Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 63 - மதுவனத்தின் அழிவை ததிமுகன் சுக்ரீவனிடம் தெரிவிக்கிறான்; இதை சீதை கண்டுபிடிக்கப்பட்டதற்கான அறிகுறியாக சுக்ரீவன் புரிந்துகொள்கிறான்.


HOME          PREVIOUS               NEXT

ततः मूर्ध्ना निपतितम् वानरम् वानर-ऋषभः ।
दृष्ट्वा एव उद्विग्न-हृदयः वाक्यम् एतत् उवाच ह ॥ ५-६३-१ ॥

उत्तिष्ठ उत्तिष्ठ कस्मात् त्वम् पादयोः पतितः मम ।
अभयम् ते भवेत् वीर सत्यम् एव अभिधीयताम् ॥ ५-६३-२ ॥

सः तु विश्वासितः तेन सुग्रीवेण महा-आत्मना ।
उत्थाय च महा-प्राज्ञः वाक्यम् दधि-मुखः अब्रवीत् ॥ ५-६३-३ ॥

न एव ऋक्ष-रजसा राजन् न त्वया न अपि वालिना ।
वनम् निसृष्ट-पूर्वम् हि भक्षितम् तत् तु वानरैः ॥ ५-६३-४ ॥

एभिः प्रधर्षिताः च एव वारिताः वन-रक्षिभिः ।
मधूनि अचिन्तयित्वा इमान् भक्षयन्ति पिबन्ति च ॥ ५-६३-५ ॥

शिष्टम् अत्र अपविध्यन्ति भक्षयन्ति तथा अपरे ।
निवार्यमाणाः ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥ ५-६३-६ ॥

इमे हि संरब्धतराः तथा तैः सम्प्रधर्षिताः ।
वारयन्तः वनात् तस्मात् क्रुद्धैः वानर-पुङ्गवैः ॥ ५-६३-७ ॥

ततः तैः बहुभिः वीरैः वानरैः वानर-ऋषभाः ।
संरक्त-नयनैः क्रोधात् हरयः सम्प्रचालिताः ॥ ५-६३-८ ॥

पाणिभिः निहताः केचित् केचित् जानुभिः आहताः ।
प्रकृष्टाः च यथा-कामम् देव-मार्गम् च दर्शिताः ॥ ५-६३-९ ॥

एवम् एते हताः शूराः त्वयि तिष्ठति भर्तरि ।
कृत्स्नम् मधु-वनम् च एव प्रकामम् तैः प्रभक्ष्यते ॥ ५-६३-१० ॥

एवम् विज्ञाप्यमानम् तु सुग्रीवम् वानर-ऋषभम् ।
अपृच्छत् तम् महा-प्राज्ञः लक्ष्मणः पर-वीर-हा ॥ ५-६३-११ ॥

किम् अयम् वानरः राजन् वन-पः प्रत्युपस्थितः ।
कम् च अर्थम् अभिनिर्दिश्य दुःखितः वाक्यम् अब्रवीत् ॥ ५-६३-१२ ॥

एवम् उक्तः तु सुग्रीवः लक्ष्मणेन महा-आत्मना ।
लक्ष्मणम् प्रत्युवाच इदम् वाक्यम् वाक्य-विशारदः ॥ ५-६३-१३ ॥

आर्य लक्ष्मण सम्प्राह वीरः दधि-मुखः कपिः ।
अङ्गद-प्रमुखैः वीरैः भक्षितम् मधु वानरैः ॥ ५-६३-१४ ॥

विचित्य दक्षिणाम् आशाम् आगतैः हरि-पुङ्गवैः ।
न एषाम् अकृत-कर्तृयानाम् ईदृशः स्यात् उपक्रमः ॥ ५-६३-१५ ॥

आगतैः च प्रमथितम् यथा मधु-वनम् हि तैः ।
धर्षितम् च वनम् कृत्स्नम् उपयुक्तम् च वानरैः ॥ ५-६३-१६ ॥

वनम् यथा अभिपन्नम् तैः साधितम् कर्म वानरैः ।
दृष्टा देवी न सन्देहः न च अन्येन हनूमता ॥ ५-६३-१७ ॥

न हि अन्यः साधने हेतुः कर्मणः अस्य हनूमतः ।
कार्य-सिद्धिः हनुमति मतिः च हरि-पुङ्गव ॥ ५-६३-१८ ॥

व्यवसायः च वीर्यम् च श्रुतम् च अपि प्रतिष्ठितम् ।
जाम्बवान् यत्र नेता स्यात् अङ्गदस्य बल-ईश्वरः ॥ ५-६३-१९ ॥

हनूमान् च अपि अधिष्ठाता न तस्य गतिः अन्यथा ।
अङ्गद-प्रमुखैः वीरैः हतम् मधु-वनम् किल ॥ ५-६३-२० ॥

वारिताः सहिताः पालाः तथा जानुभिः आहताः ।
एतत् अर्थम् अयम् प्राप्तः वक्तुम् मधुर-वाक् इह ॥ ५-६३-२१ ॥

नाम्ना दधि-मुखः नाम हरिः प्रख्यात-विक्रमः ।
दृष्टा सीता महा-बाहो सौमित्रे पश्य तत्त्वतः ॥ ५-६३-२२ ॥

अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ।
न च अपि अदृष्ट्वा वैदेहीम् विश्रुताः पुरुष-ऋषभ ॥ ५-६३-२३ ॥

वनम् दत्त-वरम् दिव्यम् धर्षयेयुः वन-ओकसः ।
ततः प्रहृष्टः धर्म-आत्मा लक्ष्मणः सह राघवः ॥ ५-६३-२४ ॥

श्रुत्वा कर्ण-सुखाम् वाणीम् सुग्रीव-वदनात् च्युताम् ।
प्राहृष्यत भृशम् रामः लक्ष्मणः च महा-यशाः ॥ ५-६३-२५ ॥

श्रुत्वा दधि-मुखस्य इदम् सुग्रीवः तु प्रहृष्य च ।
वन-पालम् पुनः वाक्यम् सुग्रीवः प्रत्यभाषत ॥ ५-६३-२६ ॥

प्रीतः अस्मि सौम्य यत् भुक्तम् वनम् तैः कृत-कर्मभिः ।
मर्षितम् मर्षणीयम् च चेष्टितम् कृत-कर्मणाम् ॥ ५-६३-२७ ॥

इच्छामि शीघ्रम् हनुमत्-प्रधानान् ।
शाखा-मृगान् तान् मृग-राज-दर्पान् ।
द्रष्टुम् कृत-अर्थान् सह राघवाभ्याम् ।
श्रोतुम् च सीता-अधिगमे प्रयत्नम् ॥ ५-६३-२८ ॥

प्रीति-स्फीत-अक्षौ सम्प्रहृष्टौ कुमारौ ।
दृष्ट्वा सिद्ध-अर्थौ वानराणाम् च राजा ।
अङ्गैः संहृष्टैः कर्म-सिद्धिम् विदित्वा ।
बाह्वोः आसन्नाम् सः अति-मात्रम् ननन्द ॥ ५-६३-२९ ॥

इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे त्रि-षष्टितमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: