ततः रावण-नीतायाः सीतायाः शत्रु-कर्शनः ।
इयेष पदम् अन्वेष्टुम् चारण-आचरिते पथि ॥ १ ॥
दुष्करम् निष्प्रति-द्वन्द्वम् चिकीर्षन् कर्म वानरः ।समुदग्र-शिरः-ग्रीवः गवाम्-पतिः इव आबभौ ॥ २ ॥
अथ वैडूर्य-वर्णेषु शाद्वलेषु महा-बलः ।
धीरः सलिल-कल्पेषु विचचार यथा-सुखम् ॥ ३ ॥
द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन् ।मृगान् च सु-बहून् निघ्नन् प्रवृद्धः इव केसरी ॥ ४ ॥
नील-लोहित-मांजिष्ठ-पत्र-वर्णैः सित-असितैः ।
स्वभाव-विहितैः चित्रैः धातुभिः समलङ्कृतम् ॥ ५ ॥
काम-रूपिभिः आविष्टम् अभीक्ष्णम् स-परिच्छदैः ।
यक्ष-किन्नर-गन्धर्वैः देव-कल्पैः च पन्नगैः ॥ ६ ॥
सः तस्य गिरि-वर्यस्य तले नाग-वर-आयुते ।
तिष्ठन् कपि-वरः तत्र ह्रदे नागः इव आबभौ ॥ ७ ॥
सः सूर्याय महेन्द्राय पवनाय स्वयं-भुवे ।
भूतेभ्यः च अञ्जलिम् कृत्वा चकार गमने मतिम् ॥ ८ ॥
अञ्जलिम् प्राङ्-मुखः कुर्वन् पवनाय आत्म-योनये ।
ततः हि ववृधे गन्तुम् दक्षिणः दक्षिणाम् दिशम् ॥ ९ ॥
प्लवङ्ग-प्रवरैः दृष्टः प्लवने कृत-निश्चयः ।
ववृधे राम-वृद्धि-अर्थम् समुद्रः इव पर्वसु ॥ १० ॥
निष्प्रमाण-शरीरः सन् लिलङ्घयिषुः अर्णवम् ।
बाहुभ्याम् पीडयामास चरणाभ्याम् च पर्वतम् ॥ ११ ॥
सः चचाल अचलः च अपि मुहूर्तम् कपि-पीडितः ।
तरूणाम् पुष्पित-अग्राणाम् सर्वम् पुष्पम् अशातयत् ॥ १२ ॥
तेन पादप-मुक्तेन पुष्प-ओघेण सुगन्धिना ।
सर्वतः संवृतः शैलः बभौ पुष्प-मयः यथा ॥ १३ ॥
तेन च उत्तम-वीर्येण पीड्यमानः सः पर्वतः ।
सलिलम् सम्प्रसुस्राव मदम् मत्तः इव द्विपः ॥ १४ ॥
पीड्यमानः तु बलिना महेन्द्रः तेन पर्वतः ।
रीतीः निर्वर्तयामास काञ्चन-अञ्जन-राजतीः ॥ १५ ॥
मुमोच च शिलाः शैलः विशालाः समनः-शिलाः ।
मध्यमेन अर्चिषा जुष्टाः धूम-राजीः इव अनलः ॥ १६ ॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
गुहा-आविष्टानि भूतानि विनेदुः विकृतैः स्वरैः ॥ १७ ॥
सः महा-सत्त्व-सन्नादः शैल-पीडा-निमित्त-जः ।
पृथिवीम् पूरयामास दिशः च उपवनानि च ॥ १८ ॥
शिरोभिः पृथुभिः सर्पाः व्यक्त-स्वस्तिक-लक्षणैः ।
वमन्तः पावकम् घोरम् ददंशुः दशनैः शिलाः ॥ १९ ॥
ताः तदा स-विषैः दष्टाः कुपितैः तैः महा-शिलाः ।
जज्ज्वलुः पावक-उद्दीप्ताः बिभिदुः च सहस्रधा ॥ २० ॥
यानि च औषध-जालानि तस्मिन् जातानि पर्वते ।
विष-घ्नानि अपि नागानाम् न शेकुः शमितुम् विषम् ॥ २१ ॥
भिद्यते अयम् गिरिः भूतैः इति मत्वा तपस्विनः ।
त्रस्ताः विद्याधराः तस्मात् उत्पेतुः स्त्री-गणैः सह ॥ २२ ॥
पान-भूमि-गतम् हित्वा हैमम् आसव-भाजनम् ।
पात्राणि च महा-अर्हाणि करकान् च हिरण्मयान् ॥ २३ ॥
लेह्यान् उच्च-अवचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खड्गान् च कनक-त्सरून् ॥ २४ ॥
कृत-कण्ठ-गुणाः क्षीबाः रक्त-माल्य-अनुलेपनाः ।
रक्त-अक्षाः पुष्कर-अक्षाः च गगनम् प्रतिपेदिरे ॥ २५ ॥
हार-नूपुर-केयूर-पारिहार्य-धराः स्त्रियः ।
विस्मिताः स-स्मिताः तस्थुः आकाशे रमणैः सह ॥ २६ ॥
दर्शयन्तः महा-विद्याम् विद्याधर-महर्षयः ।
सहिताः तस्थुः आकाशे वीक्षाम् चक्रुः च पर्वतम् ॥ २७ ॥
शुश्रुवुः च तदा शब्दम् ऋषीणाम् भावित-आत्मनाम् ।
चारणानाम् च सिद्धानाम् स्थितानाम् विमले अम्बरे ॥ २८ ॥
एषः पर्वत-संकाशः हनुमान् मारुत-आत्मजः ।
तितीर्षति महा-वेगः समुद्रम् मकर-आलयम् ॥ २९ ॥
राम-अर्थम् वानर-अर्थम् च चिकीर्षन् कर्म दुष्करम् ।
समुद्रस्य परम् पारम् दुष्प्रापम् प्राप्तुम् इच्छति ॥ ३० ॥
इति विद्याधराः श्रुत्वा वचः तेषाम् महा-आत्मनाम् ।
तम् अप्रमेयम् ददृशुः पर्वते वानर-ऋषभम् ॥ ३१ ॥
दुधुवे च सः रोमाणि चकम्पे च अचल-उपमः ।
ननाद सु-महा-नादम् सु-महान् इव तोयदः ॥ ३२ ॥
आनुपूर्व्येण वृत्तम् च लाङ्गूलम् लोमभिः चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षि-राजः इव उरगम् ॥ ३३ ॥
तस्य लाङ्गूलम् आविद्धम् आत्त-वेगस्य पृष्ठतः ।
ददृशे गरुडेन इव ह्रियमाणः महा-उरगः ॥ ३४ ॥
बाहू संस्तम्भयामास महा-परिघ-सन्निभौ ।
ससाद च कपिः कट्याम् चरणौ सञ्चुकोच च ॥ ३५ ॥
संहृत्य च भुजौ श्रीमान् तथा एव च शिरोधराम् ।
तेजः सत्त्वम् तथा वीर्यम् आविवेश सः वीर्यवान् ॥ ३६ ॥
मार्गम् आलोकयन् दूरात् ऊर्ध्वम् प्रणिहित-ईक्षणः ।
रुरोध हृदये प्राणान् आकाशम् अवलोकयन् ॥ ३७ ॥
पद्भ्याम् दृढम् अवस्थानम् कृत्वा सः कपि-कुञ्जरः ।
निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महा-बलः ।
वानरान् वानर-श्रेष्ठः इदम् वचनम् अब्रवीत् ॥ ३८ ॥
यथा राघव-निर्मुक्तः शरः श्वसन-विक्रमः ।
गच्छेत् तद्वत् गमिष्यामि लङ्काम् रावण-पालिताम् ॥ ३९ ॥
न हि द्रक्ष्यामि यदि ताम् लङ्कायाम् जनक-आत्मजाम् ।
अनेन एव हि वेगेन गमिष्यामि सुर-आलयम् ॥ ४० ॥
यदि वा त्रि-दिवे सीताम् न द्रक्ष्यामि अ-कृत-श्रमः ।
बद्ध्वा राक्षस-राजानम् आनयिष्यामि रावणम् ॥ ४१ ॥
सर्वथा कृत-कार्यः अहम् एष्यामि सह सीतया ।
आनयिष्यामि वा लङ्काम् समुत्पाट्य स-रावणाम् ॥ ४२ ॥
एवम् उक्त्वा तु हनुमान् वानरान् वानर-उत्तमः ॥ ४३ ॥
उत्पपात अथ वेगेन वेगवान् अविचारयन् ।
सुपर्णम् इव च आत्मानम् मेने सः कपि-कुञ्जरः ॥ ४४ ॥
समुत्पतति तस्मिन् तु वेगात् ते नग-रोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥ ४५ ॥
सः मत्त-कोयष्टिमकान् पादपान् पुष्प-शालिनः ।
उद्वहन् ऊरु-वेगेन जगाम विमले अम्बरे ॥ ४६ ॥
ऊरु-वेग-उद्धताः वृक्षाः मुहूर्तम् कपिम् अन्वयुः ।
प्रस्थितम् दीर्घम् अध्वानम् स्व-बन्धुम् इव बान्धवाः ॥ ४७ ॥
तम् ऊरु-वेग-उन्मथिताः सालाः च अन्ये नग-उत्तमाः ।
अनुजग्मुः हनूमन्तम् सैन्याः इव मही-पतिम् ॥ ४८ ॥
सु-पुष्पित-अग्रैः बहुभिः पादपैः अन्वितः कपिः ।
हनुमान् पर्वत-आकारः बभौ अद्भुत-दर्शनः ॥ ४९ ॥
सारवन्तः अथ ये वृक्षाः न्यमज्जन् लवण-अम्भसि ।
भयात् इव महेन्द्रस्य पर्वताः वरुण-आलये ॥ ५० ॥
सः नाना-कुसुमैः कीर्णः कपिः स-अङ्कुर-कोरकैः ।
शुशुभे मेघ-सङ्काशः खद्योतैः इव पर्वतः ॥ ५१ ॥
विमुक्ताः तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यन्त सलिले निवृत्ताः सुहृदः यथा ॥ ५२ ॥
लघुत्वेन उपपन्नम् तत् विचित्रम् सागरे अपतत् ।
द्रुमाणाम् विविधम् पुष्पम् कपि-वायु-समीरितम् ॥ ५३ ॥
तारा-चितम् इव आकाशम् प्रबभौ सः महा-अर्णवः ।
पुष्प-ओघेन अनुबद्धेन नाना-वर्णेन वानरः ।
बभौ मेघः इव आकाशे विद्युत्-गण-विभूषितः ॥ ५४ ॥
तस्य वेग-समाधूतैः पुष्पैः तोयम् अदृश्यत ॥ ५५ ॥
ताराभिः अभिरामाभिः उदिताभिः इव अम्बरम् ।
तस्य अम्बर-गतौ बाहू ददृशाते प्रसारितौ ॥ ५६ ॥
पर्वत-अग्रात् विनिष्क्रान्तौ पञ्च-अस्यौ इव पन्नगौ ।
पिबन् इव बभौ च अपि सः ऊर्मि-मालम् महा-अर्णवम् ॥ ५७ ॥
पिपासुः इव च आकाशम् ददृशे सः महा-कपिः ।
तस्य विद्युत्-प्रभा-आकारे वायु-मार्ग-अनुसारिणः ॥ ५८ ॥
नयने विप्रकाशेते पर्वत-स्थौ इव अनलौ ।
पिङ्गे पिङ्ग-अक्ष-मुख्यस्य बृहती परिमण्डले ॥ ५९ ॥
चक्षुषी सम्प्रकाशेते चन्द्र-सूर्यौ इव उदितौ ।
मुखम् नासिकया तस्य ताम्रया ताम्रम् आबभौ ॥ ६० ॥
सन्ध्यया समभिस्पृष्टम् यथा तत् सूर्य-मण्डलम् ।
लाङ्गूलम् च समाविद्धम् प्लवमानस्य शोभते ॥ ६१ ॥
अम्बरे वायु-पुत्रस्य शक्र-ध्वजः इव उच्छ्रितम् ।
लाङ्गूल-चक्रेण महान् शुक्ल-दंष्ट्रः अनिल-आत्मजः ॥ ६२ ॥
व्यरोचत महा-प्राज्ञः परिवेषी इव भास्करः ।
स्फिग्-देशेन अभि-ताम्रेण रराज सः महा-कपिः ॥ ६३ ॥
महता दारितेन इव गिरिः गैरिक-धातुना ।
तस्य वानर-सिंहस्य प्लवमानस्य सागरम् ॥ ६४ ॥
कक्षा-अन्तर-गतः वायुः जीमूतः इव गर्जति ।
खे यथा निपतति उल्का हि उत्तर-अन्तात् विनिःसृता ॥ ६५ ॥
दृश्यते स-अनुबन्धा च तथा सः कपि-कुञ्जरः ।
पतत्-पतङ्ग-सङ्काशः व्यायतः शुशुभे कपिः ॥ ६६ ॥
प्रवृद्धः इव मातङ्गः कक्ष्यया बध्यमानया ।
उपरिष्टात् शरीरेण छायया च अवगाढया ॥ ६७ ॥
सागरे मारुत-आविष्टा नौः इव आसीत् तदा कपिः ।
यम् यम् देशम् समुद्रस्य जगाम सः महा-कपिः ।
सः सः तस्य ऊरु-वेगेन स-उन्मादः इव लक्ष्यते ॥ ६८ ॥
सागरस्य ऊर्मि-जालानाम् उरसा शैल-वर्ष्मणाम् ।
अभिघ्नन् तु महा-वेगः पुप्लुवे सः महा-कपिः ॥ ६९ ॥
कपि-वातः च बलवान् मेघ-वातः च निःसृतः ।
सागरम् भीम-निर्घोषम् कम्पयामासतुः भृशम् ॥ ७० ॥
विकर्षन् ऊर्मि-जालानि बृहन्ति लवण-अम्भसि ।
पुप्लुवे कपि-शार्दूलः विकिरन् इव रोदसी ॥ ७१ ॥
मेरु-मन्दर-सङ्काशान् उद्धतान् सः महा-अर्णवे ।
अत्यक्रामत् महा-वेगः तरङ्गान् गणयन् इव ॥ ७२ ॥
तस्य वेग-समुद्धूतम् जलम् स-जलदम् तदा ।
अम्बर-स्थम् विबभ्राज शारद-अभ्रम् इव आततम् ॥ ७३ ॥
तिमि-नक्र-झषाः कूर्माः दृश्यन्ते विवृताः तदा ।
वस्त्र-अपकर्षणेन इव शरीराणि शरीरिणाम् ॥ ७४ ॥
प्लवमानम् समीक्ष्य अथ भुजङ्गाः सागर-आलयाः ।
व्योम्नि तम् कपि-शार्दूलम् सुपर्णः इति मेनिरे ॥ ७५ ॥
दश-योजन-विस्तीर्णा त्रिंशत्-योजनम् आयता ।
छाया वानर-सिंहस्य जले चारुतरा अभवत् ॥ ७६ ॥
श्वेत-अभ्र-घन-राजी इव वायु-पुत्र-अनुगामिनी ।
तस्य सा शुशुभे छाया वितता लवण-अम्भसि ॥ ७७ ॥
शुशुभे सः महा-तेजाः महा-कायः महा-कपिः ।
वायु-मार्गे निरालम्बे पक्षवान् इव पर्वतः ॥ ७८ ॥
येन असौ याति बलवान् वेगेन कपि-कुञ्जरः ।
तेन मार्गेण सहसा द्रोणी-कृतः इव अर्णवः ॥ ७९ ॥
आपाते पक्षि-सङ्घानाम् पक्षि-राजः इव व्रजन् ।
हनुमान् मेघ-जालानि प्रकर्षन् मारुतः यथा ॥ ८० ॥
पाण्डुर-अरुण-वर्णानि नील-माञ्जिष्ठकानि च ।
कपिना आकृष्यमाणानि महा-अभ्राणि चकाशिरे ॥ ८१ ॥
प्रविशन् अभ्र-जालानि निष्पतन् च पुनः पुनः ।
प्रच्छन्नः च प्रकाशः च चन्द्रमा इव लक्ष्यते ॥ ८२ ॥
प्लवमानम् तु तम् दृष्ट्वा प्लवङ्गम् त्वरितम् तदा ।
ववर्षुः पुष्प-वर्षाणि देव-गन्धर्व-दानवाः ॥ ८३ ॥
तताप न हि तम् सूर्यः प्लवन्तम् वानर-उत्तमम् ।
सिषेवे च तदा वायुः राम-कार्य-अर्थ-सिद्धये ॥ ८४ ॥
ऋषयः तुष्टुवुः च एनम् प्लवमानम् विहायसा ।
जगुः च देव-गन्धर्वाः प्रशंसन्तः महा-ओजसम् ॥ ८५ ॥
नागाः च तुष्टुवुः यक्षाः रक्षांसि विबुधाः खगाः ।
प्रेक्ष्य सर्वे कपि-वरम् सहसा विगत-क्लमम् ॥ ८६ ॥
तस्मिन् प्लवग-शार्दूले प्लवमाने हनूमति ।
इक्ष्वाकु-कुल-मान-अर्थी चिन्तयामास सागरः ॥ ८७ ॥
साहाय्यम् वानर-इन्द्रस्य यदि न अहम् हनूमतः ।
करिष्यामि भविष्यामि सर्व-वाच्यः विवक्षताम् ॥ ८८ ॥
अहम् इक्ष्वाकु-नाथेन सगरेण विवर्धितः ।
इक्ष्वाकु-सचिवः च अयम् न अवसीदितुम् अर्हति ॥ ८९ ॥
तथा मया विधातव्यम् विश्रमेत यथा कपिः ॥ ९० ॥
शेषम् च मयि विश्रान्तः सुखेन अतिपतिष्यति ।
इति कृत्वा मतिम् साध्वीम् समुद्रः छन्नम् अम्भसि ॥ ९१ ॥
हिरण्य-नाभम् मैनाकम् उवाच गिरि-सत्तमम् ।
त्वम् इह असुर-सङ्घानाम् पाताल-तल-वासिनाम् ॥ ९२ ॥
देव-राज्ञा गिरि-श्रेष्ठ परिघः सन्निवेशितः ।
त्वम् एषाम् जात-वीर्याणाम् पुनः एव उत्पतिष्यताम् ॥ ९३ ॥
पातालस्य अप्रमेयस्य द्वारम् आवृत्य तिष्ठसि ।
तिर्यक्-ऊर्ध्वम्-अधः च एव शक्तिः ते शैल वर्धितुम् ॥ ९४ ॥
तस्मात् सञ्चोदयामि त्वाम् उत्तिष्ठ गिरि-सत्तम ।
सः एषः कपि-शार्दूलः त्वाम् उपरि एति वीर्यवान् ॥ ९५ ॥
हनूमान् राम-कार्य-अर्थम् भीम-कर्मा खम् आप्लुतः ।
अस्य साह्यम् मया कार्यम् इक्ष्वाकु-कुल-वर्तिनः ॥ ९६ ॥
मम हि इक्ष्वाकवः पूज्याः परम् पूज्य-तमाः तव ।
कुरु साचिव्यम् अस्माकम् न नः कार्यम् अतिक्रमेत् ॥ ९७ ॥
कर्तव्यम् अकृतम् कार्यम् सताम् मन्युम् उदीरयेत् ।
सलिलात् ऊर्ध्वम् उत्तिष्ठ तिष्ठतु एषः कपिः त्वयि ॥ ९८ ॥
अस्माकम् अतिथिः च एव पूज्यः च प्लवताम् वरः ।
चामीकर-महा-नाभ देव-गन्धर्व-सेवित ॥ ९९ ॥
हनुमान् त्वयि विश्रान्तः ततः शेषम् गमिष्यति ।
काकुत्स्थस्य आनृशंस्यम् च मैथिल्याः च विवासनम् ॥ १०० ॥
श्रमम् च प्लवग-इन्द्रस्य समीक्ष्य उत्थातुम् अर्हसि ।
हिरण्य-नाभः मैनाकः निशम्य लवण-अम्भसः ॥ १०१ ॥
उत्पपात जलात् तूर्णम् महा-द्रुम-लता-आयुतः ।
सः सागर-जलम् भित्त्वा बभूव अभ्युत्थितः तदा ॥ १०२ ॥
यथा जलधरम् भित्त्वा दीप्त-रश्मिः दिवाकरः ।
सः महा-आत्मा मुहूर्तेन सर्वतः सलिल-आवृतः ॥ १०३ ॥
दर्शयामास शृङ्गाणि सागरेण नियोजितः ।
आदित्य-उदय-सङ्काशैः आलिखद्भिः इव अम्बरम् ।
शात-कुम्भ-मयैः शृङ्गैः स-किन्नर-महोरगैः ॥ १०४ ॥
तप्त-जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ॥ १०५ ॥
आकाशम् शस्त्र-सङ्काशम् अभवत् काञ्चन-प्रभम् ।
जात-रूप-मयैः शृङ्गैः भ्राजमानैः स्वयं-प्रभैः ॥ १०६ ॥
आदित्य-शत-सङ्काशः सः अभवत् गिरि-सत्तमः ।
तम् उत्थितम् असङ्गेन हनुमान् अग्रतः स्थितम् ॥ १०७ ॥
मध्ये लवण-तोयस्य विघ्नः अयम् इति निश्चितः ।
सः तम् उच्छ्रितम् अत्यर्थम् महा-वेगः महा-कपिः ॥ १०८ ॥
उरसा पातयामास जीमूतम् इव मारुतः ।
सः तथा पातितः तेन कपिना पर्वत-उत्तमः ॥ १०९ ॥
बुद्ध्वा तस्य कपेः वेगम् जहर्ष च ननन्द च ।
तम् आकाश-गतम् वीरम् आकाशे समुपस्थितः ॥ ११० ॥
प्रीतः हृष्ट-मनाः वाक्यम् अब्रवीत् पर्वतः कपिम् ।
मानुषम् धारयन् रूपम् आत्मनः शिखरे स्थितः ॥ १११ ॥
दुष्करम् कृतवान् कर्म त्वम् इदम् वानर-उत्तम ।
निपत्य मम शृङ्गेषु विश्रमस्व यथा-सुखम् ॥ ११२ ॥
राघवस्य कुले जातैः उदधिः परिवर्धितः ।
सः त्वाम् राम-हिते युक्तम् प्रति-अर्चयति सागरः ॥ ११३ ॥
कृते च प्रति-कर्तव्यम् एषः धर्मः सनातनः ।
सः अयम् त्वत्-प्रतिकार-अर्थी त्वत्तः सम्मानम् अर्हति ॥ ११४ ॥
त्वत्-निमित्तम् अनेन अहम् बहु-मानात् प्रचोदितः ।
तिष्ठ त्वम् कपि-शार्दूल मयि विश्रम्य गम्यताम् ॥ ११५ ॥
तव सानुषु विश्रान्तः शेषम् प्रक्रमताम् इति ।
योजनानाम् शतम् च अपि कपिः एषः समाप्लुतः ॥ ११६ ॥
तत् इदम् गन्धवत् स्वादु कन्द-मूल-फलम् बहु ।
तत् आस्वाद्य हरि-श्रेष्ठ विश्रान्तः अनु गमिष्यसि ॥ ११७ ॥
अस्माकम् अपि सम्बन्धः कपि-मुख्य त्वया अस्ति वै ।
प्रख्यातः त्रिषु लोकेषु महा-गुण-परिग्रहः ॥ ११८ ॥
वेगवन्तः प्लवन्तः ये प्लवगाः मारुत-आत्मज ।
तेषाम् मुख्य-तमम् मन्ये त्वाम् अहम् कपि-कुञ्जर ॥ ११९ ॥
अतिथिः किल पूजा-अर्हः प्राकृतः अपि विजानता ।
धर्मम् जिज्ञासमानेन किम् पुनः त्वादृशः महान् ॥ १२० ॥
त्वम् हि देव-वरिष्ठस्य मारुतस्य महा-आत्मनः ।
पुत्रः तस्य एव वेगेन सदृशः कपि-कुञ्जर ॥ १२१ ॥
पूजिते त्वयि धर्म-ज्ञ पूजाम् प्राप्नोति मारुतः ।
तस्मात् त्वम् पूजनीयः मे शृणु च अपि अत्र कारणम् ॥ १२२ ॥
पूर्वम् कृत-युगे तात पर्वताः पक्षिणः अभवन् ।
ते हि जग्मुः दिशः सर्वाः गरुड-अनिल-वेगिनः ॥ १२३ ॥
ततः तेषु प्रयातेषु देव-सङ्घाः महर्षिभिः ।
भूतानि च भयम् जग्मुः तेषाम् पतन-शङ्कया ॥ १२४ ॥
ततः क्रुद्धः सहस्र-अक्षः पर्वतानाम् शत-क्रतुः ।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥ १२५ ॥
सः माम् उपागतः क्रुद्धः वज्रम् उद्यम्य देव-राट् ।
ततः अहम् सहसा क्षिप्तः श्वसनेन महा-आत्मना ॥ १२६ ॥
अस्मिन् लवण-तोये च प्रक्षिप्तः प्लवग-उत्तम ।
गुप्त-पक्ष-समग्रः च तव पित्रा अभिरक्षितः ॥ १२७ ॥
ततः अहम् मानयामि त्वाम् मान्यः हि मम मारुतः ।
त्वया मे हि एषः सम्बन्धः कपि-मुख्य महा-गुणः ॥ १२८ ॥
अस्मिन् एवम्-गते कार्ये सागरस्य मम एव च ।
प्रीतिम् प्रीत-मनाः कर्तुम् त्वम् अर्हसि महा-कपे ॥ १२९ ॥
श्रमम् मोक्षय पूजाम् च गृहाण कपि-सत्तम ।
प्रीतिम् च बहु-मन्यस्व प्रीतः अस्मि तव दर्शनात् ॥ १३० ॥
एवम् उक्तः कपि-श्रेष्ठः तम् नग-उत्तमम् अब्रवीत् ।
प्रीतः अस्मि कृतम् आतिथ्यम् मन्युः एषः अपनीयताम् ॥ १३१ ॥
त्वरते कार्य-कालः मे अहः च अपि अतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यम् इह अन्तरे ॥ १३२ ॥
इति उक्त्वा पाणिना शैलम् आलभ्य हरि-पुङ्गवः ।
जगाम आकाशम् आविश्य वीर्यवान् प्रहसन् इव ॥ १३३ ॥
सः पर्वत-समुद्राभ्याम् बहु-मानात् अवेक्षितः ।
पूजितः च उपपन्नाभिः आशीर्भिः अनिल-आत्मजः ॥ १३४ ॥
अथ ऊर्ध्वम् दूरम् उत्प्लुत्य हित्वा शैल-महा-अर्णवौ ।
पितुः पन्थानम् आस्थाय जगाम विमले अम्बरे ॥ १३५ ॥
भूयः च ऊर्ध्वम् गतिम् प्राप्य गिरिम् तम् अवलोकयन् ।
वायु-सूनुः निरालम्बे जगाम विमले अम्बरे ॥ १३६ ॥
तत् द्वितीयम् हनुमतः दृष्ट्वा कर्म सु-दुष्करम् ।
प्रशशंसुः सुराः सर्वे सिद्धाः च परम-ऋषयः ॥ १३७ ॥
देवताः च अभवन् हृष्टाः तत्र-स्थाः तस्य कर्मणा ।
काञ्चनस्य सु-नाभस्य सहस्र-अक्षः च वासवः ॥ १३८ ॥
उवाच वचनम् धीमान् परितोषात् स-गद्गदम् ।
सु-नाभम् पर्वत-श्रेष्ठम् स्वयम् एव शची-पतिः ॥ १३९ ॥
हिरण्य-नाभ शैल-इन्द्र परितुष्टः अस्मि ते भृशम् ।
अभयम् ते प्रयच्छामि तिष्ठ सौम्य यथा-सुखम् ॥ १४० ॥
साह्यम् कृतम् ते सु-महत् विक्रान्तस्य हनूमतः ।
क्रमतः योजन-शतम् निर्भयस्य भये सति ॥ १४१ ॥
रामस्य एषः हिताय एव याति दाशरथेः हरिः ।
सत्-क्रियाम् कुर्वता तस्य तोषितः अस्मि दृढम् त्वया ॥ १४२ ॥
ततः प्रहर्षम् अगमत् विपुलम् पर्वत-उत्तमः ।
देवतानाम् पतिम् दृष्ट्वा परितुष्टम् शत-क्रतुम् ॥ १४३ ॥
सः वै दत्त-वरः शैलः बभूव अवस्थितः तदा ।
हनुमान् च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४४ ॥
ततः देवाः स-गन्धर्वाः सिद्धाः च परम-ऋषयः ।
अब्रुवन् सूर्य-सङ्काशाम् सुरसाम् नाग-मातरम् ॥ १४५ ॥
अयम् वात-आत्मजः श्रीमान् प्लवते सागर-उपरि ।
हनुमान् नाम तस्य त्वम् मुहूर्तम् विघ्नम् आचर ॥ १४६ ॥
राक्षसम् रूपम् आस्थाय सु-घोरम् पर्वत-उपमम् ।
दंष्ट्रा-करालम् पिङ्ग-अक्षम् वक्त्रम् कृत्वा नभः-समम् ॥ १४७ ॥
बलम् इच्छामहे ज्ञातुम् भूयः च अस्य पराक्रमम् ।
त्वाम् विजेष्यति उपायेन विषादम् वा गमिष्यति ॥ १४८ ॥
एवम् उक्ता तु सा देवी दैवतैः अभि-सत्कृता ।
समुद्र-मध्ये सुरसा बिभ्रती राक्षसम् वपुः ॥ १४९ ॥
विकृतम् च विरूपम् च सर्वस्य च भय-आवहम् ।
प्लवमानम् हनूमन्तम् आवृत्य इदम् उवाच ह ॥ १५० ॥
मम भक्षः प्रदिष्टः त्वम् ईश्वरैः वानर-ऋषभ ।
अहम् त्वाम् भक्षयिष्यामि प्रविश इदम् मम आननम् ॥ १५१ ॥
एवम् उक्तः सुरसया प्र-अञ्जलिः वानर-ऋषभः ।
प्रहृष्ट-वदनः श्रीमान् इदम् वचनम् अब्रवीत् ॥ १५२ ॥
रामः दाशरथिः नाम प्रविष्टः दण्डक-अवनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ॥ १५३ ॥
अन्य-कार्य-विषक्तस्य बद्ध-वैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ १५४ ॥
तस्याः सकाशम् दूतः अहम् गमिष्ये राम-शासनात् ।
कर्तुम् अर्हसि रामस्य साह्यम् विषय-वासिनि ॥ १५५ ॥
अथवा मैथिलीम् दृष्ट्वा रामम् च अक्लिष्ट-कारिणम् ।
आगमिष्यामि ते वक्त्रम् सत्यम् प्रतिशृणोमि ते ॥ १५६ ॥
एवम् उक्ता हनुमता सुरसा काम-रूपिणी ।
अब्रवीत् न अतिवर्तेत् माम् कश्चित् एषः वरः मम ॥ १५७ ॥
तम् प्रयान्तम् समुद्वीक्ष्य सुरसा वाक्यम् अब्रवीत् ।
बलम् जिज्ञासमाना वै नाग-माता हनूमतः ॥ १५८ ॥
प्रविश्य वदनम् मे अद्य गन्तव्यम् वानर-उत्तम ।
वरः एषः पुरा दत्तः मम धात्रा इति सत्वरा ॥ १५९ ॥
व्यादाय विपुलम् वक्त्रम् स्थिता सा मारुतेः पुरः ।
एवम् उक्तः सुरसया क्रुद्धः वानर-पुङ्गवः ॥ १६० ॥
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे ।
इति उक्त्वा सुरसां क्रुद्धः दश-योजनम् आयतः ॥ 161 ॥
दश-योजन-विस्तारः बभूव हनुमान् तदा ।
तं दृष्ट्वा मेघ-संकाशं दश-योजनम् आयतम् ॥ 162 ॥
चकार सुरसा च आस्यं विंशत्-योजनम् आयतम् ।
हनुमान् तु ततः क्रुद्धः त्रिंशत्-योजनम् आयतः ॥ 163 ॥
चकार सुरसा वक्त्रं चत्वारिंशत् तथा उच्छ्रितम् ।
बभूव हनुमान् वीरः पञ्चाशत्-योजन-उच्छ्रितः ॥ 164 ॥
चकार सुरसा वक्त्रं षष्टि-योजनम् आयतम् ।
तथैव हनुमान् वीरः सप्तति-योजन-उच्छ्रितः ॥ 165 ॥
चकार सुरसा वक्त्रम् अशीति-योजन-आयतम् ।
हनुमान् अचल-प्रख्यः नवति-योजन-उच्छ्रितः ॥ 166 ॥
चकार सुरसा वक्त्रं शत-योजनम् आयतम् ।
तव सानुषु विश्रान्तः शेषं प्रक्रमताम् इति ।
तत् दृष्ट्वा व्यादितं तु आस्यं वायु-पुत्रः सु-बुद्धिमान् ।
दीर्घ-जिह्वं सुरसया सु-घोरं नरक-उपमम् ॥ 167 ॥
सु-संक्षिप्य आत्मनः कायं बभूव अङ्गुष्ठ-मात्रकः ।
सः अभिपत्य आशु तत्-वक्त्रं निष्पत्य च महा-बलः ।
अन्तरिक्षे स्थितः श्रीमान् इदं वचनम् अब्रवीत् ॥ 168 ॥
प्रविष्टः अस्मि हि ते वक्त्रं दाक्षायणि नमः अस्तु ते ।
गमिष्ये यत्र वैदेही सत्यं च आसीत् वरः तव ॥ 169 ॥
तं दृष्ट्वा वदनात् मुक्तं चन्द्रं राहु-मुखात् इव ।
अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् ॥ 170 ॥
अर्थ-सिद्ध्यै हरि-श्रेष्ठ गच्छ सौम्य यथा-सुखम् ।
समानयस्व वैदेहीं राघवेण महा-आत्मना ॥ 171 ॥
तत् तृतीयं हनुमतः दृष्ट्वा कर्म सु-दुष्करम् ।
साधु साधु इति भूतानि प्रशशंसुः तदा हरिम् ॥ 172 ॥
सः सागरम् अनाधृष्यम् अभ्येत्य वरुण-आलयम् ।
जगाम आकाशम् आविश्य वेगेन गरुड-उपमः ॥ 173 ॥
सेविते वारि-धाराभिः पतगैः च निषेविते ।
चरिते कैशिक-आचार्यैः ऐरावत-निषेविते ॥ 174 ॥
सिंह-कुञ्जर-शार्दूल-पतग-उरग-वाहनैः ।
विमानैः सम्पतद्भिः च विमलैः समलङ्कृते ॥ 175 ॥
वज्र-अशनि-समाघातैः पावकैः उपशोभिते ।
कृत-पुण्यैः महा-भागैः स्वर्ग-जिद्भिः अलङ्कृते ॥ 176 ॥
वहता हव्यम् अत्यर्थं सेविते चित्र-भानुना ।
ग्रह-नक्षत्र-चन्द्र-अर्क-तारा-गण-विभूषिते ॥ 177 ॥
महर्षि-गण-गन्धर्व-नाग-यक्ष-समाकुले ।
विविक्ते विमले विश्वे विश्वावसु-निषेविते ॥ 178 ॥
देव-राज-गज-आक्रान्ते चन्द्र-सूर्य-पथे शिवे ।
विताने जीव-लोकस्य वितते ब्रह्म-निर्मिते ॥ 179 ॥
बहुशः सेविते वीरैः विद्याधर-गणैः वरैः ।
जगाम वायु-मार्गे तु गरुत्मान् इव मारुतिः ॥ 180 ॥
प्रदृश्यमानः सर्वत्र हनुमान् मारुत-आत्मजः ।
भेजे अम्बरं निरालम्बं लम्ब-पक्षः इव अद्रि-राट् ॥ 181 ॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिन्तयामास प्रवृद्धा काम-रूपिणी ॥ 182 ॥
अद्य दीर्घस्य कालस्य भविष्यामि अहम् आशिता ।
इदं हि मे महत्-सत्त्वं चिरस्य वशम् आगतम् ॥ 183 ॥
इति सञ्चिन्त्य मनसा छायाम् अस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ 184 ॥
समाक्षिप्तः अस्मि सहसा पङ्गू-कृत-पराक्रमः ।
प्रतिलोमेन वातेन महा-नौः इव सागरे ॥ 185 ॥
तिर्यक् ऊर्ध्वम् अधः च एव वीक्षमाणः ततः कपिः ।
ददर्श सः महत्-सत्त्वम् उत्थितं लवण-अम्भसि ॥ 186 ॥
तत् दृष्ट्वा चिन्तयामास मारुतिः विकृत-आननम् ।
कपि-राजेन कथितं सत्त्वम् अद्भुत-दर्शनम् ॥ 187 ॥
छाया-ग्राहि महा-वीर्यं तत् इदं न अत्र संशयः ।
सः तां बुद्ध्वा अर्थ-तत्त्वेन सिंहिकां मति-मान् कपिः ॥ 188 ॥
व्यवर्धत महा-कायः प्रावृषि इव वलाहकः ।
तस्य सा कायम् उद्वीक्ष्य वर्धमानं महा-कपेः ॥ 189 ॥
वक्त्रं प्रसारयामास पाताल-अन्तर-सन्निभम् ।
घन-राजी इव गर्जन्ती वानरं समभिद्रवत् ॥ 190 ॥
सः ददर्श ततः तस्याः विवृतं सु-महत् मुखम् ।
काय-मात्रं च मेधावी मर्माणि च महा-कपिः ॥ 191 ॥
सः तस्याः विवृते वक्त्रे वज्र-संहननः कपिः ।
संक्षिप्य मुहुः आत्मानं निष्पपात महा-बलः ॥ 192 ॥
आस्ये तस्याः निमज्जन्तं ददृशुः सिद्ध-चारणाः ।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ 193 ॥
ततः तस्याः नखैः तीक्ष्णैः मर्माणि उत्कृत्य वानरः ।
उत्पपात अथ वेगेन मनः-सम्पात-विक्रमः ॥ 194 ॥
तां तु दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य च ।
सः कपि-प्रवरः वेगात् ववृधे पुनः आत्मवान् ॥ 195 ॥
हृत-हृत्सा हनुमता अपपात विधुर-अम्भसि ।
तां हतां वानरेण आशु पतितां वीक्ष्य सिंहिकाम् ॥ 196 ॥
भूतानि आकाश-चारीणि तम् ऊचुः प्लवग-उत्तमम् ।
भीमम् अद्य कृतं कर्म महत्-सत्त्वं त्वया हतम् ॥ 197 ॥
साधय अर्थम् अभिप्रेतम् अरिष्टं प्लवतां वर ।
यस्य तु एतानि चत्वारि वानर-इन्द्र यथा तव ॥ 198 ॥
धृतिः दृष्टिः मतिः दाक्ष्यं सः कर्मसु न सीदति ।
सः तैः संभावितः पूज्यः प्रतिपन्न-प्रयोजनः ॥ 199 ॥
जगाम आकाशम् आविश्य पन्नग-अशन-वत् कपिः ।
प्राप्त-भूयिष्ठ-पारः तु सर्वतः प्रतिलोकयन् ॥ 200 ॥
योजनानां शतस्य अन्ते वन-राजिं ददर्श सः ।
ददर्श च पतन् एव विविध-द्रुम-भूषितम् ॥ 201 ॥
द्वीपं शाखा-मृग-श्रेष्ठः मलय-उपवनानि च ।
सागरं सागर-अनूपं सागर-अनूप-जान् द्रुमान् ॥ 202 ॥
सागरस्य च पत्नीनां मुख्यानि अपि विलोकयन् ।
सः महा-मेघ-संकाशं समीक्ष्य आत्मानम् आत्मवान् ॥ 203 ॥
निरुन्धन्तम् इव आकाशं चकार मति-मान् मतिम् ।
काय-वृद्धिं प्र-वेगं च मम दृष्ट्वा एव राक्षसाः ॥ 204 ॥
मयि कौतूहलं कुर्युः इति मेने महा-कपिः ।
ततः शरीरं संक्षिप्य तत् महीधर-सन्निभम् ॥ 205 ॥
पुनः प्रकृतिम् आपेदे वीत-मोहः इव आत्मवान् ।
तत् रूपम् अति-संक्षिप्य हनुमान् प्रकृतौ स्थितः ॥ 206 ॥
त्रीन् क्रमान् इव विक्रम्य बलि-वीर्य-हरः हरिः ।
सः चारु-नाना-विध-रूप-धारी परं समासाद्य समुद्र-तीरम् ।
परैः अशक्यः प्रतिपन्न-रूपः समीक्षित-आत्मा समवेक्षित-अर्थः ॥ 207 ॥
ततः सः लम्बस्य गिरेः समृद्धे विचित्र-कूटे निपपात कूटे ।
स-केतक-उद्दालक-नालिकेरे महा-अद्रि-कूट-प्रतिमः महा-आत्मा ॥ 208 ॥
ततः तु संप्राप्य समुद्र-तीरं समीक्ष्य लंकां गिरि-वर्य-मूर्ध्नि ।
कपिः तु तस्मिन् निपपात पर्वते विधूय रूपं व्यथयन् मृग-द्विजान् ॥ 209 ॥
सः सागरं दानव-पन्नग-आयुतं बलेन विक्रम्य महा-ऊर्मि-मालिनम् ।
निपत्य तीरे च महा-उदधेः तदा ददर्श लंकाम् अमरावतीम् इव ॥ 210 ॥
इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे प्रथमः सर्गः ॥

No comments:
Post a Comment