Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 49 - இராவணனின் கம்பீரமான தோற்றத்தைக் கண்டு அனுமன் வியக்கிறார்.

HOME          PREVIOUS               NEXT

ततः स कर्मणा तस्य विस्मितः भीम-विक्रमः ।
हनुमान् रोष-ताम्र-अक्षः रक्षः-अधिपम् अवैक्षत् ॥ 1 ॥

भ्राजमानं महा-अर्हेण काञ्चनेन विराजता ।
मुक्ता-जाल-आवृतेन अथ मुकुटेन महा-द्युतिम् ॥ 2 ॥

वज्र-संयोग-संयुक्तैः महा-अर्ह-मणि-विग्रहैः ।
हैमैः आभरणैः चित्रैः मनसा इव प्रकल्पितैः ॥ 3 ॥

महा-अर्ह-क्षौम-संवीतं रक्त-चन्दन-रूषितम् ।
सु-अनुलिप्तं विचित्राभिः विविधाभिः च भक्तिभिः ॥ 4 ॥

विचित्रैः दर्शनीयैः च रक्त-अक्षैः भीम-दर्शनैः ।
दीप्त-तीक्ष्ण-महा-दंष्ट्रैः प्रलम्ब-दशन-च्छदैः ॥ 5 ॥

शिरोभिः दशभिः वीरं भ्राजमानं महा-ओजसम् ।
नाना-व्याल-समाकीर्णैः शिखरैः इव मन्दरम् ॥ 6 ॥

नील-अञ्जन-चय-प्रख्यं हारेण उरसि राजता ।
पूर्ण-चन्द्र-अभ-वक्त्रेण स-बलाकम् इव अम्बुदम् ॥ 7 ॥

बाहुभिः बद्ध-केयूरैः चन्दन-उत्तम-रूषितैः ।
भ्राजमान-अङ्गदैः पीनैः पञ्च-शीर्षैः इव उरगैः ॥ 8 ॥

महति स्फाटिके चित्रे रत्न-संयोग-संस्कृते ।
उत्तम-आस्तरण-आस्तीर्णे सु-उपविष्टं वर-आसने ॥ 9 ॥

अलङ्कृताभिः अत्यर्थं प्रमदाभिः समन्ततः ।
वाल-व्यजन-हस्ताभिः आरात् समुपसेवितम् ॥ 10 ॥

दुर्धरेण प्रहस्तेन महा-पार्श्वेन रक्षसा ।
मन्त्रिभिः मन्त्र-तत्त्व-ज्ञैः निकुम्भेन च मन्त्रिणा ॥ 11 ॥

सुख-उपविष्टं रक्षोभिः चतुर्भिः बल-दर्पितैः ।
कृत्स्नं परिवृतं लोकं चतुर्भिः इव सागरैः ॥ 12 ॥

मन्त्रिभिः मन्त्र-तत्त्व-ज्ञैः अन्यैः च शुभ-बुद्धिभिः ।
अन्वास्यमानं रक्षोभिः सुरैः इव सुर-ईश्वरम् ॥ 13 ॥

अपश्यत् राक्षस-पतिं हनुमान् अति-तेजसम् ।
विष्ठितं मेरु-शिखरे स-तोयम् इव तोयदम् ॥ 14 ॥

सः तैः संपीड्यमानः अपि रक्षोभिः भीम-विक्रमैः ।
विस्मयं परमं गत्वा रक्षः-अधिपम् अवैक्षत ॥ 15 ॥

भ्राजमानं ततः दृष्ट्वा हनुमान् राक्षस-ईश्वरम् ।
मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ 16 ॥

अहो रूपम् अहो धैर्यम् अहो सत्त्वम् अहो द्युतिः ।
अहो राक्षस-राजस्य सर्व-लक्षण-युक्तता ॥ 17 ॥

यदि अधर्मः न बलवान् स्यात् अयं राक्षस-ईश्वरः ।
स्यात् अयं सुर-लोकस्य स-शक्रस्य अपि रक्षिता ॥ 18 ॥

अस्य क्रूरैः नृशंसैः च कर्मभिः लोक-कुत्सितैः ।
सर्वे बिभ्यति खलु अस्मात् लोकाः स-अमर-दानवाः ॥ 19 ॥

अयं हि उत्सहते क्रुद्धः कर्तुम् एक-अर्णवं जगत् ।
इति चिन्तां बहु-विधाम् अकरोत् मति-मान् हरिः ॥ 20 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एकोन-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: