Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 52 - அனுமனை கொல்ல வேண்டாம் என்று விபீஷணன் அறிவுறுத்துகிறார்.

HOME          PREVIOUS               NEXT

तस्य तत् वचनं श्रुत्वा वानरस्य महा-आत्मनः ।
आज्ञापयत् वधं तस्य रावणः क्रोध-मूर्छितः ॥ 1 ॥

वधे तस्य सम्-आज्ञप्ते रावणेन दुर्-आत्मना ।
निवेदितवतः दौत्यं न अनुमेने विभीषणः ॥ 2 ॥

तं रक्षः-अधिपतिं क्रुद्धं तत् च कार्यम् उपस्थितम् ।
विदित्वा चिन्तयामास कार्यं कार्य-विधौ स्थितः ॥ 3 ॥

निश्चित-अर्थः ततः साम्ना पूज्यं शत्रु-जित्-अग्रजम् ।
उवाच हितम् अत्यर्थं वाक्यं वाक्य-विशारदः ॥ 4 ॥

क्षमस्व रोषं त्यज राक्षस-इन्द्र प्रसीद मत्-वाक्यम् इदं शृणुष्व ।
वधं न कुर्वन्ति पर-अवर-ज्ञाः दूतस्य सन्तः वसुधा-अधिप-इन्द्राः ॥ 5 ॥

राज-धर्म-विरुद्धं च लोक-वृत्तेः च गर्हितम् ।
तव च असदृशं वीर कपेः अस्य प्रमापणम् ॥ 6 ॥

धर्म-ज्ञः च कृत-ज्ञः च राज-धर्म-विशारदः ।
पर-अवर-ज्ञः भूतानां त्वम् एव परमार्थ-वित् ॥ 7 ॥

गृह्यन्ते यदि रोषेण त्वादृशः अपि विचक्षणः ।
ततः शास्त्र-विपश्चित्-त्वं श्रमः एव हि केवलम् ॥ 8 ॥

तस्मात् प्रसीद शत्रु-घ्न राक्षस-इन्द्र दुरासद ।
युक्त-अयुक्तं विनिश्चित्य दूत-दण्डः विधीयताम् ॥ 9 ॥

विभीषण-वचः श्रुत्वा रावणः राक्षस-ईश्वरः ।
रोषेण महता आविष्टः वाक्यम् उत्तरम् अब्रवीत् ॥ 10 ॥

न पापानां वधे पापं विद्यते शत्रु-सूदन ।
तस्मात् एनं वधिष्यामि वानरं पाप-चारिणम् ॥ 11 ॥

अधर्म-मूलं बहु-दोष-युक्तम् अनार्य-जुष्टं वचनं निशम्य ।
उवाच वाक्यं परमार्थ-तत्त्वं विभीषणः बुद्धिमतां वरिष्ठः ॥ 12 ॥

प्रसीद लङ्का-ईश्वर राक्षस-इन्द्र धर्म-अर्थ-युक्तं वचनं शृणुष्व ।
दूतान् अवधान् समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ॥ 13 ॥

असंशयं शत्रुः अयं प्रवृद्धः कृतं हि अनेन अप्रियम् अप्रमेयम् ।
न दूत-वध्याम् प्रवदन्ति सन्तः दूतस्य दृष्टाः बहवः हि दण्डाः ॥ 14 ॥

वैरूप्यम् अङ्गेषु कशा-अभिघातः मौण्ड्यं तथा लक्षण-सन्निपातः ।
एतान् हि दूते प्रवदन्ति दण्डान् वधः तु दूतस्य न नः श्रुतः अस्ति ॥ 15 ॥

कथं च धर्म-अर्थ-विनीत-बुद्धिः पर-अवर-प्रत्यय-निश्चित-अर्थः ।
भवत्-विधः कोप-वशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्व-वतः ॥ 16 ॥

न धर्म-वादे न च लोक-वृत्ते न शास्त्र-बुद्धि-ग्रहणेषु च अपि ।
विद्येत कश्चित् तव वीर तुल्यः त्वं हि उत्तमः सर्व-सुर-असुराणाम् ॥ 17 ॥

शूरेण वीरेण निशाचर-इन्द्र सुर-असुराणाम् अपि दुर्जयेन ।
त्वया प्रगल्भाः सुर-दैत्य-सङ्घाः जिताः च युद्धेषु असकृत् नर-इन्द्राः ॥ 18 ॥

न च अपि अस्य कपेः घाते कञ्चित् पश्यामि अहं गुणम् ।
तेषु अयं पात्यतां दण्डः यैः अयं प्रेषितः कपिः ॥ 19 ॥

साधुः वा यदि वा असाधुः परैः एषः समर्पितः ।
ब्रुवन् पर-अर्थं पर-वशः न दूतः वधम् अर्हति ॥ 20 ॥

अपि च अस्मिन् हते राजन् न अन्यं पश्यामि खे-चरम् ।
इह यः पुनः आगच्छेत् परं पारं महा-उदधेः ॥ 21 ॥

तस्मात् न अस्य वधे यत्नः कार्यः पर-पुरं-जय ।
भवान् स-इन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति ॥ 22 ॥

अस्मिन् विनष्टे न हि वीरम् अन्यं पश्यामि यः तौ वर-राज-पुत्रौ ।
युद्धाय युद्ध-प्रिय-दुर्विनीतौ उद्योजयेत् दीर्घ-पथ-अवरुद्धौ ॥ 23 ॥

पराक्रम-उत्साह-मनस्विनां च सुर-असुराणाम् अपि दुर्जयेन ।
त्वया मनः-नन्दन न एतानां युद्ध-आयतिः नाशयितुं न युक्ता ॥ 24 ॥

हिताः च शूराः च समाहिताः च कुलेषु जाताः च महा-गुणेषु ।
मनस्विनः शस्त्र-भृतां वरिष्ठाः कोटि-अग्रतः ते सु-भृताः च योधाः ॥ 25 ॥

तत् एक-देशेन बलस्य तावत् केचित् तव आदेश-कृतः अभियांतु ।
तौ राज-पुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥ 26 ॥

निशाचराणाम् अधिपः अनुजस्य विभीषणस्य उत्तम-वाक्यम् इष्टम् ।
जग्राह बुद्ध्या सुर-लोक-शत्रुः महा-बलः राक्षस-राज-मुख्यः ॥ 27 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे द्वि-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: