Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 22 - இரண்டு மாதங்களுக்குள் இணங்காவிட்டால் கொன்றுவிடுவேன் என்று இராவணன் மிரட்டுகிறான்; இராமனின் பார்வையில் பட்டவுடன் உனது முடிவு நிச்சயம் என்று சீதை எச்சரிக்கிறாள்.

HOME          PREVIOUS               NEXT

सीतायाः वचनम् श्रुत्वा परुषम् राक्षस-अधिपः ।
प्रत्युवाच ततः सीताम् वि-प्रियम् प्रिय-दर्शनाम् ॥ 1 ॥

यथा यथा सान्त्वयिता वश्यः स्त्रीणाम् तथा तथा ।
यथा यथा प्रियम् वक्ता परिभूतः तथा तथा ॥ 2 ॥

सन्नियच्छति मे क्रोधम् त्वयि कामः समुत्थितः ।
द्रवतः अमार्गम् आसाद्य हयान् इव सु-सारथिः ॥ 3 ॥

वामः कामः मनुष्याणाम् यस्मिन् किल निबध्यते ।
जने तस्मिन् तु अनुक्रोशः स्नेहः च किल जायते ॥ 4 ॥

एतस्मात् कारणात् न त्वाम् घातयामि वर-आनने ।
वध-अर्हाम् अवमान-अर्हाम् मिथ्या-प्रव्रजिते रताम् ॥ 5 ॥

परुषाणि इह वाक्यानि यानि यानि ब्रवीषि माम् ।
तेषु तेषु वधः युक्तः तव मैथिलि दारुणः ॥ 6 ॥

एवम् उक्त्वा तु वैदेहीम् रावणः राक्षस-अधिपः ।
क्रोध-संरम्भ-संयुक्तः सीताम् उत्तरम् अब्रवीत् ॥ 7 ॥

द्वौ मासौ रक्षितव्यौ मे यः अवधिः ते मया कृतः ।
ततः शयनम् आरोह मम त्वम् वर-वर्णिनि ॥ 8 ॥

ऊर्ध्वम् द्वाभ्याम् तु मासाभ्याम् भर्तारम् माम् अनिच्छतीम् ।
मम त्वाम् प्रातः-आश-अर्थम् आलभन्ते महा-अनसे ॥ 9 ॥

ताम् तर्ज्यमानाम् सम्प्रेक्ष्य राक्षस-इन्द्रेण जानकीम् ।
देव-गन्धर्व-कन्याः ताः विषेदुः विकृत-ईक्षणाः ॥ 10 ॥

ओष्ठ-प्रकारैः अपराः वक्त्र-नेत्रैः तथा अपराः ।
सीताम् आश्वासयामासुः तर्जिताम् तेन रक्षसा ॥ 11 ॥

ताभिः आश्वासिता सीता रावणम् राक्षस-अधिपम् ।
उवाच आत्म-हितम् वाक्यम् वृत्त-शौण्डीर्य-गर्वितम् ॥ 12 ॥

नूनम् न ते जनः कश्चित् अस्ति निःश्रेयसे स्थितः ।
निवारयति यः न त्वाम् कर्मणः अस्मात् विगर्हितात् ॥ 13 ॥

माम् हि धर्म-आत्मनः पत्नीम् शचीम् इव शची-पतेः ।
त्वत्-अन्यः त्रिषु लोकेषु प्रार्थयेत् मनसा अपि कः ॥ 14 ॥

राक्षस-अधम रामस्य भार्याम् अमित-तेजसः ।
उक्तवान् असि यत् पापम् क्व गतः तस्य मोक्ष्यसे ॥ 15 ॥

यथा दृप्तः च मातङ्गः शशः च सदृशः युधि ।
तथा मातङ्ग-वत् रामः त्वम् नीचः शश-वत् स्मृतः ॥ 16 ॥

सः त्वम् इक्ष्वाकु-नाथम् वै क्षिपन् इह न लज्जसे ।
चक्षुषोः विषयम् तस्य न तावत् उपगच्छसि ॥ 17 ॥

इमे ते नयने क्रूरे विरूपे कृष्ण-पिङ्गले ।
क्षितौ न पतिते कस्मात् माम् अनार्य निरीक्षितः ॥ 18 ॥

तस्य धर्म-आत्मनः पत्नीम् स्नुषाम् दशरथस्य च ।
कथम् व्याहरतः माम् ते न जिह्वा व्यावशीर्यते ॥ 19 ॥

असन्देशात् तु रामस्य तपसः च अनुपालनात् ।
न त्वाम् कुर्मि दश-ग्रीव भस्म भर्त्सना-अर्ह तेजसा ॥ 20 ॥

न अपहर्तुम् अहम् शक्या त्वया रामस्य धीमतः ।
विधिः तव वध-अर्थाय विहितः न अत्र संशयः ॥ 21 ॥

शूरेण धनद-भ्रात्रा बलैः समुदितेन च ।
अपोह्य रामम् कस्मात् हि दार-चौर्यम् त्वया कृतम् ॥ 22 ॥

सीतायाः वचनम् श्रुत्वा रावणः राक्षस-अधिपः ।
विवृत्य नयने क्रूरे जानकीम् अन्ववैक्षत ॥ 23 ॥

नील-जीमूत-संकाशः महा-भुज-शिरोधरः ।
सिंह-सत्त्व-गतिः श्रीमान् दीप्त-जिह्व-अग्र-लोचनः ॥ 24 ॥

चल-अग्र-मकुट-प्रांशुः चित्र-माल्य-अनुलेपनः ।
रक्त-माल्य-अम्बर-धरः तत्-संगद-विभूषणः ॥ 25 ॥

श्रोणि-सूत्रेण महता मेचकेन सु-संवृतः ।
अमृत-उत्पादन-दग्धेन भुजगेन इव मन्दरः ॥ 26 ॥

ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस-ईश्वरः ।
शुशुभे अचल-संकाशः शृंगाभ्याम् इव मन्दरः ॥ 27 ॥

तरुण-आदित्य-वर्णाभ्याम् कुण्डलाभ्याम् विभूषितः ।
रक्त-पल्लव-पुष्पाभ्याम् अशोकाभ्याम् इव अचलः ॥ 28 ॥

सः कल्प-वृक्ष-प्रतिमः वसन्तः इव मूर्तिमान् ।
श्मशान-चैत्य-प्रतिमः भूषितः अपि भयंकरः ॥ 29 ॥

अवेक्षमाणः वैदेहीम् कोप-संरक्त-लोचनः ।
उवाच रावणः सीताम् भुजंगः इव निःश्वसन् ॥ 30 ॥

अनयेन अभिसंपन्नम् अर्थ-हीनम् अनुव्रते ।
नाशयामि अहम् अद्य त्वाम् सूर्यः संध्याम् इव ओजसा ॥ 31 ॥

इति उक्त्वा मैथिलीम् राजा रावणः शत्रु-रावणः ।
संदिदेश ततः सर्वाः राक्षसीः घोर-दर्शनाः ॥ 32 ॥

एक-अक्षीम् एक-कर्णाम् च कर्ण-प्रावरणाम् तथा ।
गो-कर्णीम् हस्ति-कर्णीम् च लंब-कर्णीम् अकर्णिकाम् ॥ 33 ॥

हस्ति-पादी अश्व-पादी च गो-पादीम् पाद-चूलिकाम् ।
एक-अक्षीम् एक-पादीम् च पृथु-पादीम् अपादिकाम् ॥ 34 ॥

अति-मात्र-शिरः-ग्रीवाम् अति-मात्र-कुच-उदरीम् ।
अति-मात्र-अस्य-नेत्राम् च दीर्घ-जिह्वाम् अ-जिह्विकाम् ॥ 35 ॥

अनासिकाम् सिंह-मुखीम् गो-मुखीम् सूकरी-मुखीम् ।
यथा मत्-वश-गा सीता क्षिप्रम् भवति जानकी ॥ 36 ॥

तथा कुरुत राक्षस्यः सर्वाः क्षिप्रम् समेत्य च ।
प्रतिलोम-अनुलोमैः च साम-दान-आदि-भेदनैः ॥ 37 ॥

आवर्जयत वैदेहीम् दण्डस्य उद्यमनेन च ।
इति प्रतिसमादिश्य राक्षस-इन्द्रः पुनः पुनः ॥ 38 ॥

काम-मन्यु-परीत-आत्मा जानकीम् पर्यतर्जयत् ।
उपगम्य ततः शीघ्रम् राक्षसी धान्य-मालिनी ॥ 39 ॥

परिष्वज्य दश-ग्रीवम् इदम् वचनम् अब्रवीत् ।
मया क्रीड महाराज सीतया किम् तव अनया ॥ 40 ॥

विवर्णया कृपणया मानुष्या राक्षस-ईश्वर ।
नूनम् अस्याः महाराज न दिव्यान् भोग-सत्तमान् ॥ 41 ॥

विदधाति अमर-श्रेष्ठः तव बाहु-बल-अर्जितान् ।
अकामाम् कामयानस्य शरीरम् उपतप्यते ॥ 42 ॥

इच्छन्तीम् कामयानस्य प्रीतिḥ भवति शोभना ।
एवम् उक्तः तु राक्षस्या समुत्क्षिप्तः ततः बली ॥ 43 ॥

प्रहसन् मेघ-संकाशः राक्षसः सः न्यवर्तत ।
प्रस्थितः सः दश-ग्रीवः कम्पयन् इव मेदिनीम् ॥ 44 ॥

ज्वलत्-भास्कर-वर्णाभम् प्रविवेश निवेशनम् ।
देव-गन्धर्व-कन्याः च नाग-कन्याः च सर्वतः ॥ 45 ॥

परिवार्य दश-ग्रीवम् विविशुः तत् गृह-उत्तमम् ।
सः मैथिलीम् धर्म-पराम् अवस्थिताम् प्रपेपमानाम् परिभर्त्स्य रावणः ।
विहाय सीताम् मदनेन मोहितः स्वम् एव वेश्म प्रविवेश भास्वरम् ॥ 46 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे द्वा-विंशः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: