Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 61 - சீதையைக் கண்ட மகிழ்ச்சியில் வானரர்கள் மதுவனத்தில் கொண்டாட்டம் செய்கிறார்கள்.


HOME          PREVIOUS               NEXT

ततः जाम्बवतः वाक्यम् अगृह्णन्त वन-ओकसः ।
अङ्गद-प्रमुखाः वीराः हनुमान् च महा-कपिः ॥ ५-६१-१ ॥

प्रीति-मनतः ततः सर्वे वायु-पुत्र-पुरः-सराः ।
महा-इन्द्र-अग्रम् परित्यज्य पुप्लुवुः प्लवग-ऋषभाः ॥ ५-६१-२ ॥

मेरु-मन्दर-सङ्काशाः मत्ताः इव महा-गजाः ।
छादयन्तः इव आकाशम् महा-कायाः महा-बलाः ॥ ५-६१-३ ॥

सभाज्यमानम् भूतैः तम् आत्मवन्तम् महा-बलम् ।
हनूमन्तम् महा-वेगम् वहन्तः इव दृष्टिभिः ॥ ५-६१-४ ॥

राघवे च अर्थ-निर्वृत्तिम् भर्तुः च परमम् यशः ।
समाधाय समृद्ध-अर्थाः कर्म-सिद्धिभिः उन्नताः ॥ ५-६१-५ ॥

प्रिय-आख्यान-उन्मुखाः सर्वे सर्वे युद्ध-अभिनन्दिनः ।
सर्वे राम-प्रतीकारे निश्चित-अर्थाः मनस्विनः ॥ ५-६१-६ ॥

प्लवमानाः खम् आप्लुत्य ततः ते कानन-ओकसः ।
नन्दन-उपमम् आसेदुः वनम् द्रुम-लता-युतम् ॥ ५-६१-७ ॥

यत् तत् मधु-वनम् नाम सुग्रीवस्य अभिरक्षितम् ।
अधृष्यम् सर्व-भूतानाम् सर्व-भूत-मनः-हरम् ॥ ५-६१-८ ॥

यत् रक्षति महा-वीर्यः सदा दधि-मुखः कपिः ।
मातुलः कपि-मुख्यस्य सुग्रीवस्य महा-आत्मनः ॥ ५-६१-९ ॥

ते तत् वनम् उपागम्य बभूवुः परम-उत्कटाः ।
वानराः वानर-इन्द्रस्य मनः-कान्त-तमम् महत् ॥ ५-६१-१० ॥

ततः ते वानराः हृष्टाः दृष्ट्वा मधु-वनम् महत् ।
कुमारम् अभ्ययाचन्त मधूनि मधु-पिङ्गलाः ॥ ५-६१-११ ॥

ततः कुमारः तान् वृद्धान् जाम्बवत्-प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषाम् निसर्गम् मधु-भक्षणे ॥ ५-६१-१२ ॥

ततः च अनुमताः सर्वे सम्प्रहृष्टाः वन-ओकसः ।
मुदिताः च ततः ते च प्रनृत्यन्ति ततः ततः ॥ ५-६१-१३ ॥

गायन्ति केचित् प्रणमन्ति केचित् ।
नृत्यन्ति केचित् प्रहसन्ति केचित् ।
पतन्ति केचित् विचरन्ति केचित् ।
प्लवन्ति केचित् प्रलपन्ति केचित् ॥ ५-६१-१४ ॥

परस्परम् केचित् उपाश्रयन्ते ।
परस्परम् केचित् अतिब्रुवन्ते ।
परस्परम् केचित् उपब्रुवन्ते ।
परस्परम् केचित् उपारमन्ते ॥ ५-६१-१५ ॥

द्रुमात् द्रुमम् केचित् अभिप्लवन्ते ।
क्षितौ नग-अग्रान् निपतन्ति केचित् ।
मही-तलात् केचित् उदीर्ण-वेगाः ।
महा-द्रुम-अग्राणि अभिसम्पतन्ते ॥ ५-६१-१६ ॥

गायन्तम् अन्यः प्रहसन् उपैति ।
हसन्तम् अन्यः प्रहसन् उपैति ।
रुदन्तम् अन्यः प्ररुदन् उपैति ।
नुदन्तम् अन्यः प्रणुदन् उपैति ॥ ५-६१-१७ ॥

समाकुलम् तत् कपि-सैन्यम् आसीत् ।
मधु-प्रपान-उत्कट-सत्त्व-चेष्टम् ।
न च अत्र कश्चित् न बभूव मत्तः ।
न च अत्र कश्चित् न बभूव तृप्तः ॥ ५-६१-१८ ॥

ततः वनम् तत् परिभक्ष्यमाणम् ।
द्रुमान् च विध्वंसित-पत्र-पुष्पान् ।
समीक्ष्य कोपात् दधि-वक्त्र-नामाः ।
निवारयामास कपिः कपीन् तान् ॥ ५-६१-१९ ॥

सः तैः प्रवृद्धैः परिभर्त्स्यमानः ।
वनस्य गोप्ता हरि-वीर-वृद्धः ।
चकार भूयः मतिम् उग्र-तेजाः ।
वनस्य रक्षाम् प्रति वानरेभ्यः ॥ ५-६१-२० ॥

उवाच कांश्चित् परुषाणि धृष्टम् ।
असक्तम् अन्यान् च तलैः जघान ।
समेत्य कैश्चित् कलहम् चकार ।
तथा एव साम्ना उपजगाम कांश्चित् ॥ ५-६१-२१ ॥

सः तैः मदात् च अप्रतिवार्य-वेगैः ।
बलात् च तेन अप्रतिवार्यमाणैः ।
प्रधर्षितः त्यक्त-भयैः समेत्य ।
प्रकृष्यते च अपि अनवेक्ष्य दोषम् ॥ ५-६१-२२ ॥

नखैः तुदन्तः दशनैः दशन्तः ।
तलैः च पादैः च समाप्नुवन्तः ।
मदात् कपिम् तम् कपयः समग्राः ।
महा-वनम् निर्विषयम् च चक्रुः ॥ ५-६१-२३ ॥


इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे एक-षष्टितमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: