Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 33 - "நீங்கள்தான் சீதையா?" என்று அனுமன் கேட்கிறார்; சீதை தன் வரலாற்றைக் கூறுகிறாள்.

HOME          PREVIOUS               NEXT

सः अवतीर्य द्रुमात् तस्मात् विद्रुम-प्रतिम-आननः ।
विनीत-वेषः कृपणः प्रणिपत्य उपसृत्य च ॥ 1 ॥

ताम् अब्रवीत् महा-तेजाः हनूमान् मारुत-आत्मजः ।
शिरसि अञ्जलिम् आधाय सीतां मधुरया गिरा ॥ 2 ॥

का नु पद्म-पलाश-अक्षि क्लिष्ट-कौशेय-वासिनि ।
द्रुमस्य शाखाम् आलम्ब्य तिष्ठसि त्वम् अनिन्दिते ॥ 3 ॥

किम्-अर्थं तव नेत्राभ्यां वारि स्रवति शोक-जम् ।
पुण्डरीक-पलाशाभ्यां विप्रकीर्णम् इव उदकम् ॥ 4 ॥

सुराणाम् असुराणां वा नाग-गन्धर्व-रक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ 5 ॥

का त्वं भवसि रुद्राणां मरुतां वा वर-आनने ।
वसूनां हि वर-आरोहे देवता प्रतिभासि मे ॥ 6 ॥

किम् नु चन्द्रमसा हीना पतिता विबुध-आलयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठ-सर्व-गुण-अन्विता ॥ 7 ॥

का त्वं भवसि कल्याणि त्वम् अनिन्दित-लोचने ।
कोपात् वा यदि वा मोहात् भर्तारम् असित-ईक्षणे ॥ 8 ॥

वसिष्ठं कोपयित्वा त्वं न असि कल्याणि अरुन्धती ।
कः नु पुत्रः पिता भ्राता भर्ता वा ते सु-मध्यमे ॥ 9 ॥

अस्मात् लोकात् अमुं लोकं गतं त्वम् अनुशोचसि ।
रोदनात् अति-निःश्वासात् भूमि-संस्पर्शनात् अपि ॥ 10 ॥

न त्वां देवीम् अहं मन्ये राज्ञः सर्वज्ञ-अवधारणात् ।
व्यञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ 11 ॥

महिषी भूमि-पालस्य राज-कन्या च मे मता ।
रावणेन जनस्थानात् बलात् अपहृता यदि ॥ 12 ॥

सीता त्वम् असि भद्रं ते तत् मम आचक्ष्व पृच्छतः ।
यथा हि तव वै दैन्यं रूपं च अपि अति-मानुषम् ॥ 13 ॥

तपसा च अन्वितः वेषः त्वं राम-महिषी ध्रुवम् ।
सा तस्य वचनं श्रुत्वा राम-कीर्तन-हर्षिता ॥ 14 ॥

उवाच वाक्यं वैदेही हनुमन्तं द्रुम-आश्रितम् ।
पृथिव्यां राज-सिंहानां मुख्यस्य विदित-आत्मनः ॥ 15 ॥

स्नुषा दशरथस्य अहं शत्रु-सैन्य-प्रतापिनः ।
दुहिता जनकस्य अहं वैदेहस्य महा-आत्मनः ॥ 16 ॥

सीता इति नाम नाम्ना अहं भार्या रामस्य धीमतः ।
समाः द्वादश तत्र अहं राघवस्य निवेशने ॥ 17 ॥

भुञ्जाना मानुषान् भोगान् सर्व-काम-समृद्धिनी ।
तत्र त्रयो-दशे वर्षे राज्येन इक्ष्वाकु-नन्दनम् ॥ 18 ॥

अभिषेचयितुं राजा स-उपाध्यायः प्रचक्रमे ।
तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ॥ 19 ॥

कैकयी नाम भर्तारं देवी वचनम् अब्रवीत् ।
न पिबेयं न खादेयं प्रति-अहं मम भोजनम् ॥ 20 ॥

समा द्वादश तत्र अहं राघवस्य निवेशने ॥ 17 ॥

भुञ्जाना मानुषान् भोगान् सर्व-काम-समृद्धिनी ।
तत्र त्रयोदशे वर्षे राज्येन इक्ष्वाकु-नन्दनम् ॥ 18 ॥

अभिषेचयितुं राजा स-उपाध्यायः प्रचक्रमे ।
तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ॥ 19 ॥

कैकयी नाम भर्तारं देवी वचनम् अब्रवीत् ।
न पिबेयं न खादेयं प्रति-अहं मम भोजनम् ॥ 20 ॥

एषः मे जीवितस्य अन्तः रामः यदि अभिषिच्यते ।
यत् तत् उक्तं त्वया वाक्यं प्रीत्या नृपति-सत्तम ॥ 21 ॥

तत् चेत् न वितथं कार्यं वनं गच्छतु राघवः ।
सः राजा सत्य-वाक् देव्याः वर-दानम् अनुस्मरन् ॥ 22 ॥

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरम् अप्रियम् ।
ततः तु स्थविरः राजा सत्ये धर्मे व्यवस्थितः ॥ 23 ॥

ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यम् अयाचत ।
सः पितुः वचनं श्रीमान् अभिषेकात् परं प्रियम् ॥ 24 ॥

मनसा पूर्वम् आसाद्य वाचा प्रतिगृहीतवान् ।
दद्यात् न प्रतिगृह्णीयात् न ब्रूयात् किञ्चित् अप्रियम् ॥ 25 ॥

अपि जीवित-हेतोः वा रामः सत्य-पराक्रमः ।
सः विहाय उत्तरीयाणि महा-अर्हाणि महा-यशाः ॥ 26 ॥

विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।
सा अहं तस्य अग्रतः तूर्णं प्रस्थिता वन-चारिणी ॥ 27 ॥

न हि मे तेन हीनायाः वासः स्वर्गे अपि रोचते ।
प्राक् एव तु महा-भागः सौमित्रिः मित्र-नन्दनः ॥ 28 ॥

पूर्वजस्य अनुयात्र-अर्थे द्रुम-चीरैः अलंकृतः ।
ते वयं भर्तुः आदेशं बहु-मान्य दृढ-व्रताः ॥ 29 ॥

प्रविष्टाः स्म पुरा अदृष्टं वनं गम्भीर-दर्शनम् ।
वसतः दण्डक-अरण्ये तस्य अहम् अमित-ओजसः ॥ 30 ॥

रक्षसा अपहृता भार्या रावणेन दुरात्मना ।
द्वौ मासौ तेन मे कालः जीवित-अनुग्रहः कृतः ॥ 31 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे त्रयः-त्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: