ஹிரண்யகசிபு மகன் - பிரஹலாதன்
ஸ்கந்தம் 7: அத்யாயம் 5
श्री-नारद उवाच
पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः।
शण्डा-अर्कौ सुतौ तस्य दैत्य-राज-गृहान्तिके ॥ १ ॥
तौ राज्ञा प्रापितं बालं प्रह्लादं नयक-ओविदम्।
पाठयामास तुः पाठ्यान् अन्यांश्चासुर-बालकान् ॥ २ ॥
यत् तत्र गुरुणा प्रोक्तं शुश्रुवेऽनु-पपाठ च।
न साधु मनसा मेने स्व-परासद्-ग्रहाश्रयम् ॥ ३ ॥
एक-दासुर-राट् पुत्रं अङ्क-मारोप्य पाण्डव।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद् भवन् ॥ ४ ॥
श्री-प्रह्लाद उवाच
तत् साधु मन्येऽसुर-वर्य देहिनां
सदा सम-उद्विग्न-धियाम् असद्-ग्रहात्।
हित्वाऽऽत्म-पातं गृहम् अन्ध-कूपं
वनं गतो यद् धरिम् आश्रयेत ॥ ५ ॥
श्री-नारद उवाच
श्रुत्वा पुत्र-गिरो दैत्यः पर-पक्ष-समाहिताः।
ज-हास बुद्धिर्बालानां भिद्यते पर-बुद्धिभिः ॥ ६ ॥
सम्यग् विधार्यतां बालो गुरु-गेहे द्विजातिभिः।
विष्णु-पक्षैः प्रति-छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥
गृह-आनीत-माहूय प्रह्लादं दैत्य-याजकाः।
प्रशस्य श्लक्ष्णया वाचा सम-अपृच्छन्त सामभिः ॥ ८ ॥
वत्स प्रह्लाद भद्रं ते सत्यं कथय मा मृषा।
बालानति कुतस्तुभ्यम् एष बुद्धि-विपर्ययः ॥ ९ ॥
बुद्धि-भेदः पर-कृत उताहो ते स्वतोऽभवत्।
भण्यतां श्रोतु-कामानां गुरूणां कुल-नन्दन ॥ १० ॥
श्री-प्रह्लाद उवाच
स्वः परश्चेत्य असद्-ग्रहः पुंसां यन्माया-या कृतः।
विमोहित-धियां दृष्टः तस्मै भगवते नमः ॥ ११ ॥
स यदा अनु-व्रतः पुंसां पशु-बुद्धिः विभिद्यते।
अन्य एष तथान्यः अहम् इति भेद-गतासती ॥ १२ ॥
स एष आत्मा स्व-परेत्य अभुद्धिभिः
दुरत्यय-अनुक्रमणो निरूप्यते।
मुह्यन्ति यद्-वर्त्मनि वेद-वादिनो
ब्रह्मादयः ह्येष भिनत्ति मे मतिम् ॥ १३ ॥
यथा भ्राम्यत्ययः ब्रह्मन् स्वयम् आ-कर्ष-सन्निधौ।
तथा मे भिद्यते चेतः चक्र-पाणेर् यदृच्छया ॥ १४ ॥
श्री-नारद उवाच
एतावद् ब्राह्मणायोक्त्वा विरराम् महामतिः।
तं निर्भर्त्स्य र्याथ कुपितः स दीनो राज-सेवकः ॥ १५ ॥
आनीयताम् अरे वेत्रम् अस्माकम् अयश-स्करः।
कुलाङ्गारस्य दुर्बुद्धेः चतुर्थोऽस्य उदितो दमः ॥ १६ ॥
दैतेय-चन्दन-वने जातोऽयं कण्टक-द्रुमः।
यन्मूल-ओन्मूल-परशोः विष्णोः नालायितोऽर्भकः ॥ १७ ॥
इति तं विविध-उपायैः भीषयं स्तर्जनादिभिः।
प्रह्लादं ग्राहयामास त्रि-वर्गस्य उप-पादनम् ॥ १८ ॥
तत् एनं गुरुर्ज्ञात्वा ज्ञात-ज्ञेय-चतुष्टयम्।
दैत्येन्द्रं दर्शयामास मातृम् ऋष्ट-मलङ्कृतम् ॥ १९ ॥
पादयोः पतितं बालं प्रतिनन्द्य आशिषा-सुरः।
परिष्वज्य चिरं दोर्भ्यां परमाम् आप निर्वृतिम् ॥ २० ॥
आरोप्याङ्कम् अवघ्राय मूर्धनि अश्रु-कलाम् बुभिः।
आसिञ्चन् विकसद् वक्ति-रम् इदम् आह युधिष्ठिर ॥ २१ ॥
हिरण्य-कशिपुः उवाच
प्रह्लादान् ऊच्यतां तात् स्वधीतम् किञ्चित् उत्तमम्।
कालेन एतावताऽऽयुष्मन् यद् अशिक्षद् गुरुर्भवान् ॥ २२ ॥
श्री-प्रह्लाद उवाच
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम्।
अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम् ॥ २३ ॥
इति पुंस् आर्-पिता विष्णौ भक्तिः चेन्नवलक्षणा।
क्रियेत् भगवत्यद्धा तन्मन्येऽधीतम् उत्तमम् ॥ २४ ॥
निशम्य एतत् सुत-वचः हिरण्य-कशिपुः तदा।
गुरु-पुत्रम् उवाच एतं रुषा प्रस्फुरिताधरः ॥ २५ ॥
ब्रह्म-बन्धो किम् एतत् ते विपक्षं श्रयतासता।
असारं ग्राहितः बालो माम् अनादृत्य दुर्मते ॥ २६ ॥
सन्ति हि असाधवो लोके दुर्मैत्रा-श्छद्म-वे षिणः।
तेषाम् उदेत्य घं काले रोगः पातक-नाम् इव ॥ २७ ॥
श्री-गुरु-पुत्र उवाच
न मत् प्रणीतं न पर-प्रणीतं
सुतो वदत्येष तव इन्द्र-शत्रो।
नैसर्गिकीयं मतिरस्य राजन्
नियच्छ मन्युं कददाः स्म मा नः ॥ २८ ॥
श्री-नारद उवाच
गुरुणैवम् प्रति-प्रोक्तो भूय आहासुरः सुतम्।
न चेद् गुरुमुखीयं ते कुतोऽभद्र-आसती मतिः ॥ २९ ॥
श्री-प्रह्लाद उवाच
मतिर्न कृष्णे परतः स्वतो वा
मिथोऽभि-पद्येत् गृह-व्रतानाम्।
अदान्त-गोभिः विशाल-तां तमिस्रं
पुनः पुनः चर-वित-चर-णानाम् ॥ ३० ॥
न ते विदुः स्वार्थ-गतिं हि विष्णुम्
दुराशया ये बहिरर्थ-मानिनः।
अन्धा यथा अन्धैः उप-नीयमाना
वाची-शतन्त्यां उरुदाम्नि बद्धाः ॥ ३१ ॥
नैषां मति-स्तावद् उ-रुक्रमाङ्घ्रिं
स्पृशति अनर्थ-अपगमो यदर्थः।
मही-यसां पाद-रजोऽभिषेकं
निष्-किञ्चनानां न वृणीत यावत् ॥ ३२ ॥
इति उक्त्वोपरतं पुत्रं हिरण्य-कशिपुः रुषा।
अन्धीकृत-आत्मा स्व-उत्सङ्गान् निरस्यत् मही-तले ॥ ३३ ॥
आहा-मर्ष-रुषा-विष्टः कषायी-भूत-लोचनः।
वध्यताम् आश्वयं वध्यः निःसारयत् नैरृताः ॥ ३४ ॥
अयं मे भ्रातृ-हा सोऽयं हित्वा स्वान् सुहृदः अधमः।
पितृ-व्यहन्तुः पादौ यो विष्णोः दासव-दर्शति ॥ ३५ ॥
विष्णोः वा साध्वः सः किं नु करिष्यति असमञ्जसः।
सौहृदं दुस्त्यजं पित्रो-रहाद्यः पञ्च-हायनः ॥ ३६ ॥
परोऽपि अपत्यं हित-कृद् यथौषधं
स्व-देहजोऽप्य अमयवत् सुतोऽहितः।
छिन्द्यात् तद् अंगं यद् उतात्मनोऽहितं
शेषं सुखं जीवति यद् विवर्जनात् ॥ ३७ ॥
सर्वैः उपायैः हन्तव्यः सम् भोज-शयन-आसनैः।
सुहृल्लिङ्ग-धरः शत्रुः मुनेर्दुष्ट-मि वेन्द्रियम् ॥ ३८ ॥
नैरृता स्ते समा-आदिष्टा भर्त्रा वै शूल-पाणयः।
तिग्म-दंष्ट्र-करालास्याः ताम्र-श्मश्रु-शिरो-रुहाः ॥ ३९ ॥
नदन्तो भैरवाः न्नादंश्छिन्धि भिन्धीति वादिनः।
आसीनं चाहनन् शूलैः प्रह्लादं सर्व-अर्मसु ॥ ४० ॥
परे ब्रह्मण्ये निर्देश्ये भगवती अखिल-आत्मनि।
युक्त-आत्मन्य् अफला आसन्न पुण्यस्येव सत्क्रियाः ॥ ४१ ॥
प्रयासेऽप-हते तस्मिन् दैत्येन्द्रः परिशङ्कितः।
चकार तद् वध-उपायान् निर्बन्धेन युधिष्ठिर ॥ ४२ ॥
दिग्गजैः दन्द-शूकेश्च अभिचारा-वपातनैः।
माया-भिः सन्निरोधैः च गर-दानैः अभोजनैः ॥ ४३ ॥
हिम-वा-य्- अग्नि-सलिलैः पर्वत-आक्रमणैः अपि।
न शशाक यदा हन्तुम् अपापम् असुरः सुतम् ॥ ४४ ॥
चिन्तां दीर्घ-तमां प्राप्तः तत् कर्तुं न अभ्यपद्यत।
एष मे बहु-सा धूक् तः वध-उपाया-श्च निर्मिताः।
तैस्तैः द्रोहैः असद्धर्मैः मुक्तः स्वेनैव तेजसा ॥ ४५ ॥
वर्तमानोऽव-िदूरे वै बालः अपि जड-धीरयम्।
न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ॥ ४६ ॥
अप्रमेय अनुभावोऽयम् अकुतः चिद् भयः अमरः।
नूनम् एतद् विरोधेन मृत्युः मे भविता न वा ॥ ४७ ॥
इति तं च चिन्तया किञ्चिन् म्लान-श्रियम् अधो-मुखम्।
शण्डा-मार्क-औशन-सौ विविक्त इति होचतुः ॥ ४८ ॥
जितं त्वया एकेन जगत् त्रयं भ्रुवो
र्विजृम्भण-त्रस्त-समस्त-धिष्ण्यपम्।
न तस्य चिन्त्यं तव नाथ चक्ष्महे
न वै शिशूनां गुण-दोषयोः पदम् ॥ ४९ ॥
इमं तु पाशैः वरुणस्य बद्ध्वा
निधेहि भीतो न पलायते यथा।
बुद्धिश्च पुंसो वयसाऽऽर्य-सेवया
यावद् गुरु-भार्गव आगमिष्यति ॥ ५० ॥
तथेति गुरु-पुत्रोक्तम् अनुज्ञाय एदम् अब्रवीत्।
धर्मः ह्यस्योपदेष्टव्यो राज्ञां यो गृह-मेधिनाम् ॥ ५१ ॥
धर्मम् अर्थं च कामं च नितरां च अनुपूर्वशः।
प्रह्लादाय उचतू राजन् प्रश्रित-वनताय च ॥ ५२ ॥
यथा त्रिवर्गं गुरुभिः आत्मने उप-शिक्षितम्।
न साधु मेने तच्छिक्षां द्वन्द्व-आरा-मो वर्णिताम् ॥ ५३ ॥
यदाऽऽचार्यः परावृत्तो गृह-मेधीय-कर्मसु।
वयस्यैः बालकैः तत्र सोप-हूतः कृत-क्षणैः ॥ ५४ ॥
अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महा-बुधः।
उवाच विद्वांस् तन्निष्ठां कृपया प्रहसन् निव ॥ ५५ ॥
ते तु तद् गौरवात् सर्वे त्यक्त-क्रीडा-परिच्छदाः।
बाला न दूषित-धियो द्वन्द्व-आरा-मे रिते हितैः ॥ ५६ ॥
पर्युपासत राजेन्द्र तन्न्यस्त-हृदये-क्षणाः।
तान् आह करुणो मैत्रो महा-भागवतोऽसुरः ॥ ५७ ॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लादानु-चरिते पञ्चमोऽध्यायः ॥ ५ ॥

No comments:
Post a Comment