Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 6 (தக்ஷன் மகள்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தக்ஷன் மகள்கள்

ஸ்கந்தம் 6: அத்யாயம் 6

 

श्री-शुक उवाच
ततः प्राचेतसः असिक्न्याम् अनुनीतः स्वयम्भुवा।
षष्टिं सञ्जनयामास दुहितृः पितृवत्सलाः ॥ १ ॥

दश धर्माय कायेन्दोः द्विषट् त्रिणव दत्तवान्।
भूताङ्गिरः कृशाश्वेभ्यः द्वे द्वे तार्क्ष्याय च अपराः ॥ २ ॥

नाम-धेन्य-अन्यं मूषां त्वं सापत्यानां च मे शृणु।
यासां प्रसूति-प्रसवैर्लोका आपूरितास्त्रयः ॥ ३ ॥

भानुः लम्बा ककुब्जा अमिः विश्वा साध्या मरुत्वती।
वसुः मुहूर्ता सङ्कल्पा धर्म-पत्न्यः सुताञ् शृणु ॥ ४ ॥

भानुः स्तु देव-ऋषभः इन्द्रसेनस्ततो नृप।
विद्योत् आसील्लम्बायास्ततः च स्तनयित्नवः ॥ ५ ॥

ककुभः सङ्कटस्तस्य कीकटस्तनयो यतः।
भुवो दुर्गाणि जामेयः स्वर्गः नन्दि स्ततोऽभवत् ॥ ६ ॥

विश्वेदेवा स्तु विश्वाया अप्रजां स्तान् प्रचक्षते।
साध्यो गणश्च साध्याया अर्थसिद्धिः स्तु तत् सुतः ॥ ७ ॥

मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः।
जयन्तो वासुदेवांश् उपेन्द्र इति यं विदुः ॥ ८ ॥

मौहूर्तिका देवगणा मुहूर्तायाः च जज्ञिरे।
ये वै फलं प्रयच्छन्ति भूतानां स्वस्व-कालजम् ॥ ९ ॥

सङ्कल्पायाः च सङ्कल्पः कामः सङ्कल्पजः स्मृतः।
वसवः अष्टौ वसोः पुत्राः तेषां नामानि मे शृणु ॥ १० ॥

द्रोणः प्राणो ध्रुवोऽर्कः अग्निः दोषो वासुः विभावसुः।
द्रोणस्याभिमतेः पत्न्या हर्ष-शोक-भयादयः ॥ ११ ॥

प्राणस्य ओर्जस्वती भार्या सह आयुः पुरोजवः।
ध्रुवस्य भार्या धरणिः सूत विविधाः पुरः ॥ १२ ॥

अर्कस्य वासना भार्या पुत्रा तर्षादयः स्मृताः।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ १३ ॥

स्कन्दश्च कृत्तिकापुत्रः ये विशाखादयस्ततः।
दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ १४ ॥

वसोराङ्गिरसी पुत्रः विश्वकर्मा कृतीपतिः।
ततः मनुः चाक्षुषः अभूद् विश्वे साध्या मनोः सुताः ॥ १५ ॥

विभावसोरसूतोषाः व्युष्टं रोचिषमातपम्।
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥

सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ १७ ॥

अजैकपादहिर्बुध्न्यो बहुरूपो महानिति।
रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः ॥ १८ ॥

प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे च अकुर्वत् सती ॥ १९ ॥

कृशाश्वोऽर्चिषि भार्यायां धूमकेशमजीजनत्।
धिषणायां वेद-शिरो देवलं वयुनं मनुम् ॥ २० ॥

तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च।
पतङ्ग्यसूतः पतगान् यामिनी शलभानथ ॥ २१ ॥

सुपर्णासूतः गरुडं साक्षात् यज्ञेश-वाहनम्।
सूर्यसूतः मनूर् च कद्रूः नागान् अनेकशः ॥ २२ ॥

कृत्तिकादीनि नक्षत्राणि इन्दोः पत्न्यस्तु भारत।
दक्ष-शापात् सोऽनपत्यः तासु यक्ष्म-ग्र-हार्दितः ॥ २३ ॥

पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः।
शृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥

अथ कश्यप-पत्नीनां यत् प्रसूतम् इदं जगत्।
अदितिः दितिः दनुः काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥

मुनिः क्रोध-वशा ताम्रा सुरभिः सरमा तिमिः।
तिमेर् यादो गणा आसन् श्वापदा सरमा-सुताः ॥ २६ ॥

सुरभेः महिषा-गावो ये चान्ये द्विशफा नृप।
ताम्रायाः श्येन-गृध्राद्या मुनेर् अप्सरसां गणाः ॥ २७ ॥

दन्द-शूका-ादयः सर्पाः राजन् क्रोध-वशा-आत्मजाः।
इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ २८ ॥

अरिष्टायाः च गन्धर्वाः काष्ठाया द्विशफे-तराः।
सुताः दनोरेकषष्टि तेषां प्राधानिकाञ् शृणु ॥ २९ ॥

द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः।
अयोमुखः शङ्कु-शिराः स्व-भानुः कपिलोऽरुणः ॥ ३० ॥

पुलोमा वृष-पर्वा च एकचक्रोऽनुतापनः।
धूम्रकेशः विरूपाक्षः विप्रचित्तिश्च दुर्जयः ॥ ३१ ॥

स्व-भानोः सुप्रभां कन्यां उवाह नमुचिः किल।
वृष-पर्वणः तु शर्मिष्ठां ययातिः नाहुषो बली ॥ ३२ ॥

वैश्वानर-सुता याश्च चतस्रश्च अरुदर्शनाः।
उपदानवी हय-शिरा पुलोमा कालका तथा ॥ ३३ ॥

उपदानवीं हिरण्याक्षः क्रतुर्हय-शिरां नृप।
पुलोमां कालकां च द्वे वैश्वानर-सुते तु कः ॥ ३४ ॥

उपयेमेऽथ भगवान् कश्यपो ब्रह्म-चोदितः।
पौलोमाः काल-केयाश्च दानवाः युद्ध-शालिनः ॥ ३५ ॥

तयोः षष्टि सहस्राणि यज्ञ-घ्नास्ते पितुः पिता।
जघान स्वर्गतः राजन् एक इन्द्र-प्रियङ्करः ॥ ३६ ॥

विप्रचित्तिः सिंहिकायां शतं चैकं अजीजनत्।
राहु-ज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥ ३७ ॥

अथातः श्रूयतां वंशो योऽदितेर् अनुपूर्वशः।
यत्र नारायणो देवः स्वांशेन आवातरद् विभुः ॥ ३८ ॥

विवस्वान् र्यमा पूषा त्वष्टा अथ सविता भगः।
धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥ ३९ ॥

विवस्वतः श्राद्ध-देवं संज्ञा सूयत् वै मनुम्।
मिथुनं च महाभागा यमं देवं यमीं तथा।
सैव भूत्वा थ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥

श्री-शुक उवाच
छाया शनैःश्चरं लेभे सावर्णिं च मनुं ततः।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥

अर्यम्णः मातृका पत्नी तयोः चर्षणयः सुताः।
यत्र वै मानुषी जातिः ब्रह्मणा च उपकल्पिता ॥ ४२ ॥

पूषान्-पत्यः पिष्टादः भग्न-दन्तः अभवत् पुरा।
योऽसौ दक्षाय कुपितः जहास विवृत-द्विजः ॥ ४३ ॥

त्वष्टुः दैत्यानुजा भार्या रचना नाम कन्यका।
सन्निवेशस्तयोः जज्ञे विश्वरूपः च वीर्यवान् ॥ ४४ ॥

तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि।
विमतेन परित्यक्ता गुरुणाऽऽङ्गिरसेन यत् ॥ ४५ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे षष्ठोऽध्यायः ॥ ६ ॥

No comments: