Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 6 - இராவணனின் அரண்மனையையும் மற்ற தலைவர்களின் இல்லங்களையும் காண்கிறார்

HOME          PREVIOUS               NEXT

स निकामं विमानेषु निषण्णः काम-रूप-धृत् ।
विचचार पुनः लङ्कां लाघवेन समन्वितः ॥ 1 ॥

आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् ।
प्राकारेण अर्क-वर्णेन भास्वरेण अभिसंवृतम् ॥ 2 ॥

रक्षितं राक्षसैः घोरैः सिंहैः इव महत् वनम् ।
समीक्षमाणः भवनं चकाशे कपि-कुञ्जरः ॥ 3 ॥

रूप्यक-उपहितैः चित्रैः तोरणैः हेम-भूषितैः ।
विचित्राभिः च कक्ष्याभिः द्वारैः च रुचिरैः वृतम् ॥ 4 ॥

गज-आस्थितैः महा-मात्रैः शूरैः च विगत-श्रमैः ।
उपस्थितम् असंहार्यैः हयैः स्यन्दन-यायिभिः ॥ 5 ॥

सिंह-व्याघ्र-तनु-त्राणैः दन्त-काञ्चन-राजतैः ।
घोष-वद्भिः विचित्रैः च सदा विचरितं रथैः ॥ 6 ॥

बहु-रत्न-समाकीर्णं पर-अर्थ्य-आसन-भाजनम् ।
महा-रथ-समावासं महा-रथ-महा-स्वनम् ॥ 7 ॥

दृश्यैः च परम-उदारैः तैः तैः च मृग-पक्षिभिः ।
विविधैः बहु-साहस्रैः परिपूर्णं समन्ततः ॥ 8 ॥

विनीतैः अन्तः-पालैः च रक्षोभिः च सुरक्षितम् ।
मुख्याभिः च वर-स्त्रीभिः परिपूर्णं समन्ततः ॥ 9 ॥

मुदित-प्रमदा-रत्नं राक्षस-इन्द्र-निवेशनम् ।
वर-आभरण-संह्रादैः समुद्र-स्वन-निस्स्वनम् ॥ 10 ॥

तत् राज-गुण-संपन्नं मुख्यैः च अगुरु-चन्दनैः ।
महा-जनैः समाकीर्णं सिंहैः इव महत् वनम् ॥ 11 ॥

भेरी-मृदङ्ग-अभिरुतं शङ्ख-घोष-निनादितम् ।
नित्य-अर्चितं पर्व-हुतं पूजितं राक्षसैः सदा ॥ 12 ॥

समुद्रम् इव गम्भीरं समुद्रम् इव निस्स्वनम् ।
महा-आत्मनः महत् वेश्म महा-रत्न-परिच्छदम् ॥ 13 ॥

महा-रत्न-समाकीर्णं ददर्श सः महा-कपिः ।
विराजमानं वपुषा गज-अश्व-रथ-सङ्कुलम् ॥ 14 ॥

लङ्का-आभरणम् इति एव सः अमन्यत महा-कपिः ।
चचार हनुमान् तत्र रावणस्य समीपतः ॥ 15 ॥

गृहात् गृहं राक्षसानाम् उद्यानानि च वानरः ।
वीक्षमाणः अहि-असंत्रस्तः प्रासादान् च चचार सः ॥ 16 ॥

अवप्लुत्य महा-वेगः प्रहस्तस्य निवेशनम् ।
ततः अन्यत् पुप्लुवे वेश्म महा-पार्श्वस्य वीर्यवान् ॥ 17 ॥

अथ मेघ-प्रतीकाशं कुम्भकर्ण-निवेशनम् ।
विभीषणस्य च तदा पुप्लुवे सः महा-कपिः ॥ 18 ॥

महोदरस्य च गृहं विरूपाक्षस्य च एव हि ।
विद्युत्-जिह्वस्य भवनं विद्युन्मालेः तथा एव च ॥ 19 ॥

वज्र-दंष्ट्रस्य च तथा पुप्लुवे सः महा-कपिः ।
शुकस्य च महा-तेजाः सारणस्य च धीमतः ॥ 20 ॥

तथा च इन्द्रजितः वेश्म जगाम हरि-यूथ-पः ।
जम्बु-मालेः सुमालेः च जगाम हरि-सत्तमः ॥ 21 ॥

रश्मि-केतोः च भवनं सूर्य-केतोः तथा एव च ।
वज्र-कायस्य च तथा पुप्लुवे सः महा-कपिः ॥ 22 ॥

धूम्राक्षस्य च सम्पातेः भवनं मारुत-आत्मजः ।
विद्युत्-रूपस्य भीमस्य घनस्य विघनस्य च ॥ 23 ॥

शुक-नासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्म-कर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 24 ॥

युद्ध-उन्मत्तस्य मत्तस्य ध्वज-ग्रीवस्य नादिनः ।
विद्युत्-जिह्व-इन्द्र-जिह्वानां तथा हस्ति-मुखस्य च ॥ 25 ॥

करालस्य पिशाचस्य शोणित-अक्षस्य च एव हि ।
क्रममाणः क्रमेण एव हनुमान् मारुत-आत्मजः ॥ 26 ॥

तेषु तेषु महा-अर्हेषु भवनेषु महा-यशाः ।
तेषाम् ऋद्धि-मताम् ऋद्धिं ददर्श सः महा-कपिः ॥ 27 ॥

सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
आससाद अथ लक्ष्मीवान् राक्षस-इन्द्र-निवेशनम् ॥ 28 ॥

रावणस्य उपशायिन्यः ददर्श हरि-सत्तमः ।
विचरन् हरि-शार्दूलः राक्षसीः विकृत-ईक्षणाः ॥ 29 ॥

शूल-मुद्गर-हस्ताः च शक्ति-तोमर-धारिणीः ।
ददर्श विविधान् गुल्मान् तस्य रक्षः-पतेः गृहे ॥ 30 ॥

राक्षसान् च महा-कायान् नाना-प्रहरण-उद्यातान् ।
रक्तान् श्वेतान् सितान् च एव हरीन् च अपि महा-जवान् ॥ 31 ॥

कुलीनान् रूप-संपन्नान् गजान् पर-गज-अरुजान् ।
निष्ठितान् गज-शिक्षायाम् ऐरावत-समान् युधि ॥ 32 ॥

निहन्त्रून् पर-सैन्यानां गृहे तस्मिन् ददर्श सः ।
क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥ 33 ॥

मेघ-संतति-निर्घोषान् दुर्धर्षान् समरे परैः ।
सहस्रं वाहिनीः तत्र जाम्बूनद-परिष्कृताः ॥ 34 ॥

हेम-जाल-परिच्छन्नाः तरुण-आदित्य-सन्निभाः ।
ददर्श राक्षस-इन्द्रस्य रावणस्य निवेशने ॥ 35 ॥

शिबिकाः विविध-आकाराः सः कपिः मारुत-आत्मजः ।
लता-गृहाणि चित्राणि चित्र-शाला-गृहाणि च ॥ 36 ॥

क्रीडा-गृहाणि च अन्यानि दारु-पर्वतकान् अपि ।
कामस्य गृहकं रम्यं दिवा-गृहकम् एव च ॥ 37 ॥

ददर्श राक्षस-इन्द्रस्य रावणस्य निवेशने ।
सः मन्दर-गिरि-प्रख्यं मयूर-स्थान-सङ्कुलम् ॥ 38 ॥

ध्वज-यष्टिभिः आकीर्णं ददर्श भवन-उत्तमम् ।
अनेक-रत्न-संकीर्णं निधि-जालं समन्ततः ॥ 39 ॥

धीर-निष्ठित-कर्म-अन्तं गृहं भूत-पतेः इव ।
अर्चिभिः च अपि रत्नानां तेजसा रावणस्य च ॥ 40 ॥

विरराज अथ तत् वेश्म रश्मिमान् इव रश्मिभिः ।
जाम्बूनद-मयानि येन शयनानि आसनानि च ॥ 41 ॥

भाजनानि च मुख्यानि ददर्श हरि-यूथ-पः ।
मधु-आसव-कृत-क्लेदं मणि-भाजन-सङ्कुलम् ॥ 42 ॥

मनोरमम् असंबाधं कुबेर-भवनं यथा ।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ॥ 43 ॥

मृदङ्ग-तल-घोषैः च घोष-वद्भिः विनादितम् ।
प्रासाद-संघात-युतं स्त्री-रत्न-शत-सङ्कुलम् ॥ 44 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे षष्ठः सर्गः ॥

HOME          PREVIOUS               NEXT

No comments: