Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 8 - புஷ்பக விமானத்தின் அழகை மேலும் ஆராய்ந்து ரசிக்கிறார்.

HOME          PREVIOUS               NEXT

सः तस्य मध्ये भवनस्य संस्थितं महत् विमानं मणि-वज्र-चित्रितम् ।
प्रतप्त-जाम्बूनद-जाल-कृत्रिमं ददर्श वीरः पवन-आत्मजः कपिः ॥ 1 ॥

तत् अप्रमेय-अप्रतिकार-कृत्रिमं कृतं स्वयं साधु इति विश्वकर्मणा ।
दिवं गतं वायु-पथ-प्रतिष्ठितं व्यराजत आदित्य-पथस्य लक्ष्मवत् ॥ 2 ॥

न तत्र किञ्चित् न कृतं प्रयत्नतः न तत्र किञ्चित् न महा-अर्ह-रत्नवत् ।
न ते विशेषाः नियताः सुरेषु अपि न तत्र किञ्चित् न महा-विशेषवत् ॥ 3 ॥

तपः-समाधान-पराक्रम-अर्जितं मनः-समाधान-विचार-चारिणम् ।
अनेक-संस्थान-विशेष-निर्मितं ततः ततः तुल्य-विशेष-दर्शनम् ॥ 4 ॥

विशेषम् आलम्ब्य विशेष-संस्थितं विचित्र-कूटं बहु-कूट-मण्डितम् ।
मनः-अभिरामं शरत्-इन्दु-निर्मलं विचित्र-कूटं शिखरं गिरेः यथा ॥ 5 ॥

वहन्ति यं कुण्डल-शोभित-आननाः महा-अशनाः व्योम-चराः निशा-चराः ।
विवृत्त-विध्वस्त-विशाल-लोचनाः महा-जवाः भूत-गणाः सहस्रशः ॥ 6 ॥

वसन्त-पुष्प-उत्कर-चारु-दर्शनं वसन्तम् आसाद्य अपि कान्त-दर्शनम् ।
सः पुष्पकं तत्र विमानम् उत्तमं ददर्श तत् वानर-वीर-सत्तमः ॥ 7 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे अष्टमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: