Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 23 - அரக்கியர்கள் சீதையை இராவணனின் மனைவியாக ஆகும்படி சமாதானப்படுத்த முயல்கிறார்கள்.

HOME          PREVIOUS               NEXT

इति उक्त्वा मैथिलीम् राजा रावणः शत्रु-रावणः ।
संदिश्य च ततः सर्वाः राक्षसीः निर्जगाम ह ॥ 1 ॥

निष्क्रान्ते राक्षस-इन्द्रे तु पुनः अन्तः-पुरम् गते ।
राक्षस्यः भीम-रूपाः ताः सीताम् समभिदुद्रुवुः ॥ 2 ॥

ततः सीताम् उपागम्य राक्षस्यः क्रोध-मूर्छिताः ।
परम् परुषया वाचा वैदेहीम् इदम् अब्रुवन् ॥ 3 ॥

पौलस्त्यस्य वरिष्ठस्य रावणस्य महा-आत्मनः ।
दश-ग्रीवस्य भार्या त्वम् सीते न बहु-मन्यसे ॥ 4 ॥

ततः तु एक-जटा नाम राक्षसी वाक्यम् अब्रवीत् ।
आमन्त्र्य क्रोध-ताम्र-अक्षी सीताम् करतल-उदरीम् ॥ 5 ॥

प्रजापतीनाम् षण्णाम् तु चतुर्थः यः प्रजापतिः ।
मानसः ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ 6 ॥

पुलस्त्यस्य तु तेजस्वी महा-ऋषिः मानसः सुतः ।
नाम्ना सः विश्रवा नाम प्रजापति-सम-प्रभः ॥ 7 ॥

तस्य पुत्रः विशाल-अक्षि रावणः शत्रु-रावणः ।
तस्य त्वम् राक्षस-इन्द्रस्य भार्या भवितुम् अर्हसि ॥ 8 ॥

मया उक्तम् चारु-सर्व-अङ्गि वाक्यम् किम् न अनुमन्यसे ।
ततः हरि-जटा नाम राक्षसी वाक्यम् अब्रवीत् ॥ 9 ॥

विवर्त्य नयने कोपात् मार्जार-सदृश-ईक्षणा ।
येन देवाः त्रयः-त्रिंशत् देव-राजः च निर्जिताः ॥ 10 ॥

तस्य त्वम् राक्षस-इन्द्रस्य भार्या भवितुम् अर्हसि ।
ततः तु प्रघसा नाम राक्षसी क्रोध-मूर्छिता ॥ 11 ॥

भर्त्सयन्ती तदा घोरम् इदम् वचनम् अब्रवीत् ।
वीर्य-उत्सिक्तस्य शूरस्य संग्रामेषु निवर्तिनः ॥ 12 ॥

बलिनः वीर्य-युक्तस्य भार्यात्वम् किम् न लप्स्यसे ।
प्रियाम् बहु-मताम् भार्याम् त्यक्त्वा राजा महा-बलः ॥ 13 ॥

सर्वासाम् च महा-भागाम् त्वाम् उपैष्यति रावणः ।
समृद्धम् स्त्री-सहस्रेण नाना-रत्न-उप-शोभितम् ॥ 14 ॥

अन्तः-पुरम् समुत्सृज्य त्वाम् उपैष्यति रावणः ।
अन्या तु विकटा नाम राक्षसी वाक्यम् अब्रवीत् ॥ 15 ॥

असकृत् देवताः युद्धे नाग-गन्धर्व-दानवाः ।
निर्जिताः समरे येन सः ते पार्श्वम् उपागतः ॥ 16 ॥

तस्य सर्व-समृद्धस्य रावणस्य महा-आत्मनः ।
किम् अद्य राक्षस-इन्द्रस्य भार्यात्वम् न इच्छसे अधमे ॥ 17 ॥

ततः तु दुर्मुखी नाम राक्षसी वाक्यम् अब्रवीत् ।
यस्य सूर्यः न तपति भीतः यस्य च मारुतः ॥ 18 ॥

न वाति स्म आयत-आपाङ्गे किम् त्वम् तस्य न तिष्ठसि ।
पुष्प-वृष्टिम् च तरवः मुमुचुः यस्य वै भयात् ॥ 19 ॥

शैलाः च सुभ्रु पानीयम् जलदाः च यत् इच्छति ।
तस्य नैरृत-राजस्य राज-राजस्य भामिनि ॥ 20 ॥

किम् त्वम् न कुरुषे बुद्धिम् भार्य-अर्थे रावणस्य हि ।
साधु ते तत्त्वतः देवि कथितम् साधु भामिनि ॥ 21 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे त्रयो-विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: