Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 27 - திரிஜடை தன் கனவைச் சொல்கிறாள்: ஒரு வானரன் இலங்கையை எரிப்பதும், சீதை இராமனுடன் சேர்வதும். சீதை நற்சகுனங்களைக் காண்கிறாள்

HOME          PREVIOUS               NEXT

इति उक्ताः सीतया घोरम् राक्षस्यः क्रोध-मूर्छिताः ।
काश्चित् जग्मुः तत् आख्यातुम् रावणस्य तरस्विनः ॥ 1 ॥

ततः सीताम् उपागम्य राक्षस्यः घोर-दर्शनाः ।
पुनः परुषम् एक-अर्थम् अनर्थ-अर्थम् अथ अब्रुवन् ॥ 2 ॥

अद्य इदानीम् तव अनार्ये सीते पाप-विनिश्चये ।
राक्षस्यः भक्षयिष्यन्ति मांसम् एतत् यथा-सुखम् ॥ 3 ॥

सीताम् ताभिः अनार्याभिः दृष्ट्वा संतर्जिताम् तदा ।
राक्षसी त्रिजटा वृद्धा शयाना वाक्यम् अब्रवीत् ॥ 4 ॥

आत्मानम् खादत अनार्याः न सीताम् भक्षयिष्यथ ।
जनकस्य सुताम् इष्टाम् स्नुषाम् दशरथस्य च ॥ 5 ॥

स्वप्नः हि अद्य मया दृष्टः दारुणः रोम-हर्षणः ।
राक्षसानाम् अभावाय भर्तुः अस्याः भवाय च ॥ 6 ॥

एवम् उक्ताः त्रिजटया राक्षस्यः क्रोध-मूर्छिताः ।
सर्वाः एव अब्रुवन् भीताः त्रिजटाम् ताम् इदम् वचः ॥ 7 ॥

कथयस्व त्वया दृष्टः स्वप्नः अयम् कीदृशः निशि ।
तासाम् श्रुत्वा तु वचनम् राक्षसीनाम् मुखात् च्युतम् ॥ 8 ॥

उवाच वचनम् काले त्रिजटा स्वप्न-संश्रितम् ।
गज-दन्त-मयीम् दिव्याम् शिबिकाम् अन्तरिक्ष-गाम् ॥ 9 ॥

युक्ताम् हंस-सहस्रेण स्वयम् आस्थाय राघवः ।
शुक्ल-माल्य-अम्बर-धरः लक्ष्मणेन सह आगतः ॥ 10 ॥

स्वप्ने च अद्य मया दृष्टा सीता शुक्ल-अम्बर-आवृता ।
सागरेण परिक्षिप्तम् श्वेतम् पर्वतम् आस्थिता ॥ 11 ॥

रामेण संगता सीता भास्करेण प्रभा यथा ।
राघवः च मया दृष्टः चतुर्दन्तम् महा-गजम् ॥ 12 ॥

आरूढः शैल-संकाशम् चचार सह-लक्ष्मणः ।
ततः तौ नर-शार्दूलौ दीप्यमानौ स्व-तेजसा ॥ 13 ॥

शुक्ल-माल्य-अम्बर-धरौ जानकीम् पर्युपस्थितौ ।
ततः तस्य नगस्य अग्रे हि आकाश-स्थस्य दन्तिनः ॥ 14 ॥

भर्त्रा परिगृहीतस्य जानकी स्कन्धम् आश्रिता ।
भर्तुः अङ्कात् समुत्पत्य ततः कमल-लोचना ॥ 15 ॥

चन्द्र-सूर्यौ मया दृष्टौ पाणिना परिमार्जती ।
ततः ताभ्याम् कुमाराभ्याम् आस्थितः सः गज-उत्तमः ॥ 16 ॥

सीतया च विशाल-अक्ष्या लङ्कायाः उपरि स्थितः ।
पाण्डुर-ऋषभ-युक्तेन रथेन अष्ट-युजा स्वयम् ॥ 17 ॥

इह उपयातः काकुत्स्थः सीतया सह भार्यया ।
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥ 18 ॥

आरुह्य पुष्पकम् दिव्यम् विमानम् सूर्य-सन्निभम् ।
उत्तराम् दिशम् आलोक्य जगाम पुरुष-उत्तमः ॥ 19 ॥

एवम् स्वप्ने मया दृष्टः रामः विष्णु-पराक्रमः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः ॥ 20 ॥

न हि रामः महा-तेजाः शक्यः जेतुम् सुर-असुरैः ।
राक्षसैः वा अपि च अन्यैः वा स्वर्गः पाप-जनैः इव ॥ 21 ॥

रावणः च मया दृष्टः क्षितौ तैल-समुक्षितः ।
रक्त-वासाः पिबन् मत्तः करवीर-कृत-स्रजः ॥ 22 ॥

विमानात् पुष्पकात् अद्य रावणः पतितः भुवि ।
कृष्यमाणः स्त्रिया दृष्टः मुण्डः कृष्ण-अम्बरः पुनः ॥ 23 ॥

रथेन खर-युक्तेन रक्त-माल्य-अनुलेपनः ।
पिबन् तैलम् हसन् नृत्यन् भ्रान्त-चित्त-आकुल-इन्द्रियः ॥ 24 ॥

गर्दभेन ययौ शीघ्रम् दक्षिणाम् दिशम् आस्थितः ।
पुनः एव मया दृष्टः रावणः राक्षस-ईश्वरः ॥ 25 ॥

पतितः अवाक् चिरात् भूमौ गर्दभात् भय-मोहितः ।
सहसा उत्थाय संभ्रान्तः भय-आर्तः मद-विह्वलः ॥ 26 ॥

उन्मत्तः इव दिग्-वासा दुर्वाक्यम् प्रलपन् बहु ।
दुर्गन्धम् दुःसहम् घोरम् तिमिरम् नरक-उपमम् ॥ 27 ॥

मल-पङ्कम् प्रविश्य आशु मग्नः तत्र सः रावणः ।
कण्ठे बद्ध्वा दश-ग्रीवम् प्रमदा रक्त-वासिनी ॥ 28 ॥

काली कर्दम-लिप्त-अङ्गी दिशम् याम्याम् प्रकर्षति ।
एवम् तत्र मया दृष्टः कुम्भकर्णः निशाचरः ॥ 29 ॥

रावणस्य सुताः सर्वे दृष्टाः तैल-समुक्षिताः ।
वराहेण दश-ग्रीवः शिंशुमारेण च इन्द्रजित् ॥ 30 ॥

उष्ट्रेण कुम्भकर्णः च प्रयातः दक्षिणाम् दिशम् ।
एकः तत्र मया दृष्टः श्वेत-छत्रः विभीषणः ॥ 31 ॥

शुक्ल-माल्य-अम्बर-धरः शुक्ल-गन्धानुलेपनः ।
शङ्ख-दुन्दुभि-निर्घोषैः नृत्य-गीतैः अलंकृतः ॥ 32 ॥

आरुह्य शैल-संकाशम् मेघ-स्तनित-निस्स्वनम् ।
चतुर्दन्तम् गजम् दिव्यम् आस्ते तत्र विभीषणः ॥ 33 ॥

चतुर्भिः सचिवैः सार्थम् वैहायसम् उपस्थितः ।
समाजः च मया दृष्टः गीत-वादित्र-निःस्वनः ॥ 34 ॥

पिबताम् रक्त-माल्यानाम् रक्षसाम् रक्त-वाससाम् ।
लङ्का च इयम् पुरी रम्या स-वाजि-रथ-कुञ्जराः ॥ 35 ॥

सागरे पतिता दृष्टा भग्न-गोपुर-तोरणा ।
लङ्का दृष्टा मया स्वप्ने रावणेन अभिरक्षिता ॥ 36 ॥

दग्धा रामस्य दूतेन वानरेण तरस्विना ।
पीत्वा तैलम् प्रनृत्ताः च प्रहसन्त्यः महा-स्वनाः ॥ 37 ॥

लङ्कायाम् भस्म-रूक्षायाम् सर्वाः राक्षस-स्त्रियः ।
कुम्भकर्ण-आदयः च इमे सर्वे राक्षस-पुङ्गवाः ॥ 38 ॥

रक्तम् निवसनम् गृह्य प्रविष्टाः गोमय-ह्रदे ।
अपगच्छत नश्यध्वम् सीताम् आप्नोति राघवः ॥ 39 ॥

घातयेत् परम-अमर्षी युष्मान् सार्थम् हि राक्षसैः ।
प्रियाम् बहु-मताम् भार्याम् वन-वासम् अनुव्रताम् ॥ 40 ॥

भर्त्सिताम् तर्जिताम् वा अपि न अनुमंस्यति राघवः ।
तत् अलम् क्रूर-वाक्यैः च सांत्वम् एव अभिधीयताम् ॥ 41 ॥

अभियाचाम वैदेहीम् एतत् हि मम रोचते ।
यस्याम् एवम्-विधः स्वप्नः दुःखितायाम् प्रदृश्यते ॥ 42 ॥

सा दुःखैः विविधैः मुक्ता प्रियम् प्राप्नोति अनुत्तमम् ।
भर्त्सिताम् अपि याचध्वम् राक्षस्यः किम् विवक्षया ॥ 43 ॥

राघवात् हि भयम् घोरम् राक्षसानाम् उपस्थितम् ।
प्रणिपात-प्रसन्ना हि मैथिली जनक-आत्मजा ॥ 44 ॥

अलम् एषा परित्रातुम् राक्षस्यः महतः भयात् ।
अपि च अस्याः विशाल-अक्ष्याः न किञ्चित् उपलक्षये ॥ 45 ॥

विरूपम् अपि च अङ्गेषु सु-सूक्ष्मम् अपि लक्षणम् ।
छाया-वैगुण्य-मात्रम् तु शङ्के दुःखम् उपस्थितम् ॥ 46 ॥

अदुःख-अर्हाम् इमाम् देवीम् वैहायसम् उपस्थिताम् ।
अर्थ-सिद्धिम् तु वैदेह्याः पश्यामि अहम् उपस्थिताम् ॥ 47 ॥

राक्षस-इन्द्र-विनाशम् च विजयम् राघवस्य च ।
निमित्त-भूतम् एतत् तु श्रोतुम् अस्याः महत् प्रियम् ॥ 48 ॥

दृश्यते च स्फुरत्-चक्षुः पद्म-पत्रम् इव आयतम् ।
ईषत् च हृषितः अस्याः दक्षिणायाः हि अदक्षिणः ॥ 49 ॥

अकस्मात् एव वैदेह्याः बाहुः एकः प्रकम्पते ।
करेणु-हस्त-प्रतिमः सव्यः च ऊरुः अनुत्तमः ॥ 50 ॥

वेपमानः सूचयति राघवम् पुरतः स्थितम् ।
पक्षी च शाखा-निलयम् प्रविष्टः पुनः पुनः च उत्तम-सांत्व-वादी ।
सु-स्वागताम् वाचम् उदीरयन् पुनः पुनः च उदयति इव हृष्टः ॥ 51 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्त-विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: