ततः प्रस्रवणम् शैलम् ते गत्वा चित्र-काननम् ।
प्रणम्य शिरसा रामम् लक्ष्मणम् च महा-बलम् ॥ ५-६५-१ ॥
युव-राजम् पुरः कृत्वा सुग्रीवम् अभिवाद्य च ।
प्रवृत्तम् अथ सीतायाः प्रवक्तुम् उपचक्रमुः ॥ ५-६५-२ ॥
रावण-अन्तः-पुरे रोधम् राक्षसीभिः च तर्जनम् ।
रामे समनुरागम् च यः च अपि समयः कृतः ॥ ५-६५-३ ॥
एतत् आख्यान्ति ते सर्वे हरयः राम-सन्निधौ ।
वैदेहीम् अक्षताम् श्रुत्वा रामः तु उत्तरम् अब्रवीत् ॥ ५-६५-४ ॥
क्व सीता वर्तते देवी कथम् च मयि वर्तते ।
एतत् मे सर्वम् आख्यात वैदेहीम् प्रति वानराः ॥ ५-६५-५ ॥
रामस्य गदितम् श्रुत्वा हरयः राम-सन्निधौ ।
चोदयन्ति हनूमन्तम् सीता-वृत्त-अन्त-कोविदम् ॥ ५-६५-६ ॥
श्रुत्वा तु वचनम् तेषाम् हनूमान् मारुत-आत्मजः ।
प्रणम्य शिरसा देव्यै सीतायै ताम् दिशम् प्रति ॥ ५-६५-७ ॥
उवाच वाक्यम् वाक्य-ज्ञः सीतायाः दर्शनम् यथा ।
समुद्रम् लङ्घयित्वा अहम् शत-योजनम् आयतम् ॥ ५-६५-८ ॥
अगच्छम् जानकीम् सीताम् मार्गमाणः दिदृक्षया ।
तत्र लङ्का इति नगरी रावणस्य दुरात्मनः ॥ ५-६५-९ ॥
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।
तत्र दृष्टा मया सीता रावण-अन्तः-पुरे सती ॥ ५-६५-१० ॥
संन्यस्य त्वयि जीवन्ती राम राम-मनोरथम् ।
दृष्टा मे राक्षसी-मध्ये तर्ज्यमाना मुहुः मुहुः ॥ ५-६५-११ ॥
राक्षसीभिः विरूपाभिः रक्षिता प्रमदा-वने ।
दुःखम् आपद्यते देवी तव अदुःख-उचिता सती ॥ ५-६५-१२ ॥
रावण-अन्तः-पुरे रुद्ध्वा राक्षसीभिः सु-रक्षिता ।
एक-वेणी-धरा दीना त्वयि चिन्ता-परायणा ॥ ५-६५-१३ ॥
अधः-शय्या विवर्ण-अङ्गी पद्मिनी इव हिम-आगमे ।
रावणात् विनिवृत्त-अर्था मर्तव्य-कृत-निश्चया ॥ ५-६५-१४ ॥
देवी कथञ्चित् काकुत्स्थ त्वत्-मना मार्गिता मया ।
इक्ष्वाकु-वंश-विख्यातिम् शनैः कीर्तयता अनघ ॥ ५-६५-१५ ॥
सा मया नर-शार्दूल विश्वासम् उपपादिता ।
ततः सम्भाषिता देवी सर्वम् अर्थम् च दर्शिता ॥ ५-६५-१६ ॥
राम-सुग्रीव-सख्यम् च श्रुत्वा प्रीतिम् उपागता ।
नियतः समुदाचारः भक्तिः च अस्याः तथा त्वयि ॥ ५-६५-१७ ॥
एवम् मया महा-भागा दृष्टा जनक-नन्दिनी ।
उग्रेण तपसा युक्ता त्वत्-भक्त्या पुरुष-ऋषभ ॥ ५-६५-१८ ॥
अभिज्ञानम् च मे दत्तम् यथा-वृत्तम् तव अन्तिके ।
चित्र-कूटे महा-प्राज्ञ वायसम् प्रति राघव ॥ ५-६५-१९ ॥
विज्ञाप्यः च नर-व्याघ्रः रामः वायु-सुत त्वया ।
अखिलेन इह यत् दृष्टम् इति माम् आह जानकी ॥ ५-६५-२० ॥
अयम् च अस्मै प्रदातव्यम् यत्नात् सु-परिरक्षितम् ।
ब्रुवता वचनानि एवम् सुग्रीवस्य उपशृण्वतः ॥ ५-६५-२१ ॥
एषः चूडा-मणिः श्रीमान् मया ते यत्न-रक्षितः ।
मनः-शिलायाः तिलकः तम् स्मरस्व इति च अब्रवीत् ॥ ५-६५-२२ ॥
त्वया प्रष्टे तिलके तम् किल स्मर्तुम् अर्हसि ।
एषः निर्यातितः श्रीमान् मया ते वारि-सम्भवः ॥ ५-६५-२३ ॥
एतम् दृष्ट्वा प्रमोदिष्ये व्यसने त्वाम् इव अनघ ।
जीवितम् धारयिष्यामि मासम् दशरथ-आत्मज ॥ ५-६५-२४ ॥
ऊर्ध्वम् मासात् न जीवेयम् रक्षसाम् वशम् आगता ।
इति माम् अब्रवीत् सीता कृश-अङ्गी धर्म-चारिणी ॥ ५-६५-२५ ॥
रावण-अन्तः-पुरे रुद्धा मृगी इव उत्फुल्ल-लोचना ।
एतत् एव मया आख्यातम् सर्वम् राघव यत् यथा ॥ ५-६५-२६ ॥
सर्वथा सागर-जले सन्तारः प्रविधीयताम् ।
तौ जात-आश्वासौ राज-पुत्रौ विदित्वा ॥ ५-६५-२७ ॥
तत् च अभिज्ञानम् राघवाय प्रदाय ।
देव्याः च आख्यातम् सर्वम् एव आनुपूर्व्यात् ।
वाचा सम्पूर्णम् वायु-पुत्रः शशंस ॥ ५-६५-२७ ॥
इति आर्षे श्रीमद्-रामायणे आदि-काव्ये सुन्दर-काण्डे पञ्च-षष्टितमः सर्गः ॥

No comments:
Post a Comment