Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 50 - அனுமனைப் பற்றி விசாரிக்க பிரஹஸ்தனுக்கு இராவணன் உத்தரவிடுகிறான்

HOME          PREVIOUS               NEXT

तम् उद्वीक्ष्य महा-बाहुः पिङ्ग-अक्षं पुरतः स्थितम् ।
कोपेन महता आविष्टः रावणः लोक-रावणः ॥ 1 ॥

शङ्का-हृत-आत्मा दध्यौ सः कपि-इन्द्रं तेजसा आवृतम् ।
किम् एषः भगवान् नन्दी भवेत् साक्षात् इह आगतः ॥ 2 ॥

येन शप्तः अस्मि कैलासे मया सञ्चालिते पुरा ।
सः अयं वानर-मूर्तिः स्यात् किं स्वित् बाणः महा-असुरः ॥ 3 ॥

सः राजा रोष-ताम्र-अक्षः प्रहस्तं मन्त्रि-सत्तमम् ।
काल-युक्तम् उवाच इदं वचः अविपुलम् अर्थ-वत् ॥ 4 ॥

दुरात्मा पृच्छ्यताम् एषः कुतः किम् वा अत्र कारणम् ।
वन-भङ्गे च कः अस्य अर्थः राक्षसीनां च तर्जने ॥ 5 ॥

मत्-पुरीम् अप्रधृष्याम् वा आगमने किं प्रयोजनम् ।
आयोधने वा किं कार्यं पृच्छ्यताम् एषः दुर्मतिः ॥ 6 ॥

रावणस्य वचः श्रुत्वा प्रहस्तः वाक्यम् अब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ 7 ॥

यदि तावत् त्वम् इन्द्रेण प्रेषितः रावण-आलयम् ।
तत् त्वम् आख्याहि मा भूत् ते भयं वानर मोक्ष्यसे ॥ 8 ॥

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
चार-रूपम् इदं कृत्वा प्रविष्टः नः पुरीम् इमाम् ॥ 9 ॥

विष्णुना प्रेषितः वा अपि दूतः विजय-काङ्क्षिणा ।
न हि ते वानरं तेजः रूप-मात्रं तु वानरम् ॥ 10 ॥

तत्त्वतः कथयस्व अद्य ततः वानर मोक्ष्यसे ।
अनृतं वदतः च अपि दुर्लभं तव जीवितम् ॥ 11 ॥

अथवा यत्-निमित्तः ते प्रवेशः रावण-आलये ।
एवम् उक्तः हरि-श्रेष्ठः तदा रक्षः-गण-ईश्वरम् ॥ 12 ॥

अब्रवीत् न अस्मि शक्रस्य यमस्य वरुणस्य वा ।
धनदेन न मे सख्यं विष्णुना न अस्मि चोदितः ॥ 13 ॥

जातिः एव मम तु एषा वानरः अहम् इह आगतः ।
दर्शने राक्षस-इन्द्रस्य दुर्लभे तत् इदं मया ॥ 14 ॥

वनं राक्षस-राजस्य दर्शन-अर्थे विनाशितम् ।
ततः ते राक्षसाः प्राप्ताः बलिनः युद्ध-काङ्क्षिणः ।
रक्षण-अर्थं तु देहस्य प्रति-युद्धाः मया रणे ॥ 15 ॥

अस्त्र-पाशैः न शक्यः अहं बद्धुं देव-असुरैः अपि ॥ 16 ॥

पितामहात् एषः वरः माम् अपि एषः अभ्युपागतः ।
राजानं द्रष्टु-कामेन मया अस्त्रम् अनुवर्तितम् ॥ 17 ॥

विमुक्तः हि अहम् अस्त्रेण राक्षसैः तु अभिपीडितः ।
केनचित् राज-कार्येण सम्प्राप्तः अस्मि तव अन्तिकम् ॥ 18 ॥

दूतः अहम् इति विज्ञेयः राघवस्य अमित-ओजसः ।
श्रूयतां च अपि वचनं मम पथ्यम् इदं प्रभो ॥ 19 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: