Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 62 - தடுக்க வந்த காவலர்களை வானரர்கள் தாக்குகிறார்கள்.


HOME          PREVIOUS               NEXT

तान् उवाच हरि-श्रेष्ठः हनूमान् वानर-ऋषभः ।
अव्यग्र-मनसः यूयम् मधु सेवत वानराः ॥ ५-६२-१ ॥

अहम् आवारयिष्यामि युष्माकम् परिपन्थिनः ।
श्रुत्वा हनुमतः वाक्यम् हरीणाम् प्रवरः अङ्गदः ॥ ५-६२-२ ॥

प्रत्युवाच प्रसन्न-आत्मा पिबन्तु हरयः मधु ।
अवश्यम् कृत-कार्यस्य वाक्यम् हनुमतः मया ॥ ५-६२-३ ॥

अकार्यम् अपि कर्तव्यम् किम् अङ्ग पुनः ईदृशम् ।
अङ्गदस्य मुखात् श्रुत्वा वचनम् वानर-ऋषभाः ॥ ५-६२-४ ॥

साधु साधु इति संहृष्टाः वानराः प्रत्यपूजयन् ।
पूजयित्वा अङ्गदम् सर्वे वानराः वानर-ऋषभम् ॥ ५-६२-५ ॥

जग्मुः मधु-वनम् यत्र नदी-वेगः इव द्रुतम् ।
ते प्रहृष्टाः मधु-वनम् पालान् आक्रम्य वीर्यतः ॥ ५-६२-६ ॥

अतिसर्गात् च पटवः दृष्ट्वा श्रुत्वा च मैथिलीम् ।
पपुः सर्वे मधु तदा रसवत्-फलम् आददुः ॥ ५-६२-७ ॥

उत्पत्य च ततः सर्वे वन-पालान् समागताः ।
ताडयन्ति स्म शतशः सक्तान् मधु-वने तदा ॥ ५-६२-८ ॥

मधूनि द्रोण-मात्राणि बहुभिः परिगृह्य ते ।
पिबन्ति सहिताः सर्वे भक्षयन्ति तथा अपरे ॥ ५-६२-९ ॥

केचित् पीत्वा अपविध्यन्ति मधूनि मधु-पिङ्गलाः ।
मधु-उच्छिष्टेन केचित् च जघ्नुः अन्योन्यम् उत्कटाः ॥ ५-६२-१० ॥

अपरे वृक्ष-मूलेषु शाखाम् गृह्य व्यवस्थिताः ।
अत्यर्थम् च मद-ग्लानाः पर्णानि आस्तीर्य शेरते ॥ ५-६२-११ ॥

उन्मत्त-भूताः प्लवगाः मधु-मत्ताः च हृष्टवत् ।
क्षिपन्ति अपि तथा अन्योन्यम् स्खलन्ति अपि तथा अपरे ॥ ५-६२-१२ ॥

केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।
हरयः मधुना मत्ताः केचित् सुप्ताः मही-तले ॥ ५-६२-१३ ॥

कृत्वा केचित् हसन्ति अन्ये केचित् कुर्वन्ति च इतरत् ।
कृत्वा केचित् वदन्ति अन्ये केचित् बुध्यन्ति च इतरत् ॥ ५-६२-१४ ॥

ये अपि अत्र मधु-पालाः स्युः प्रेष्याः दधि-मुखस्य तु ।
ते अपि तैः वानरैः भीमैः प्रतिषिद्धाः दिशः गताः ॥ ५-६२-१५ ॥

जानुभिः च प्रकृष्टाः च देव-मार्गम् च दर्शिताः ।
अब्रुवन् परम-उद्विग्नाः गत्वा दधि-मुखम् वचः ॥ ५-६२-१६ ॥

हनूमता दत्त-वरैः हतम् मधु-वनम् बलात् ।
वयम् च जानुभिः कृष्टाः देव-मार्गम् च दर्शिताः ॥ ५-६२-१७ ॥

ततः दधि-मुखः क्रुद्धः वन-पः तत्र वानरः ।
हतम् मधु-वनम् श्रुत्वा सान्त्वयामास तान् हरीन् ॥ ५-६२-१८ ॥

इह आगच्छत गच्छामः वानरान् अति-दर्पितान् ।
बलेन आवारयिष्यामः मधु भक्षयतः वयम् ॥ ५-६२-१९ ॥

श्रुत्वा दधि-मुखस्य इदम् वचनम् वानर-ऋषभाः ।
पुनः वीराः मधु-वनम् तेन एव सहिताः ययुः ॥ ५-६२-२० ॥

मध्ये च एषाम् दधि-मुखः प्रगृह्य सु-महत् तरुम् ।
समभ्यधावत् वेगेन ते च सर्वे प्लवङ्गमाः ॥ ५-६२-२१ ॥

ते शिलाः पादपान् च अपि पाषाणान् च अपि वानराः ।
गृहीत्वा अभ्यागमन् क्रुद्धाः यत्र ते कपि-कुञ्जराः ॥ ५-६२-२२ ॥

ते स्वामि-वचनम् वीराः हृदयेषु अवसज्य तत् ।
त्वरया हि अभ्यधावन्त साल-ताल-शिला-आयुधाः ॥ ५-६२-२३ ॥

वृक्ष-स्थान् च तल-स्थान् च वानरान् बल-दर्पितान् ।
अभ्यक्रामन्त ते वीराः पालाः तत्र सहस्रशः ॥ ५-६२-२४ ॥

अथ दृष्ट्वा दधि-मुखम् क्रुद्धम् वानर-पुङ्गवाः ।
अभ्यधावन्त वेगेन हनूमत्-प्रमुखाः तदा ॥ ५-६२-२५ ॥

तम् स-वृक्षम् महा-बाहुम् आपतन्तम् महा-बलम् ।
आर्यकम् प्राहरत् तत्र बाहुभ्याम् कुपितः अङ्गदः ॥ ५-६२-२६ ॥

मद-अन्धः न वेद एनम् आर्यकः अयम् मम इति सः ।
अथ एनम् निष्पिपेष आशु वेगवत् वसुधा-तले ॥ ५-६२-२७ ॥

सः भग्न-बाहुः विमुखः विह्वलः शोणित-उक्षितः ।
मुमोह सहसा वीरः मुहूर्तम् कपि-कुञ्जरः ॥ ५-६२-२८ ॥

सः समाश्वस्य सहसा सङ्क्रुद्धः राज-मातुलः ।
वानरान् वारयामास दण्डेन मधु-मोहितान् ॥ ५-६२-२९ ॥

सः कथञ्चित् विमुक्तः तैः वानरैः वानर-ऋषभः ।
उवाच एक-अन्तम् आगम्य भृत्यान् तान् समुपागतान् ॥ ५-६२-३० ॥

एते तिष्ठन्तु गच्छामः भर्ता नः यत्र वानरः ।
सुग्रीवः विपुल-ग्रीवः सह रामेण तिष्ठति ॥ ५-६२-३१ ॥

सर्वम् च एव अङ्गदे दोषम् श्रावयिष्यामि पार्थिव ।
अमर्षी वचनम् श्रुत्वा घातयिष्यति वानरान् ॥ ५-६२-३२ ॥

इष्टम् मधु-वनम् हि एतत् सुग्रीवस्य महा-आत्मनः ।
पितृ-पैतामहम् दिव्यम् देवैः अपि दुरासदम् ॥ ५-६२-३३ ॥

सः वानरान् इमान् सर्वान् मधु-लुब्धान् गत-आयुषः ।
घातयिष्यति दण्डेन सुग्रीवः स-सुहृत्-जनान् ॥ ५-६२-३४ ॥

वध्याः हि एते दुरात्मानः नृप-आज्ञा-परिभाविनः ।
अमर्ष-प्रभवः रोषः सफलः नः भविष्यति ॥ ५-६२-३५ ॥

एवम् उक्त्वा दधि-मुखः वन-पालः महा-बलः ।
जगाम सहसा उत्पत्य वन-पालैः समन्वितः ॥ ५-६२-३६ ॥

निमेष-अन्तर-मात्रेण सः हि प्राप्तः वन-आलयः ।
सहस्र-अंशु-सुतः धीमान् सुग्रीवः यत्र वानरः ॥ ५-६२-३७ ॥

रामम् च लक्ष्मणम् च एव दृष्ट्वा सुग्रीवम् एव च ।
सम्-प्रतिष्ठाम् जगतीम् आकाशात् निपपात ह ॥ ५-६२-३८ ॥

सः निपत्य महा-वीर्यः सर्वैः तैः परिवारितः ।
हरिः दधि-मुखः पालैः पालानाम् परम-ईश्वरः ॥ ५-६२-३९ ॥

सः दीन-वदनः भूत्वा कृत्वा शिरसि च अञ्जलिम् ।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ ५-६२-४० ॥

इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे द्वि-षष्टितमः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: