अथ तासाम् वदन्तीनाम् परुषम् दारुणम् बहु ।
राक्षसीनाम् असौम्यानाम् रुरोद जनक-आत्मजा ॥ 1 ॥
एवम् उक्ता तु वैदेही राक्षसीभिः मनस्विनी ।
उवाच परम-त्रस्ता बाष्प-गद्गदया गिरा ॥ 2 ॥
न मानुषी राक्षसस्य भार्या भवितुम् अर्हति ।
कामम् खादत माम् सर्वाः न करिष्यामि वः वचः ॥ 3 ॥
सा राक्षसी-मध्य-गता सीता सुर-सुता-उपमा ।
न शर्म लेभे दुःख-आर्ता रावणेन च तर्जिता ॥ 4 ॥
वेपते स्म अधिकम् सीता विशन्ती वाङ्गम् आत्मनः ।
वने यूथ-परिभ्रष्टा मृगी कोकैः इव अर्दिता ॥ 5 ॥
सा तु अशोकस्य विपुलाम् शाखाम् आलम्ब्य पुष्पिताम् ।
चिन्तयामास शोकेन भर्तारम् भग्न-मानसा ॥ 6 ॥
सा स्नापयन्ती विपुलौ स्तनौ नेत्र-जल-स्रवैः ।
चिन्तयन्ती न शोकस्य तत् अन्तम् अधिगच्छति ॥ 7 ॥
सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनाम् भय-त्रस्ता विवर्ण-वदना अभवत् ॥ 8 ॥
तस्याः सा दीर्घ-विपुला वेपन्त्याः सीतायाः तदा ।
ददृशे कम्पिनी वेणी व्याली इव परिसर्पती ॥ 9 ॥
सा निःश्वसन्ती दुःख-आर्ता शोक-उपहत-चेतना ।
आर्ता व्यसृजत् अश्रूणि मैथिली विललाप च ॥ 10 ॥
हा राम इति च दुःख-आर्ता हा पुनः लक्ष्मण इति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रे इति भामिनी ॥ 11 ॥
लोक-प्रवादः सत्यः अयम् पण्डितैः समुदाहृतः ।
अकाले दुर्लभः मृत्युः स्त्रियाः वा पुरुषस्य वा ॥ 12 ॥
यत् अहम् एवम् क्रूराभिः राक्षसीभिः इह अर्दिता ।
जीवामि हीना रामेण मुहूर्तम् अपि दुःखिता ॥ 13 ॥
एषा अल्प-पुण्या कृपणा विनशिष्यामि अनाथ-वत् ।
समुद्र-मध्ये नौः पूर्णा वायु-वेगैः इव आहता ॥ 14 ॥
भर्तारम् तम् अपश्यन्ती राक्षसी-वशम् आगता ।
सीदामि खलु शोकेन कूलम् तोय-हतम् यथा ॥ 15 ॥
तम् पद्म-दल-पत्र-अक्षम् सिंह-विक्रान्त-गामिनम् ।
धन्याः पश्यन्ति मे नाथम् कृतज्ञम् प्रिय-वादिनम् ॥ 16 ॥
सर्वथा तेन हीनायाः रामेण विदित-आत्मना ।
तीक्ष्णम् विषम् इव आस्वाद्य दुर्लभम् मम जीवितम् ॥ 17 ॥
कीदृशम् तु महा-पापम् मया जन्म-अन्तरे कृतम् ।
यत् इदम् प्राप्यते दुःखम् मया घोरम् सु-दारुणम् ॥ 18 ॥
जीवितम् त्यक्तुम् इच्छामि शोकेन महता वृता ।
राक्षसीभिः च रक्षन्त्या रामः न आसाद्यते मया ॥ 19 ॥
धिक् अस्तु खलु मानुष्यम् धिक् अस्तु पर-वश्यताम् ।
न शक्यम् यत् परित्यक्तुम् आत्म-च्छन्देन जीवितम् ॥ 20 ॥

No comments:
Post a Comment