Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 4 (ஹிரண்யகசிபு உலகங்களை மிரட்டினான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஹிரண்யகசிபு உலகங்களை மிரட்டினான்

ஸ்கந்தம் 7: அத்யாயம் 4

 

नारद उवाच –
एवं वृतः शत-धृतिः हिरण्यकशिपोः रथ।
प्रादत्तत् तपसा प्रीतो वराँस्तस्य सुदुर्लभान् ॥ १ ॥

ब्रह्मो वाच –
तातः एमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम।
तथापि वितराम्य अंग वरान् यदपि दुर्लभान् ॥ २ ॥

ततो जगाम भगवान् अमोघानुग्रहो विभुः।
पूजितो असुर-वर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥

एवं लब्धवरः दैत्यो बिभ्रद्धेममयं वपुः।
भगवत्य अकरोत् द्वेषं भ्रातुः वधमनुस्मरन् ॥ ४ ॥

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः।
देव- असुर- मनुष्येन्द्रान् गन्धर्व-गरुड-ोरगान् ॥ ५ ॥

सिद्ध-चारण-विद्या-ध्रान् ऋषीन् पितृ-पतीन् मनून्।
यक्ष-रक्षः- पिशाच- ईशान् प्रेत-भूत-पतीनथ ॥ ६ ॥

सर्व-सत्त्व-पतीन् जित्वा वशम् आनिय विश्वजित्।
जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥

देवोद्यान-श्रिया जुष्टं अध्यास्ते स्म त्रिविष्टपम्।
महेन्द्र-भवनं साक्षात् निर्मितं विश्वकर्मणा।
त्रैलोक्य-लक्ष्मी-आयतनम् अध्युवास अखिलर्द्धिमत् ॥ ८ ॥

यत्र विद्रुम-सोपाना महामारकता भुवः।
यत्र स्फाटिक-कुड्यानि वैदूर्य-स्तम्भ-पङ्क्तयः ॥ ९ ॥

यत्र चित्र-वितानानि पद्म-राग- आसनानि च।
पयः-फेन-निभाः शय्या मुक्त-आदाम-परिच्छदाः ॥ १० ॥

कूजद्भिर्नूपुरैः देव्यः शब्दयन्त्य इतस्ततः।
रत्न-स्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥

तस्मिन महेन्द्र-भवने महाबलो
महामना निर्जित-लोक एक-राट्।
रेमे अभिवन्द्याङ्‌घ्रियुगः सुरादिभिः
प्रतापितैः ऊर्जित-चण्ड-शासनः ॥ १२ ॥

तमङ्‌ग मत्तं मधु-नोरु-गन्धिना
विवृत्त-ताम्राक्ष-मशेष-धिष्ण्य-पाः।
उपासतोपायन-पाणिभिर्विना
त्रिभि: तपो-योग-बलौजसां पदम् ॥ १३ ॥

जगुर्महेन्द्र-आसनम् ओजसा स्थितं
विश्व-आवसुः तुंबुरुर अस्मद् आदयः।
गन्धर्व-सिद्धा ऋषयः अस्तुवन् मुहुः
विद्या-धरा अप्सरसः च पाण्डव ॥ १४ ॥

स एव वर्णाश्रमिभिः क्रतुभिर्भूरि-दक्षिणैः।
इज्यमानो हविर्भागान् ग्रहित स्वेन तेजसा ॥ १५ ॥

अकृष्ट-पक्या तस्यासीत् सप्त-द्वीप-वती मही।
तथा काम-दुघा द्यौस्तु नाना-चर्च्य-पदं नभः ॥ १६ ॥

रत्नाकराश्च रत्न-औघाः तत् पत्न्यश्च ओहुरूर्मिभिः।
क्षारसी-धुघृत-क्षौद्र-दधि-क्षीर- अमृत-ओदकाः ॥ १७ ॥

शैला द्रोणी-भिराक्रीडं सर्व-र्तुषु गुणान् द्रुमाः।
दधार लोकपालानामेक एव पृथक् गुणान् ॥ १८ ॥

स इत्थं निर्जित-ककुबे-कराट् विषयान् प्रियान्।
यथोपजोषं भुञ्जानो नातृप्य अदजि- इन्द्रियः ॥ १९ ॥

एवम-ईश्वर्यमत्तस्य दृप्तस्य उच्चास्त्र-वर्तिनः।
कालो महान् व्यतीयाय ब्रह्म-शापम् उपेयुषः ॥ २० ॥

तस्य उग्र-दण्ड-संविग्नाः सर्वे लोकाः सपालकाः।
अन्यत्रा-लब्ध-शरणाः शरणं ययुः अच्युतम् ॥ २१ ॥

तस्यै नमोऽस्तु काष्ठायै यत्र आत्मा हरी-ईश्वरः।
यद् गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥

इति ते संयत-आत्मानः समाहित-धियोऽमलाः।
उपतस्थुः hृषीकेशं विनिद्रा वायु-भोजनाः ॥ २३ ॥

तेषाम् आविरभूद् वाणी अरूपा मेघ-निःस्वना।
सन्नादयन्ती ककुभः साधूनाम् अभयङ्करी ॥ २४ ॥

मा भैष्ट, विबुध-श्रेष्ठाः, सर्वेषां भद्रमस्तु वः।
मद् दर्शनं हि भूतानां सर्व-श्रेय-उपपत्तये ॥ २५ ॥

ज्ञातम् एतस्य दौर्त्यं दैतेय-अपसदस्य च।
तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत ॥ २६ ॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु।
धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥

निर्वैराय प्रशान्ताय स्वसुताय महात्मने।
प्रह्रादाय यदा द्रुह्येत् धनिष्येऽपि वरोर्जितम् ॥ २८ ॥

नारद उवाच –
इति उक्ता लोकगुरुणा तं प्रणम्य दिवौकसः।
न्यवर्तन्त गतो द्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥

तस्य दैत्य-पतेः पुत्रा: चत्वारः परमाद्भुताः।
प्रह्रादोऽभून्महां तेषां गुणैः महद् उपासकः ॥ ३० ॥

ब्रह्मण्यः शील-संपन्नः सत्य-सन्धो जितेन्द्रियः।
आत्मवत् सर्व-भूतानाम् एकः प्रिय-सुहृत्तमः ॥ ३१ ॥

दासवत् सन्न-तार्याङ्‌घ्रिः पितृवद् दीनवत्सलः।
भ्रातृवत् सदृशे स्निग्धो गुरु-श्वीश्वर-भावनः।
विद्यार्थ-रूप-जन्माढ्यो मान-स्तम्भ-विवर्जितः ॥ ३२ ॥

नोद्विग्न-चित्तो व्यसनेषु निःस्पृहः
श्रुतेषु दृष्टेषु गुणेष्व वस्तु-दृक्।
दान्-इन्द्रिय-प्राण-शरीर-धीः सदा
प्रशान्त-कामो रहितः असुरोऽसुरः ॥ ३३ ॥

यस्मिन् महद् गुणा राजन् गृह्यन्ते कविभिः मुहुः।
न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥

यं साधु-गाथा सदसि रिपवोऽपि सुरा नृप।
प्रतिमानं प्रकुर्वन्ति किमुत् अन्ये भवादृशाः ॥ ३५ ॥

गुणैः अलम-संख्येयैः माहात्म्यं तस्य सूच्यते।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥

न्यस्त-क्रीडनको बालो जडवत्तन् मनस्तया।
कृष्ण-ग्रह-गृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥

आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन्।
न अनु-सन्धत्त एतानि गोविन्द-परिरम्भितः ॥ ३८ ॥

क्वचिद् रुदति वैकुण्ठ-चिन्ता-शबल-चेतनः।
क्वचिद् धसति तच्चिन्ता-ह्लाद उद्गायति क्वचित् ॥ ३९ ॥

नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित्।
क्वचित् तद् भावना-युक्तः तन्मयोऽनुचकार ह ॥ ४० ॥

क्वचित्-उत्पुलकः तूष्णीमा-अस्ते संस्पर्शन-निर्वृतः।
अ-स्पन्द-प्रणय-आनन्द-सलिला-मीलितेक्षणः ॥ ४१ ॥

सः उत्तम-श्लोक-पदा-रविन्दयोः
निःसेवयाकिञ्चन-सङ्‌गलब्धया।
तन्वन् पराम् निर्वृतिं आत्मनो मुहुः
दुः-सङ्ग-दीनान् अन्यमनः शमम् व्यधात् ॥ ४२ ॥

तस्मिन् महा-भागवते महा-भागे महा-आत्मनि।
हिरण्य-कशिपू राजन् अक-रोऽध्मात्मजे ॥ ४३ ॥

युधिष्ठिर उवाच -
देवर्ष एतद् इच्छामो वेदितुं तव सुव्रत।
यद् आत्मजाय शुद्धाय पितृ-आदात् साधवे ह्यघम् ॥ ४४ ॥

पुत्रान् विप्रति-कूलान् स्वान् पितरः पुत्र-वात्सलाः।
उप-आलभन्ते शिक्षा-अर्थं नैवाघम् अपरो यथा ॥ ४५ ॥

किम्-उत् अनु-वशान् साधून् तादृशान् गुरु-देवतान्।
एतत् कौतूहलं ब्रह्मन् नः स्माकं विधम् प्रभो।
पितुः पुत्राय यत् द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥

|| इति श्री-मद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लाद-चरिते चतुर्थोऽध्यायः ॥ ४ ॥

No comments: