सः निर्जित्य पुरीं श्रेष्ठां लङ्कां तां काम-रूपिणीम् ।
विक्रमेण महा-तेजाः हनुमान् कपि-सत्तमः ॥ 1 ॥
अद्वारेण च महा-बाहुः प्राकारम् अभिपुप्लुवे ।
प्रविश्य नगरीं लङ्कां कपि-राज-हितङ्करः ॥ 2 ॥
चक्रे अथ पादं सव्यं च शत्रूणां सः तु मूर्धनि ।
प्रविष्टः सत्त्व-सम्पन्नः निशायां मारुत-आत्मजः ॥ 3 ॥
सः महा-पथम् आस्थाय मुक्ता-पुष्प-विराजितम् ।
ततः तु तां पुरीं लङ्कां रम्याम् अभिययौ कपिः ॥ 4 ॥
हसित-उत्कृष्ट-निनदैः तूर्य-घोष-पुरःसरैः ।
वज्र-अङ्कुश-निकाशैः च वज्र-जाल-विभूषितैः ॥ 5 ॥
गृह-मेघैः पुरी रम्या बभासे द्यौः इव अम्बुदैः ।
प्रजज्वाल ततः लङ्का रक्षः-गण-गृहैः शुभैः ॥ 6 ॥
सित-अभ्र-सदृशैः चित्रैः पद्म-स्वस्तिक-संस्थितैः ।
वर्धमान-गृहैः च अपि सर्वतः सु-विभूषिता ॥ 7 ॥
तां चित्र-माल्य-आभरणां कपि-राज-हितङ्करः ।
राघव-अर्थं चरन् श्रीमान् ददर्श च ननन्द च ॥ 8 ॥
भवनात् भवनं गच्छन् ददर्श पवन-आत्मजः ।
विविध-आकृति-रूपाणि भवनानि ततः ततः ॥ 9 ॥
शुश्राव मधुरं गीतं त्रि-स्थान-स्वर-भूषितम् ।
स्त्रीणां मद-समृद्धानां दिवि च अप्सरसाम् इव ॥ 10 ॥
शुश्राव काञ्ची-निनदं नूपुराणां च निःस्वनम् ।
सोपान-निनदान् च एव भवनेषु महा-आत्मनाम् ॥ 11 ॥
अस्फोटित-निनदान् च क्ष्वेलितान् च ततः ततः ।
शुश्राव जपतां तत्र मन्त्रान् रक्षः-गृहेषु वै ॥ 12 ॥
स्वाध्याय-निरतान् च एव यातुधानान् ददर्श सः ।
रावण-स्तव-संयुक्तान् गर्जतः राक्षसान् अपि ॥ 13 ॥
राज-मार्गं समावृत्य स्थितं रक्षः-बलं महत् ।
ददर्श मध्ये गुल्मे रावणस्य चरान् बहून् ॥ 14 ॥
दीक्षितान् जटिलान् मुण्डान् गो-अजिन-अम्बर-वाससः ।
दर्भ-मुष्टि-प्रहरणान् अग्नि-कुण्ड-आयुधान् तथा ॥ 15 ॥
कूट-मुद्गर-पाणीन् च दण्ड-आयुध-धरान् अपि ।
एक-अक्षान् अनेक-कर्णान् च लम्ब-उदर-पयोधरान् ॥ 16 ॥
करालान् भुग्न-वक्त्रान् च विकटान् वामनान् तथा ।
धन्विनः खङ्गिनः च एव शतघ्नी-मुसल-आयुधान् ॥ 17 ॥
परिघ-उत्तम-हस्तान् च विचित्र-कवच-उज्ज्वलान् ।
न अति-स्थूलान् न अति-कृशान् न अति-दीर्घ-अति-ह्रस्वकान् ॥ 18 ॥
न अति-गौरान् न अति-कृष्णान् न अति-कुब्जान् न वामनान् ।
विरूपान् बहु-रूपान् च सु-रूपान् च सु-वर्चसः ॥ 19 ॥
ध्वजीन् पताकिनः च एव ददर्श विविध-आयुधान् ।
शक्ति-वृक्ष-आयुधान् च एव पट्टिस-अशनि-धारिणः ॥ 20 ॥
क्षेपणी-पाश-हस्तान् च ददर्श सः महा-कपिः ।
स्रग्विणः तु अनुलिप्तान् च वर-आभरण-भूषितान् ॥ 21 ॥
नाना-वेष-समायुक्तान् यथा-स्वैर-गतान् बहून् ।
तीक्ष्ण-शूल-धरान् च एव वज्रिणः च महा-बलान् ॥ 22 ॥
शत-साहस्रम् अव्यग्रम् आरक्षं मध्यमं कपिः ।
रक्षः-अधिपति-निर्दिष्टं ददर्श अन्तःपुर-अग्रतः ॥ 23 ॥
सः तदा तत् गृहं दृष्ट्वा महा-हाटक-तोरणम् ।
राक्षस-इन्द्रस्य विख्यातम् अद्रि-मूर्ध्नि प्रतिष्ठितम् ॥ 24 ॥
पुण्डरीक-अवतंसाभिः परिखाभिः अलङ्कृतम् ।
प्राकार-आवृतम् अत्यन्तं ददर्श सः महा-कपिः ॥ 25 ॥
त्रिविष्टप-निभं दिव्यं दिव्य-नाद-निनादितम् ।
वाजि-हेषित-सङ्घुष्टं नादितं भूषणैः तथा ॥ 26 ॥
रथैः यानैः विमानैः च तथा हय-गजैः शुभैः ।
वारणैः च चतुर्दन्तैः श्वेत-अभ्र-निचय-उपमैः ॥ 27 ॥
भूषितं रुचिर-द्वारं मत्तैः च मृग-पक्षिभिः ।
रक्षितं सु-महा-वीर्यैः यातुधानैः सहस्रशः ।
राक्षस-अधिपतेः गुप्तम् आविवेश महा-कपिः ॥ 28 ॥
स-हेम-जाम्बूनद-चक्रवालं महा-अर्ह-मुक्ता-मणि-भूषित-अन्तम् ।
पर-अर्थ्य-काल-अगुरु-चन्दन-आक्तं सः रावण-अन्तःपुरम् आविवेश ॥ 29 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चतुर्थः सर्गः ॥

No comments:
Post a Comment