Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 8 (நரசிம்மர் - ஹிரண்யகசிபு மரணம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

நரசிம்மர் - ஹிரண்யகசிபு மரணம்

ஸ்கந்தம் 7: அத்யாயம் 8

 

श्रीनारद उवाच –

अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम्।
जगृहुर्निरवद्यत्वान्नैव गुरु-नुशिक्षितम् ॥ १ ॥

अथाचार्यसुतस्तेषां बुद्धि-एकान्त-स्थिताम्।
आलक्ष्य भीतस्त्वरितो राज्ञा आवेदयद् यथा ॥ २ ॥

श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम्।
कोपावेश-चलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ ३ ॥

क्षिप्त्वा परुषया वाचा प्रह्लाद-मतदर्हणम्।
आहेक्ष-माणः पापेन तिरश्चीनेन चक्षुषा ॥ ४ ॥

प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम्।
सर्पः पदाहत इव श्वसन् प्रकृति-दारुणः ॥ ५ ॥

हे दुर्विनीत मन्दात्मन् कुलभेद-कराधम।
स्तब्धं मच्छासन-उद्धूतं नेष्ये त्वाद्य यमक्षयम् ॥ ६ ॥

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः।
तस्य मेऽभीतवन्मूढ शासनं किम्बलोऽत्यगाः ॥ ७ ॥

श्रीप्रह्लाद उवाच –

न केवलं मे भवतश्च राजन्
स वै बलं बलिनां चापरेषाम्।
परेऽवरेऽमी स्थिर-जङ्गमा ये
ब्रह्मादयो येन वशं प्रणीताः ॥ ८ ॥

स ईश्वरः काल-उरु-क्रमोऽसावोजः सहः सत्त्व-बलेन्द्रियात्मा।
स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुण-त्रयेः ॥ ९ ॥

जह्यासुरं भावमिमं त्वमात्मनः
समं मनो धत्स्व न सन्ति विद्विषः।
ऋतेऽजितादात्मन उत्पथ-स्थितात्
तद्धि ह्यनन्तस्य महत् समर्हणम् ॥ १० ॥

दस्यून् पुरा षण्ण विजित्य लुम्पतो
मन्यन्त एके स्वजिता दिशो दश।
जितात्मनो ज्ञस्य समस्या देहिनां
साधोः स्व-मोह-प्रभवाः कुतः परे ॥ ११ ॥

श्रीहिरण्यकशिपुरुवाच –

व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः ॥ १२ ॥

यस्त्वया मन्द-भाग्योक्तो मदन्यो जगदीश्वरः।
क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ १३ ॥

सोऽहं विकत्थ-मानस्य शिरः कायाद्धरामि ते।
गोपायेत हरिस्त्वाद्य यस्ते शरण-मीप्सितम् ॥ १४ ॥

एवं दुरुक्तैर्मुहुरर्दयन् रुषा
सुतं महाभागवतं महासुरः।
खड्गं प्रगृह्योत्पतितो वरासनात्
स्तम्भं तताडातिबलः स्वमुष्टिना ॥ १५ ॥

तदैव तस्मिन् निनदोऽतिभीषणो
बभूव येनाण्ड-कटाहमस्फुटत्।
यं वै स्वधिष्ण्यो-प्रगतं त्वजादयः
श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ १६ ॥

स विक्रमन् पुत्रवधे-इप्सुरोजसा
निशम्य निर्ह्रादमपूर्वमद्भुतम्।
अन्तःसभायां न ददर्श तत्पदं
वितत्र-सुर्येन सुर-आर्य-यूथपाः ॥ १७ ॥

सत्यं विधातुं निजभृत्य-भाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः।
अदृश्य-तात्यद्भुत-रूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ १८ ॥

स सत्त्वमेनं परितोऽपि पश्यन्
स्तम्भस्य मध्यादनु निर्जिहानम्।
नायं मृगो नापि नरो विचित्र
महो किमेतन्नृ-मृगेन्द्ररूपम् ॥ १९ ॥

मीमांसमानस्य समुत्थितोऽग्रतः
नृसिंहरूपस्तदलं भयानकम्।
प्रतप्त-चामीकर-चण्डलोचनं
स्फुरत् सटाकेसर-जृम्भिताननम् ॥ २० ॥

श्रीनारद उवाच –

कराल-दंष्ट्रं करवाल-चञ्चल-
क्षुरान्त-जिह्वं भ्रुकुटी-मुखोल्बणम्।
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत-
व्यात्तास्य नासं हनुभेद-भीषणम् ॥ २१ ॥

दिवि-स्पृशत्कायं दीर्घ-पीवर-
ग्रीवो-रु-वक्षःस्थलमल्प-मध्यमम्।
चन्द्रांशु-गौरैः छुरितं तनू-रुहैः-
विष्व-ग्भुजानीकशतं नखायुधम् ॥ २२ ॥

दुरासदं सर्व-निजेतरायुध
प्रवेक-विद्रावित-दैत्य-दानवम्।
प्रायेण मेऽयं हरिणो-रुमायिना
वधः स्मृतोऽनेन समुद्यतेन किम् ॥ २३ ॥

एवं ब्रुवंस्त्वभ्यपतद् गदायुधो
नदन् नृसिंहं प्रति दैत्यकुञ्जरः।
अलक्षितोऽग्नौ पतितः पतङ्गमो
यथा नृसिंहौजसि सोऽसुरस्तदा ॥ २४ ॥

न तद् विचित्रं खलु सत्त्व-धामनि
स्वतेजसा यो नु पुरा पिबत् तमः।
ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंहं गदयोरुवेगया ॥ २५ ॥

तं विक्रमन्तं सगदं गदाधरो
महोरगं तार्क्ष्यसुतो यथाग्रहीत्।
स तस्य हस्तोत्कलितस्तदासुरो
विक्रीडतो यद्वदहिर्गरुत्मतः ॥ २६ ॥

असाध्व-मन्यन्त हृतौकसोऽमरा
घनच्छदा भारत सर्वधिष्ण्यपाः।
तं मन्यमानो निजवीर्य-शङ्कितं
यद्धस्तमुक्तो नृहरिं महासुरः।
पुनस्तमासज्जत खड्ग-चर्मणी
प्रगृह्य वेगेन जित-श्रमो मृधे ॥ २७ ॥

तं श्येन-वेगं शत-चन्द्रवर्त्मभि-
श्चरन्तमच्छिद्रमुपर्यधो हरिः।
कृत्वाट्ट-हासं खरमुत्स्व-नोल्बणं
निमीलिताक्षं जगृहे महाजवः ॥ २८ ॥

विष्वक् स्फुरन्तं ग्रहणातुरं हरि-
र्व्यालो यथाऽऽखुं कुलिशाक्ष-तत्वचम्।
द्वार्यूर आपत्य ददार लीला-या
नखैर्यथाहिं गरुडो महाविषम् ॥ २९ ॥

संरम्भ-दुष्प्रेक्ष्य-कराल-लोचनो
व्यात्ताननान्तं विलिहन् स्वजिह्वया।
असृग्ल-वाक्तारुण-केशराननो
यथान्त्रमाली द्विपहत्यया हरिः ॥ ३० ॥

नखाङ्कुरोत्पाटित हृत्सर-रुहं
विसृज्य तस्यानुचरानुदायुधान्।
अहन् समस्तान् नख-शस्त्र-पार्ष्णिभि-
र्दोर्दण्ड-यूथोऽनुपथान् सहस्रशः ॥ ३१ ॥

सटावधूता जलदाः परापतन्
ग्रहाश्च तद्दृष्टि-विमुष्ट-रोचिषः।
अम्भोधयः श्वास-हता विचुक्षुभु-
र्निर्ह्राद-भीता दिगिभा विचुक्रुशुः ॥ ३२ ॥

द्यौस्तत् सट-उत्क्षिप्त-विमान-सङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभि-पीडिता।
शैलाः समुत्पेतुर अमुष्य रंहसा
तत्तेजसा खं ककुभो न रेजिरे ॥ ३३ ॥

ततः सभायामुपविष्टम् उत्तमे
नृपासने सम्भृत-तेजसम् विभुम्।
अलक्षित-द्वैरथमत्यमर्षणं
प्रचण्ड-वक्त्रं न बभाज कश्चन ॥ ३४ ॥

निशाम्य लोकत्रयम् अस्तक-ज्वरं
तमादिदैत्यं हरिणा हतं मृधे।
प्रहर्ष-वेगो-उत्कलित-आनना मुहुः
प्रसून-वर्षैर्ववृषुः सुरस्त्रियः ॥ ३५ ॥

तदा विमान-आवलिभिः नभ-स्तलं
दिदृक्षतां सङ्कुलमास नाकिनाम्।
सुरान्का दुन्दुभयोऽथ जघ्निरे
गन्धर्व-मुख्या ननृतुर्जगुः स्त्रियः ॥ ३६ ॥

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र-गिरिशादयः।
ऋषयः पितरः सिद्धा विद्याधर-महोरगाः ॥ ३७ ॥

मनवः प्रजानां पतयो गन्धर्व-अप्सर-चारणाः।
यक्षाः किम्पुरुषास्तात् वेतालाः सह-किन्नराः ॥ ३८ ॥

ते विष्णु-पार्षदाः सर्वे सुनन्द-कुमुदादयः।
मूर्ध्नि बद्धाञ्जलि-पुटा आसीनं तीव्र-तेजसम्।
ईडिरे नर-शार्दूलं नाति-दूर-चराः पृथक् ॥ ३९ ॥

श्रीब्रह्मोवाच –

नतोऽस्म्य अनन्ताय दुरन्त-शक्तये
विचित्र-वीर्याय पवित्र-कर्मणे।
विश्वस्य सर्ग-स्थिति-संयमान् गुणैः
स्व-लीलया सन्दधतेऽव्ययात्मने ॥ ४० ॥

श्री-रुद्र उवाच
कोप-कालः युगान्तः ते हतः अयम् असुरः अल्पकः।
तत्-सुतं पाह्य् उपसृतं भक्तं ते भक्त-वात्सल ॥ ४१ ॥

श्री-इन्द्र उवाच
प्रत्यानीताः परम भवता त्रायता नः स्व-भागाः
दैत्य-आक्रान्तं हृदय-कमलं तत्-गृहं प्रत्यबोधि।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्ति-तेषां न हि बहु-मता नारसिंह-अपरेषु किम् ॥ ४२ ॥

श्री-ऋषय ऊचुः
त्वं नः तपः परम-मैथ यत् आत्म-तेजः
येन इदम् आदि-पुरुष-आत्म-गतं ससर्ज।
तत् विप्र-लुप्तम् अमुनाद्य शरण्य-पाल
रक्षा-गृहीत-वपुषा पुनर् अन्वमंस्थाः ॥ ४३ ॥

श्री-पितर ऊचुः
श्राद्धानि नः अधि-बुभुजे प्रसभं तनू-जैः
दत्तानि तीर्थ-समये अपि अपिबत् तिल-आम्बु।
तस्य उदरान् नख-विदीर्ण-वपाद् य आर्च्छत्
तस्मै नमो नृहरये अखिल-धर्म-गोप्त्रे ॥ ४४ ॥

श्री-सिद्धा ऊचुः
यो नः गतिं योग-सिद्धा- अमसाधुर्
आर्ह-षीद् योग-तपो-बलेन।
नाना-दर्पं तं नखैः निददार
तस्मै तुभ्यं प्रणतः स्मः नृसिंह ॥ ४५ ॥

श्री-विद्याधरा ऊचुः
विद्यां पृथक्-धारण-यानुराद्धां
न्यषेधद् ज्ञो बल-वीर्य-दृप्तः।
स येन सङ्ख्ये पशु-वद्धत तं
माया-नृसिंहं प्रणतः स्म नित्यम् ॥ ४६ ॥

श्री-नागा ऊचुः
येन पापेन रत्नानि स्त्री-रत्नानि हृतानि नः।
तद्-वक्षः-पाटनेन आसां दत्तानन्द नमोऽस्तु ते ॥ ४७ ॥

श्री-मनव ऊचुः
मनवो वयम् तव निर्देश-कारिणो
दितिजेन देव परिभूत-सेतवः।
भवता खलः स उप-संहृतः प्रभो
करवाम् ते किम् अनुशाधि किं्करान् ॥ ४८ ॥

श्री-प्रजापतय ऊचुः
प्रजेषा वयम् ते परेश-आभि-सृष्टाः
न येन प्रजा वै सृजामो निषिद्धाः।
स एष त्वया भिन्न-वक्षा नु शेते
जगत्-मङ्गलं सत्त्व-मूर्तेऽवतारः ॥ ४९ ॥

श्री-गन्धर्वा ऊचुः
वयम् विभो ते नटनाट्य-गायका
येन आत्म-साद् वीर्य-बल-उजसा कृताः।
स एष नीतो भवता दशा-इमां
किम् उत्पथस्थः कुशलाय कल्पते ॥ ५० ॥

श्री-चारणा ऊचुः
हरे तवाङ्घ्रि-पङ्कजं भव-अपवर्गम् आश्रिताः।
यदेष साधु-हृच्छयः त्वया असुरः समापितः ॥ ५१ ॥

श्री-यक्षा ऊचुः
वयम् अनुचर-मुख्याः कर्म-भि-स्ते मनोज्ञैः
स्त इह दिति-सुतेन प्रापिता वाहकत्वम्।
स तु जन-परितापं तत् कृतं जानता ते
नर-हर उपनीतः पञ्चतां पञ्च-विंशतिः ॥ ५२ ॥

श्री-किम्पुरुषा ऊचुः
वयम् किम्पुरुषाः त्वं तु महा-पुरुष ईश्वरः।
अयम् कुपुरुषः नष्टो धिक्-कृतः साधुभिर् यदा ॥ ५३ ॥

श्री-वैतालिका ऊचुः
सभासु सत्रेषु तव अमलं यशो
गीत्वा सपर्यां महतीं लभामहे।
यस्तां व्यनैषीद् भृशम् एष दुर्जनः
द्विष्ट्या हतः ते भगवन्यथाऽऽमयः ॥ ५४ ॥

श्री-किन्नरा ऊचुः
वयम् ईश किन्नर-गणाः तव अनुगा
दितिजेन विष्टिम् अमुनानु कारिताः।
भवता हरे स वृजिनोऽवसादितो
नर-सिंह नाथ विभवाय नः भव ॥ ५५ ॥

श्री-विश्णु- पार्षदा ऊचुः
अद्य एतत् धरि-नर-रूपम् अद्भुतं ते
दृष्टं नः शरण-द् सर्व-लोक-शर्म।
सोऽयं ते विधिकर ईश विप्र-शप्तः
तस्य एतं निधनम् अनुग्रहाय विद्मः ॥ ५६ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लादानुचरिते दैत्य-राजवधे नृसिंह-स्तवो
नामाष्टमोऽध्यायः ॥ ८ ॥

No comments: