आह तान् बालकः भूत्वा यमः स्वयम् उपागतः ॥ ३६ ॥
यम उवाच
अहो अमीषाम् वयसा-अधिकानाम्
विपश्यताम् लोक-विधिम् विमोहः।
यत्र-गतः तत्र गतम् मनुष्यम्
स्वयम् स-धर्माः अपि शोचन्ति अपार्थम् ॥ ३७ ॥
अहो वयम् धन्य-तमाः यत् अत्र
त्यक्ता पितृभ्याम् न विचिन्तयामः।
अभक्ष्यमाणाः अबलाः वृक-आदिभिः
सः रक्षिता रक्षति यः हि गर्भे ॥ ३८ ॥
यः इच्छया ईशः सृजति इदम् अव्ययः
यः एव रक्षति अवलुम्पते च यः।
तस्य अबलाः क्रीडनम् आहुः ईशितुः
चर-अचरम् निग्रह-सङ्ग्रहे प्रभुः ॥ ३९ ॥
पथि च्युतम् तिष्ठति दिष्टः-रक्षितम्
गृहे स्थितम् तत्-विहतम् विनश्यति।
जीवति अनाथः अपि तत् ईक्षितः वने
गृहे अपि गुप्तः अस्य हतः न जीवति ॥ ४० ॥
भूतानि तैः तैः निज-योनि-कर्मभिः
भवन्ति काले न भवन्ति सर्वशः।
न तत्र ह आत्मा प्रकृतौ अपि स्थितः
तस्याः गुणैः अन्यतमः निबध्यते ॥ ४१ ॥
इदं शरीरम् पुरुषस्य मोह-जम्
यथा पृथक् भौतिकम् ईयते गृहम्।
यथा उदकैः पार्थिव-तैजसैः जनः
कालेन जातः विकृतः विनश्यति ॥ ४२ ॥
यथा अनलः दारुषु भिन्नः ईयते
यथा अनिलः देह-गतः पृथक् स्थितः।
यथा नभः सर्व-गतम् न सज्जते
तथा पुमान् सर्व-गुण-आश्रयः परः ॥ ४३ ॥
सुयज्ञः ननु अयं शेते मूढाः यम् अनुशोचथ।
यः श्रोता यः अनुवक्ता इह सः न दृश्येत कर्हिचित् ॥ ४४ ॥
न श्रोता न अनुवक्ता अयम् मुख्यः अपि अत्र महान् असुः।
यः तु इह इन्द्रिय-वान् आत्मा सः च अन्यः प्राण-देहयोः ॥ ४५ ॥
भूत-इन्द्रिय-मनः-लिङ्गम् देहान् उच्छावचान् विभुः।
भजति उत्सृजति हि अन्यः तत् च अपि स्वेन तेजसा ॥ ४६ ॥
यावत् लिङ्ग-अन्वितः हि आत्मा तावत् कर्म-निबन्धनम्।
ततः विपर्ययः क्लेशः माया-योगः अनुवर्तते ॥ ४७ ॥
वितथ-अभिनिवेशः अयम् यत् गुणेषु अर्थ-दृक्-वचः।
यथा मनोरथः स्वप्नः सर्वम् ऐन्द्रियम् मृषा ॥ ४८ ॥
अथ नित्यम् अनित्यम् वा न इह शोचन्ति तद्विदः।
न अन्यथा शक्यते कर्तुम् स्वभावः शोचताम् इति ॥ ४९ ॥
लुब्धकः विपिने कश्चित् पक्षिणाम् निर्मितः अन्तकः।
वितत्य जालम् विदधे तत्र तत्र प्रलोभयन् ॥ ५० ॥
कुलिङ्ग-मिथुनम् तत्र विचरत् समदृश्यत।
तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१ ॥
सा आसज्जत शिचः तन्त्र्याम् महिषी काल-यन्त्रिता।
कुलिङ्गः ताम् तथा आपन्नाम् निरीक्ष्य भृश-दुःखितः।
स्नेहात् अकल्पः कृपणः कृपणाम् पर्यदेवयत् ॥ ५२ ॥
अहो अकरुणः देवः स्त्रियाः अकरुणया विभुः।
कृपणम् माम् अनुशोचन्त्या दीनया किम् करिष्यति ॥ ५३ ॥
कामम् नयतु माम् देवः किम् अर्धेन आत्मनः हि मे।
दीनः जीवता दुःखम् अनेन विधुर-आयुषा ॥ ५४ ॥
कथम् तु अजत-पक्षान् तान् मातृ-हीनान् बिभर्मि अहम्।
मन्द-भाग्यः प्रतीक्षन्ते नीडे मे मातरम् प्रजाः ॥ ५५ ॥
एवम् कुलिङ्गम् विलपन्तम् आरात्
प्रिय-वियोग-अतुरम् अश्रु-कण्ठम्।
सः एव तम् शाकुनिकः शरेण
विव्याध काल-प्रहितः विलीनः ॥ ५६ ॥
एवम् यूयम् अपश्यन्ति आत्म-अपायम् अबुद्धयः।
न एनम् प्राप्स्यथ शोचन्त्यः पतिम् वर्ष-शतैः अपि ॥ ५७ ॥
हिरण्यकशिपुः उवाच
बालः एवम् प्रवदति सर्वे विस्मित-चेतसः।
ज्ञातयः मेनिरे सर्वम् अनित्यम् यथा उत्थितम् ॥ ५८ ॥
यमः एतत् उपाख्याय तत्र एव अन्तरधीयत।
ज्ञातयः अपि सुयज्ञस्य चक्रुः यत् साम्परायिकम् ॥ ५९ ॥
ततः शोचत मा यूयम् परम् च आत्मानम् एव च।
कः आत्मा कः परः अत्र स्वीयः पारक्यः एव वा।
स्व-पर-अभिनिवेशेन विना ज्ञानम् देहिनाम् ॥ ६० ॥
नारद उवाच
इति दैत्य-पतेः वाक्यम् दिति-राकर्ण्य स- स्नुषा।
पुत्र-शोकम् क्षणात् त्यक्त्वा तत्त्वे चित्तम् अधारयत् ॥ ६१ ॥
॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
सप्तम-स्कन्धे दिति-शोक-आपनयनम् नाम
द्वितीयः अध्यायः ॥ २ ॥

No comments:
Post a Comment