विमानात् तु सु-सङ्क्रम्य प्राकारं हरि-यूथपः ।
हनुमान् वेगवान् आसीत् यथा विद्युत् घन-अन्तरे ॥ 1 ॥
सम्परिक्रम्य हनुमान् रावणस्य निवेशनात् ।
अदृष्ट्वा जानकीं सीताम् अब्रवीत् वचनं कपिः ॥ 2 ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ।
न हि पश्यामि वैदेहीं सीतां सर्व-अङ्ग-शोभनाम् ॥ 3 ॥
पल्वलानि तटाकानि सरांसि सरितः तथा ।
नद्यः अनूप-वन-अन्ताः च दुर्गाः च धरणी-धराः ॥ 4 ॥
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ।
इह सम्पातिना सीता रावणस्य निवेशने ॥ 5 ॥
आख्याता गृध्र-राजेन न च पश्यामि ताम् अहम् ।
किं नु सीता अथ वैदेही मैथिली जनक-आत्मजा ॥ 6 ॥
उपतिष्ठेत विवशा रावणं दुष्ट-चारिणम् ।
क्षिप्रम् उत्पततः मन्ये सीताम् आदाय रक्षसः ॥ 7 ॥
बिभ्यतः राम-बाणानाम् अन्तरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्ध-निषेविते ॥ 8 ॥
मन्ये पतितम् आर्यायाः हृदयं प्रेक्ष्य सागरम् ।
रावणस्य उरु-वेगेन भुजाभ्यां पीडितेन च ॥ 9 ॥
तया मन्ये विशाल-अक्ष्या त्यक्तं जीवितम् आर्यया ।
उपरि उपरि वा नूनं सागरं क्रमतः तदा ॥ 10 ॥
विवेष्टमाना पतिता सागरे जनक-आत्मजा ।
अहो क्षुद्रेण वा अनेन रक्षता शीलम् आत्मनः ॥ 11 ॥
अ-बन्धुः भक्षिता सीता रावणेन तपस्विनी ।
अथवा राक्षस-इन्द्रस्य पत्नीभिः असित-ईक्षणा ॥ 12 ॥
अदुष्टा दुष्ट-भावाभिः भक्षिता सा भविष्यति ।
सम्पूर्ण-चन्द्र-प्रतिमं पद्म-पत्र-निभ-ईक्षणम् ॥ 13 ॥
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ।
हा राम लक्ष्मण इति एवम् हा अयोध्ये च इति मैथिली ॥ 14 ॥
विलप्य बहु वैदेही न्यस्त-देहा भविष्यति ।
अथवा निहिता मन्ये रावणस्य निवेशने ॥ 15 ॥
नूनं लालप्यते सीता पञ्जर-स्था इव शारिका ।
जनकस्य सुता सीता राम-पत्नी सु-मध्यमा ॥ 16 ॥
कथम् उत्पल-पत्र-अक्षी रावणस्य वशं व्रजेत् ।
विनष्टा वा प्रणष्टा वा मृता वा जनक-आत्मजा ॥ 17 ॥
रामस्य प्रिय-भार्यस्य न निवेदयितुं क्षमम् ।
निवेद्यमाने दोषः स्यात् दोषः स्यात् अनिवेदने ॥ 18 ॥
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ।
अस्मिन् एवं-गते कार्ये प्राप्त-कालं क्षमं च किम् ॥ 19 ॥
भवेत् इति मतं भूयः हनुमान् प्रविचारयत् ।
यदि सीताम् अदृष्ट्वा अहं वानर-इन्द्र-पुरीम् इतः ॥ 20 ॥
गमिष्यामि ततः कः मे पुरुष-अर्थः भविष्यति ।
मम इदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ 21 ॥
प्रवेशः च एव लङ्कायाः राक्षसानां च दर्शनम् ।
किं मां वक्ष्यति सुग्रीवः हरयः वा समागताः ॥ 22 ॥
किष्किन्धां समनुप्राप्तं तौ वा दशरथ-आत्मजौ ।
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परम-अप्रियम् ॥ 23 ॥
न दृष्टा इति मया सीता ततः तक्ष्यति जीवितम् ।
परुषं दारुणं क्रूरं तीक्ष्णम् इन्द्रिय-तापनम् ॥ 24 ॥
सीता-निमित्तं दुर्वाक्यं श्रुत्वा सः न भविष्यति ।
तं तु कृच्छ्र-गतं दृष्ट्वा पञ्चत्व-गत-मानसम् ॥ 25 ॥
भृश-अनुरक्तः मेधावी न भविष्यति लक्ष्मणः ।
विनष्टौ भ्रातरौ श्रुत्वा भरतः अपि मरिष्यति ॥ 26 ॥
भरतं च मृतं दृष्ट्वा शत्रुघ्नः न भविष्यति ।
पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः ॥ 27 ॥
कौसल्या च सुमित्रा च कैकेयी च न संशयः ।
कृतज्ञः सत्य-सन्धः च सुग्रीवः प्लवग-अधिपः ॥ 28 ॥
रामं तथा गतं दृष्ट्वा ततः त्यक्ष्यति जीवितम् ।
दुर्मनाः व्यथिता दीना निरानन्दा तपस्विनी ॥ 29 ॥
पीडिता भर्तृ-शोकेन रुमा त्यक्ष्यति जीवितम् ।
वालि-जेन तु दुःखेन पीडिता शोक-कर्शिता ॥ 30 ॥
पञ्चत्वं च गते राज्ञि तारा अपि न भविष्यति ।
माता-पित्रोः विनाशेन सुग्रीव-व्यसनेन च ॥ 31 ॥
कुमारः अपि अङ्गदः कस्मात् धारयिष्यति जीवितम् ।
भर्तृ-जेन तु दुःखेन हि अभिभूताः वन-औकसः ॥ 32 ॥
शिरांसि अभिहनिष्यन्ति तलैः मुष्टिभिः एव च ।
सान्त्वेन अनुप्रदानेन मानेन च यशस्विना ॥ 33 ॥
लालिताः कपि-राजेन प्राणान् त्यक्ष्यन्ति वानराः ।
न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥ 34 ॥
क्रीडाम् अनुभविष्यन्ति समेत्य कपि-कुञ्जराः ।
स-पुत्र-दाराः स-अमात्याः भर्तृ-व्यसन-पीडिताः ॥ 35 ॥
शैल-अग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च ।
विषम् उद्बन्धनं वा अपि प्रवेशं ज्वलनस्य वा ॥ 36 ॥
उपवासम् अथो शस्त्रं प्रचरिष्यन्ति वानराः ।
घोरम् आ-रोदनं मन्ये गते मयि भविष्यति ॥ 37 ॥
इक्ष्वाकु-कुल-नाशः च नाशः च एव वन-औकसाम् ।
सः अहं न एव गमिष्यामि किष्किन्धां नगरीम् इतः ॥ 38 ॥
न च शक्ष्यामि अहं द्रष्टुं सुग्रीवं मैथिलीं विना ।
मयि अगच्छति च इह-स्थे धर्म-आत्मानौ महा-रथौ ॥ 39 ॥
आशया तौ धरिष्येते वानराः च मनस्विनः ।
हस्त-आदानः मुख-आदानः नियतः वृक्ष-मूलिकः ॥ 40 ॥
वान-प्रस्थः भविष्यामि हि अदृष्ट्वा जनक-आत्मजाम् ।
सागर-अनूप-जे देशे बहु-मूल-फल-उदके ॥ 41 ॥
चितां कृत्वा प्रवेक्ष्यामि समिद्धम् अरणी-सुतम् ।
उपविष्टस्य वा सम्यक् लिङ्गिनीं साधयिष्यतः ॥ 42 ॥
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ।
इदं महर्षिभिः दृष्टं निर्याणम् इति मे मतिः ॥ 43 ॥
सम्यक् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् ।
सु-जात-मूला सु-भगा कीर्ति-माला यशस्विनी ॥ 44 ॥
प्रभग्ना चिर-रात्री इयं मम सीताम् अपश्यतः ।
तापसः वा भविष्यामि नियतः वृक्ष-मूलिकः ॥ 45 ॥
न इतः प्रतिगमिष्यामि ताम् अदृष्ट्वा असित-ईक्षणाम् ।
यदि इतः प्रतिगच्छामि सीताम् अनधिगम्य ताम् ॥ 46 ॥
अङ्गदः सह तैः सर्वैः वानरैः न भविष्यति ।
विनाशे बहवः दोषाः जीवन् भद्राणि पश्यति ॥ 47 ॥
तस्मात् प्राणान् धरिष्यामि ध्रुवः जीवित-सङ्गमः ।
एवं बहु-विधं दुःखं मनसा धारयन् मुहुः ॥ 48 ॥
न अध्यगच्छत् तदा पारं शोकस्य कपि-कुञ्जरः ।
रावणं वा वधिष्यामि दश-ग्रीवं महा-बलम् ॥ 49 ॥
कामम् अस्तु हृता सीता प्रत्याचीर्णं भविष्यति ।
अथवा एनं समुत्क्षिप्य उपरि उपरि सागरम् ॥ 50 ॥
रामाय उपहरिष्यामि पशुं पशु-पतेः इव ।
इति चिन्तां समापन्नः सीताम् अनधिगम्य ताम् ॥ 51 ॥
ध्यान-शोक-परीत-आत्मा चिन्तयामास वानरः ।
यावत् सीतां हि पश्यामि राम-पत्नीं यशस्विनीम् ॥ 52 ॥
तावत् एतां पुरीं लङ्कां विचिनोमि पुनः पुनः ।
सम्पाति-वचनात् च अपि रामं यदि आनयामि अहम् ॥ 53 ॥
अपश्यन् राघवः भार्यां निर्दहेत् सर्व-वानरान् ।
इह एव नियत-आहारः वत्स्यामि नियत-इन्द्रियः ॥ 54 ॥
न मत्-कृते विनश्येयुः सर्वे ते नर-वानराः ।
अशोक-वनिका च इयं दृश्यते या महा-द्रुमा ॥ 55 ॥
इमाम् अधिगमिष्यामि न हि इयं विचिता मया ।
वसून् रुद्रान् तथा आदित्यान् अश्विनौ मरुतः अपि च ॥ 56 ॥
नमस्कृत्वा गमिष्यामि रक्षसां शोक-वर्धनः ।
जित्वा तु राक्षसान् सर्वान् इक्ष्वाकु-कुल-नन्दिनीम् ॥ 57 ॥
सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने ।
सः मुहूर्तम् इव ध्यात्वा चिन्ता-अवग्रथित-इन्द्रियः ॥ 58 ॥
उदतिष्ठत् महा-तेजाः हनुमान् मारुत-आत्मजः ।
नमः अस्तु रामाय स-लक्ष्मणाय देव्यै च तस्यै जनक-आत्मजायै ।
नमः अस्तु रुद्र-इन्द्र-यम-अनिलेभ्यः नमः अस्तु चन्द्र-अर्क-मरुत्-गणेभ्यः ॥ 59 ॥
सः तेभ्यः तु नमस्कृत्य सुग्रीवाय च मारुतिः ।
दिशः सर्वाः समालोक्य हि अशोक-वनिकां प्रति ॥ 60 ॥
सः गत्वा मनसा पूर्वम् अशोक-वनिकां शुभाम् ।
उत्तरं चिन्तयामास वानरः मारुत-आत्मजः ॥ 61 ॥
ध्रुवं तु रक्षः-बहुला भविष्यति वन-आकुला ।
अशोक-वनिका पुण्या सर्व-संस्कार-संस्कृता ॥ 62 ॥
रक्षिणः च अत्र विहिताः नूनं रक्षन्ति पादपान् ।
भगवान् अपि सर्व-आत्मा न अति-क्षोभं प्रवाति वै ॥ 63 ॥
संक्षिप्तः अयम् मया आत्मा च राम-अर्थे रावणस्य च ।
सिद्धिं मे संविधास्यन्ति देवाः स-ऋषि-गणाः तु इह ॥ 64 ॥
ब्रह्मा स्वयं-भूः भगवान् देवाः च एव दिशन्तु मे ।
सिद्धिम् अग्निः च वायुः च पुरुहूतः च वज्र-भृत् ॥ 65 ॥
वरुणः पाश-हस्तः च सोम-आदित्यौ तथा एव च ।
अश्विनौ च महा-आत्मानौ मरुतः शर्वः एव च ॥ 66 ॥
सिद्धिं सर्वाणि भूतानि भूतानाम् च एव यः प्रभुः ।
दास्यन्ति मम ये च अन्ये हि अदृष्टाः पथि गोचराः ॥ 67 ॥
तत् उन्नसं पाण्डुर-दन्तम् अव्रणम् शुचि-स्मितम् पद्म-पलाश-लोचनम् ।
द्रक्ष्ये तत् आर्या-वदनं कदा नु अहं प्रसन्न-तारा-अधिप-तुल्य-दर्शनम् ॥ 68 ॥
क्षुद्रेण पापेन नृशंस-कर्मणा सु-दारुण-अलङ्कृत-वेष-धारिणा ।
बल-अभिभूता हि अबला तपस्विनी कथं नु मे दृष्टि-पथे अद्य सा भवेत् ॥ 69 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे त्रयोदशः सर्गः ॥

No comments:
Post a Comment