Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 7 (பிரஹலாதன் கர்ப்பத்தில் என்ன கற்றான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பிரஹலாதன் கர்ப்பத்தில் என்ன கற்றான்

ஸ்கந்தம் 7: அத்யாயம் 7

 

श्री-नारद उवाच
एवं दैत्य-सुतैः पृष्टो महाभागवतोऽसुरः।
उवाच स्मयमानः तान् स्मरन् मद-अनुभाषितम् ॥ १ ॥

श्री-प्रह्लाद उवाच
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम्।
युद्ध-उद्यमं परं चक्रु: विवुधा दानवान् प्रति ॥ २ ॥

पिपीलिकैः अहिरिव दिष्ट्या लोक-उपतापनः।
पापेन पापोऽभक्षीति वदिनो वास-वादयः ॥ ३ ॥

तेषाम अति-बल-उद्योगं निशम्य असुर-यूथ-पाः।
वध्यमाना: सुरैः भीता दुद्रुवुः सर्वतोदिशम् ॥ ४ ॥

कलत्र-पुत्र-मित्राप्तान् गृहान् पशु-परिच्छदान्।
ना अवेक्ष्यमाना: त्व-रिताः सर्वे प्राण-परीप्सवः ॥ ५ ॥

व्यलुम्पन् राज-शिबिरम् अमरा जय-काङ्क्षिणः।
इन्द्रस्तु राज-महिषीं मातरं मम च अग्रहीत् ॥ ६ ॥

नीयमानां भय-उद्विग्नां रुदतीं कुररीमिव।
यदृच्छया आगतस्तत्र देव-र्षिर्ददृशे पथि ॥ ७ ॥

प्राह मैनां सुर-पते नेतुमर्हस्य नाग-सम्।
मुञ्च मुञ्च महाभाग सतीं पर-परिग्रहम् ॥ ८ ॥

श्री-इन्द्र उवाच
आस्तेऽस्या जठरे वीर्यम् अविषह्यं सुर-द्विषः।
आस्यतां यावत् प्रसवं मोक्ष्येऽर्थ-पदवीं गतः ॥ ९ ॥

श्री-नारद उवाच
अयं निष्किल्बिषः साक्षान् महाभागवतो महान्।
त्वया न प्राप्स्यते संस्थाम् अनन्त-अनुचरो बली ॥ १० ॥

इत्युक्तस्तां विहाय इन्द्रो देव-र्षेर्मानयन् वचः।
अनन्त-प्रिय-भक्त्यैना: परिक्रम्य दिवं ययौ ॥ ११ ॥

ततो मे मातरम् ऋषिः समानीय निज-आश्रमम्।
आश्वास्य एहो ष्यतां वत्से यावत् ते भर्तुर् आगमः ॥ १२ ॥

तथा एत्य अवात्सीद् देवर्षे: रन्ति साप्य-कुतोभया।
यावत् दैत्य-पतिर्घोरात् तपसो न न्यवर्तत ॥ १३ ॥

ऋषिं पर्यचरत् तत्र भक्त्या परमया सती।
अन्तर्वत्नी स्व-गर्भस्य क्षेमाय इच्छा-प्रसूतये ॥ १४ ॥

ऋषिः कारुणिकस्तस्याः प्रादादुभय-ईश्वरः।
धर्मस्य तत्त्वं ज्ञानं च मामप्य उद्दिश्य निर्मलम् ॥ १५ ॥

तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातु: तिरोदधे।
ऋषि-नानुगृहीतं मां नाधुनाप्य जहात् स्मृतिः ॥ १६ ॥

भवताम् अपि भूयान् मे यदि श्रद्धधते वचः।
वैशारदी धी: श्रद्धातः स्त्री-बालानां च मे यथा ॥ १७ ॥

जन्माद्याः षड-इमे भावा दृष्टा देहस्य नात्मनः।
फलानाम् इव वृक्षस्य कालेन ईश्वर-मूर्तिना ॥ १८ ॥

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः।
अविक्रियः स्व-दृग् हेतुर्व्यापकोऽसङ्ग्य-नावृतः ॥ १९ ॥

एतैः द्वादश-भिः विद्वान् आत्मनो लक्षणैः परैः।
अहं मम एत्य सद्भावं देहादौ मोह-जं त्यजेत् ॥ २० ॥

श्री-प्रह्लाद उवाच –

स्वर्णं यथा ग्रावसु हेमकारः
क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात्।
क्षेत्रेषु देहेषु तथाऽऽत्मयोगैः
ध्यात्म-विद् ब्रह्मगतिं लभेत् ॥ २१ ॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद् गुणाः।
विकाराः षोडश-आचार्यैः पुरुष-नेकः समन्वयात् ॥ २२ ॥

देहस्तु सर्व-सङ्घातो जगत् तस्थुरिति द्विधा।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन् ॥ २३ ॥

अन्वय-व्यतिरेकेण विवेक-नोशताऽऽत्मना।
स्वर्ग-स्थान-समाम्नायैर्विमृशद्भिरसत्वरैः ॥ २४ ॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धि-भेदैः क्रियोद्भवैः।
स्वरूपम् आत्मनो बुध्येत् गन्धैर्वायुमिवान्वयात् ॥ २६ ॥

एतद्द्वारो हि संसारः गुण-कर्म-निबन्धनः।
अज्ञान-मूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्य्ते ॥ २७ ॥

तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम्।
बीज-नर्हरणं योगः प्रवाहोपरमो धियः ॥ २८ ॥

तत्रोपाय-सहस्राणामयं भगवतोदितः।
यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ २९ ॥

गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च।
सङ्गेन साधु-भक्तानाम् ईश्वर-आराधनेन च ॥ ३० ॥

श्रद्धया तत् कथायां च कीर्तनैर्गुण-कर्मणाम्।
तत् पादाम्बु-रुह-ध्यानात् तल्लिङ्ग-एक्षा-र्णादिभिः ॥ ३१ ॥

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः।
इति भूता-नि मनसा कामैस्तैः साधु मानयेत् ॥ ३२ ॥

एवं निर्जित-षड्वर्गैः क्रियते भक्ति-रीश्वरे।
वासुदेवे भगवति यया संलभ्यते रतिम् ॥ ३३ ॥

निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभिः कृतानि।
यदा अतिः-हर्षोत्पुलक-आश्रुगद् गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ३४ ॥

यदा ग्रह-ग्रस्त इव क्वचिद्धस्य
त्याक्रन्दते ध्यायति वन्दते जनम्।
मुहुः श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्म-मतिर्गतत्र पः ॥ ३५ ॥

तदा पुरुषो मुक्त-समस्त-बन्धन-
स्तद्भाव-भावानुकृत-आशयाकृतिः।
निर्दग्ध बीज-अनुशयो महीयसा
भक्ति-प्रयोगेण समेत्य अधोक्षजम् ॥ ३६ ॥

अधोक्षजालम्भमिहाशुभ-आत्मनः
शरीरिणः संसृतिचक्र-शातनम्।
तद् ब्रह्म निर्वाण-सुखं विदुर् बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३७ ॥

कोऽतिप्रयासः असुर-बालका हरे-
रूपासने स्वे हृदि छिद्रवत् सतः।
स्वस्यात्मनः सख्युरशेष-देहिनां
सामान्यतः किं विषय-उपपादनैः ॥ ३८ ॥

रायः कलत्रं पशवः सुतादयः
गृहा मही कुञ्जर-कोश-भूतयः।
सर्वेऽर्थ-कामाः क्षण-भङ्गुर-आयुषः
कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः ॥ ३९ ॥

एवं हि लोकाः क्रतुभिः कृता अमी
क्षयिष्णवः सातिशया न निर्मलाः।
तस्माद् अदृष्ट-श्रुत-दूषणं परं
भक्त्योक्त-येषं भजतात्म-लब्धये ॥ ४० ॥

श्री-प्रह्लाद उवाच –

यदध्यर्थ्येह कर्माणि विद्वन् मान्यसकृन्नरः।
करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ ४१ ॥

सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः।
सदाऽप्नोतीहया दुःख-मनीहायाः सुखावृतः ॥ ४२ ॥

कामान् कामयते काम्यैः यदर्थम् इह पुरुषः।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ ४३ ॥

किमु व्यवहितापत्य-दार-आगार-धनादयः।
राज्यं कोश-गजामात्य-भृत्याप्ता ममतास्पदाः ॥ ४४ ॥

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः।
अनर्थैरर्थ-सङ्काशैर्नित्यानन्द-महोदधेः ॥ ४५ ॥

निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः।
निषेकादिष्व-अवस्थासु क्लिश्यमानस्य कर्मभिः ॥ ४६ ॥

कर्माण्यारभते देही देहेनात्मानुवर्तिना।
कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥ ४७ ॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः।
भजतानीहयाऽऽत्मानमनीहं हरि-ईश्वरम् ॥ ४८ ॥

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः।
भूतैर्महद्भिः स्वकृतैः कृतानां जीव-संज्ञितः ॥ ४९ ॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा।
भजन् मुकुन्द-चरणं स्वस्तिमान् स्याद् यथा वयम् ॥ ५० ॥

नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५१ ॥

न दानं न तपो नेज्या न शौचं न व्रतानि च।
प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् ॥ ५२ ॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः।
आत्म-उपम्येन सर्वत्र सर्व-भूतात्म-नीश्वरे ॥ ५३ ॥

दैतेया यक्ष-रक्षांसि स्त्रियः शूद्रा व्रजौकसः।
खगा मृगाः पाप-जीवाः सन्ति ह्यच्युततां गताः ॥ ५४ ॥

एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः।
एकान्त-भक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् ॥ ५५ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम
सप्तमोऽध्यायः ॥ ७ ॥

No comments: