ततः कुमुद-षण्ड-आभः निर्मलम् निर्मल-उदयः ।
प्रजगाम नभः चन्द्रः हंसः नीलम् इव उदकम् ॥ 1 ॥
साचिव्यम् इव कुर्वन् सः प्रभया निर्मल-प्रभः ।
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवन-आत्मजम् ॥ 2 ॥
सः ददर्श ततः सीताम् पूर्ण-चन्द्र-निभ-आननाम् ।
शोक-भारैः इव न्यस्ताम् भारैः नावम् इव अम्भसि ॥ 3 ॥
दिदृक्षमाणः वैदेहीम् हनुमान् मारुत-आत्मजः ।
सः ददर्श अविदूर-स्थाः राक्षसीः घोर-दर्शनाः ॥ 4 ॥
एक-अक्षीम् एक-कर्णाम् च कर्ण-प्रावरणाम् तथा ।
अकर्णाम् शङ्कु-कर्णाम् च मस्तक-उच्छ्वास-नासिकाम् ॥ 5 ॥
अति-काय-उत्तम-अङ्गीम् च तनु-दीर्घ-शिरोधराम् ।
ध्वस्त-केशीम् तथा अकेशीम् केश-कम्बल-धारिणीम् ॥ 6 ॥
लम्ब-कर्ण-ललाटाम् च लम्ब-उदर-पयोधराम् ।
लम्ब-ओष्ठीम् चुबुक-ओष्ठीम् च लम्ब-आस्याम् लम्ब-जानुकाम् ॥ 7 ॥
ह्रस्वाम् दीर्घाम् तथा कुब्जाम् विकटाम् वामनाम् तथा ।
करालाम् भुग्न-वक्त्राम् च पिङ्ग-अक्षीम् विकृत-आननाम् ॥ 8 ॥
विकृताः पिङ्गलाः कालीः क्रोधनाः कलह-प्रियाः ।
काल-अयस-महा-शूल-कूट-मुद्गर-धारिणीः ॥ 9 ॥
वराह-मृग-शार्दूल-महिष-अज-शिवा-मुखीः ।
गज-उष्ट्र-हय-पादीः च निखात-शिरसः अपराः ॥ 10 ॥
एक-हस्त-एक-पादाः च खर-कर्ण्यः अश्व-कर्णिकाः ।
गो-कर्णीः हस्ति-कर्णीः च हरि-कर्णीः तथा अपराः ॥ 11 ॥
अनासाः अति-नासाः च तिर्यक्-नासाः विनासिकाः ।
गज-सन्निभ-नासाः च ललाट-उच्छ्वास-नासिकाः ॥ 12 ॥
हस्ति-पादाः महा-पादाः गो-पादाः पाद-चूलिकाः ।
अति-मात्र-शिरः-ग्रीवाः अति-मात्र-कुच-उदरीः ॥ 13 ॥
अति-मात्र-आस्य-नेत्राः च दीर्घ-जिह्वा-नखाः तथा ।
अजा-मुखीः हस्ति-मुखीः गो-मुखीः सूकरी-मुखीः ॥ 14 ॥
हय-उष्ट्र-खर-वक्त्राः च राक्षसीः घोर-दर्शनाः ।
शूल-मुद्गर-हस्ताः च क्रोधनाः कलह-प्रियाः ॥ 15 ॥
करालाः धूम्र-केशीः च राक्षसीः विकृत-आननाः ।
पिबन्तीः सततम् पानम् सदा मांस-सुरा-प्रियाः ॥ 16 ॥
मांस-शोणित-दिग्ध-अङ्गीः मांस-शोणित-भोजनाः ।
ताः ददर्श कपि-श्रेष्ठः रोम-हर्षण-दर्शनाः ॥ 17 ॥
स्कन्ध-वन्तम् उपासीनाः परिवार्य वनस्पतिम् ।
तस्य अधस्तात् च ताम् देवीम् राज-पुत्रीम् अनिन्दिताम् ॥ 18 ॥
लक्षयामास लक्ष्मीवान् हनुमान् जनक-आत्मजाम् ।
निष्प्रभाम् शोक-सन्तप्ताम् मल-सङ्कुल-मूर्धजाम् ॥ 19 ॥
क्षीण-पुण्याम् च्युताम् भूमौ ताराम् निपतिताम् इव ।
चारित्र-व्यपदेश-आढ्याम् भर्तृ-दर्शन-दुर्गताम् ॥ 20 ॥
भूषणैः उत्तमैः हीनाम् भर्तृ-वात्सल्य-भूषणाम् ।
राक्षस-अधिप-संरुद्धाम् बन्धुभिः च विना कृताम् ॥ 21 ॥
वियूथाम् सिंह-संरुद्धाम् बद्धाम् गज-वधूम् इव ।
चन्द्र-रेखाम् पयोद-अन्ते शारद-अभ्रैः इव आवृताम् ॥ 22 ॥
क्लिष्ट-रूपाम् असंस्पर्शात् अयुक्ताम् इव वल्लकीम् ।
सीताम् भर्तृ-वशे युक्ताम् अयुक्ताम् राक्षसी-वशे ॥ 23 ॥
अशोक-वनिकायाः मध्ये शोक-सागरम् आप्लुताम् ।
ताभिः परिवृताम् तत्र स-ग्रहम् इव रोहिणीम् ॥ 24 ॥
ददर्श हनुमान् देवीम् लताम् अकुसुमाम् इव ।
सा मलेन च दिग्ध-अङ्गी वपुषा च अपि अलंकृता ॥ 25 ॥
मृणाली पङ्क-दिग्धा इव विभाति न विभाति च ।
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ 26 ॥
संवृताम् मृग-शाब-अक्षीम् ददर्श हनुमान् कपिः ।
ताम् देवीम् दीन-वदनाम् अ-दीनाम् भर्तृ-तेजसा ॥ 27 ॥
रक्षिताम् स्वेन शीलेन सीताम् असित-लोचनाम् ।
ताम् दृष्ट्वा हनुमान् सीताम् मृग-शाब-निभ-ईक्षणाम् ।
मृग-कन्याम् इव त्रस्ताम् वीक्षमाणाम् समन्ततः ॥ 28 ॥
दहन्तीम् इव निःश्वासैः वृक्षान् पल्लव-धारिणः ।
संघातम् इव शोकानाम् दुःखस्य ऊर्मिम् इव उत्थिताम् ॥ 29 ॥
ताम् क्षमाम् सु-विभक्त-अङ्गीम् विना-आभरण-शोभिनीम् ॥ 30 ॥
प्रहर्षम् अतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।
हर्ष-जानि च सः अश्रूणि ताम् दृष्ट्वा मदिर-ईक्षणाम् ।
मुमुचे हनुमान् तत्र नमः चक्रे च राघवम् ॥ 31 ॥
नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ।
सीता-दर्शन-संहृष्टः हनुमान् संवृतः अभवत् ॥ 32 ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्त-दशः सर्गः ॥

No comments:
Post a Comment